मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 453, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. १९ पान ५५
पुत्रपौत्रधनान्विताः ॥५९॥ पुत्रे राज्यं परित्यज्य राजा शांतिपरायणः । सस्त्रीक एकांते सोऽभूद्भजद्गणनायकम् ॥६०॥ अंते स्वानंदगो राजा ब्रह्मभूतो बभूव ह । क्रमेण सर्वे लोका वै ब्रह्मभूता बभूविरे ॥६१॥ एवं व्रतस्य माहात्म्यं सर्वसिद्धि- प्रदायकम् । कथितं ते महाराज पुनः शृणु कथानकम् ॥६२॥ गुर्जरे पापकर्माकः क्षत्रियो दुर्बलोऽभवत् । बाल्यात् प्रारभ्य दुष्टात्मा पापकर्मपरायणः ॥६३॥ स्त्रीमांसमदिरासक्तो जनानां च पशोस्तथा । वधे रतो गुरुं चैव मारयामास मंदधीः ॥६४॥ गुरोर्द्रव्यं गृहीत्वा स वनगश्च बभूव ह । एवं नानाविधं पापं चकार नित्यमादरात् ॥६५॥ एकदा ज्वरयुक्तः स बभूव क्षत्रियाधमः । अत्यंतं व्याकुलो जातो देहशुद्धिं न चास्मरत् ॥६६॥ दैवयोगेन शुक्ला सा श्रावणे सुसमागता । चतुर्थी तत्र तेनैवान्नं जलं भक्षितं न च ॥६७॥ पंचम्यां तेन किंचिद्वै भक्षितं त्वन्नमादरात् । रोगहीनो बभूवाऽपि पुनः पापं समाचरत् ॥६८॥ कालेन निधनं प्राप्तं तं नेतुं च समागताः । दुष्टं संगृह्य गाणेशा ब्रह्मभूतं प्रचक्रिरे ॥६९॥ अज्ञान- व्रतजेनैव पुण्येन क्षत्रियो ययौ । स्वानंदं किं पुनर्ज्ञानिनां कथा का नृपात्मज ॥७०॥ एवं नाना जनायाश्च चतुर्थीव्रतपुण्यतः । ब्रह्मभूता मया वक्तुं न शक्यास्ते बभूविरे ॥७१॥ इदं श्रावणगायाश्च वरदायाः पठेन्नरः । माहात्म्यं शृणुयाच्चेद्रा स सर्वं संलभेत फलम् ॥७२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते श्रावणशुक्लचतुर्थीव्रतकथनं नामाष्टादशोऽध्यायः ॥
❖★❖
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वद ब्रह्मन् मले मासे चतुर्थी या समागता । वरदा चरितं तस्याः सर्वसिद्धिप्रदायकम् ॥१॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहास पुरातनम् । चतुर्थी महिमायुक्तं श्रवणात् सर्वदं परम् ॥२॥ आंध्रे राजा सुषेणश्च चकार राज्यमुत्तमम् । नगरे चंपके भूप शस्त्रास्त्रे पारगो मतः ॥३॥ नीत्या धर्मेण कीर्त्या च दानेन यश आर्जयत् । देवविप्रातिथिप्रेप्सुर्यज्वा व्रतपरायणः ॥४॥ जित्वा भूमंडलं सर्वं राज्यं चकार धर्मतः । राजानः करदाः सर्वे सेवां चक्रुर्महीपतेः ॥५॥ तस्य राज्ये महा सर्पा बभक्षुस्तज्जनान् सदा । यत्र तत्राऽचरन् क्षुब्धाः सर्पाः परमदारुणाः ॥६॥ जनैः कुत्र महीपाल प्रगंतुं नैव शक्यते । तथैव दुःखितैः स्थातुं वनेषु च गृहेषु च ॥७॥ राजा तथैव दुःखार्तो महाभयपरायणः ।