भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 454, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 454

नागानां शांतये सर्वैः पंचमी साधिताऽभवत् ॥८॥ तथा स्म न शमं यांति नागाः परमदारुणाः । नानापुण्यानि तीर्थानि जनाश्चक्रुर्विशेषतः ॥९॥ तथाऽधिकं ययुः क्रूरा नागाः सर्वत्र भूमिषु । राजेंद्रः स्वगुरुं तत्र जैमिनिं शरणं ययौ ॥१०॥ तं प्रणम्य पुरस्तस्य संस्थितः स कृतांजलिः । तं मुनिर्मानयामासाऽऽसनदानाद्विशेषतः ॥११॥ पप्रच्छ विनयेनैव युक्तं किमर्थमागतः । सुषेणः स तथोवाच निःश्वस्य मुनिपुंगवम् ॥१२॥ सुषेण उवाच । स्वामिन् सर्पा अपाराश्च धर्षतश्च सदा जनान् । न स्थातुं शक्यते तत्र भयसंकुलितैर्मुने ॥१३॥ नानोपायाः कृतास्तत्र न शांतिं लेभिरे ततः । तदर्थं त्वां महाभाग प्रष्टुमत्र समागतः ॥१४॥ वद सर्पगणानां च शांतये किं करोम्यहम् । विप्र नो चेत् त्वत्समीपे देहत्यागं करोमि वै ॥१५॥ वसिष्ठ उवाच । एवं पृष्टो महातेजा जैमिनिस्तमुवाच ह । स्वशिष्यं निंदयन् राजंस्तच्छृणुष्व समाहितः ॥१६॥ जैमिनिरुवाच । चतुर्थीजं महापापिन्भ्रष्टं राज्ये तव व्रतम् । तेन त्वं च मृतैः सर्वैर्नरके प्रपतिष्यसि ॥१७॥ चतुर्णां पुरुषार्थानां दातृत्वाद्वरदा मता । तथा संकटनाशित्वात् संकष्टी सा प्रकीर्तिता ॥१८॥ यदि व्रतं च सर्वादौ न कृतं चेन्निरर्थकम् । कर्महीनं चतुर्भिस्तन्नित्यं कार्या ततः प्रभो ॥१९॥ एवमुक्त्वा चतुर्थ्याश्च माहात्म्यं मुनिसत्तमः । कथयामास तच्छ्रुत्वा सुषेणस्तं तथाऽब्रवीत् ॥२०॥ सुषेण उवाच । कीदृशोऽयं गणेशानो व्रतं यस्य महाद्भुतम् । वद तस्य स्वरूपं मे भजिष्यामि महाप्रभुम् ॥२१॥ जैमिनिरुवाच । न वक्तुं शक्यते राजन् केनाप्येतत् स्वरूपकम् । उपाधिना युतं ढुंढिं वदामि शृणु तत्त्वतः ॥२२॥ अहं पुरा सुशांत्यर्थं व्यासं च शरणं गतः । मह्यं संकथितं तेन साक्षात्नारायणेन च ॥२३॥ तदेव त्वां वदिष्यामि स्वशिष्यं च नृपाधमम् । यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम् ॥२४॥ देहदेहिमयं सर्वं गकाराक्षरवाचकम् । णकारवाचकं ब्रह्म संयोगायोगरूपकम् ॥२५॥ तयोः स्वामी गणेशस्तु पश्य वेदे महामते । चित्ते निवासकत्वाच्चिंतामणिवै स कथ्यते ॥२६॥ चित्तरूपा स्वयं बुद्धिर्भ्रांतिरूपा महीपते । सिद्धिस्तत्र तयोर्योगे प्रलभ्येत तयोः पतिः ॥२७॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं षडक्षरम् । सुषेणाय यथान्यायं विधियुक्तं विशेषतः ॥२८॥ ततस्तेनाभ्यनुज्ञातः स्वपुरं स जगाम ह । तत्राऽऽदौ मलमासश्च संप्राप्तस्तेन भूमिप ॥२९॥ मलमासे गणेशस्य वरदाख्यं समागतम् । सोऽपि शुक्ले चतुर्थीजं व्रतं चक्रे सुभक्तितः ॥३०॥ नागरैर्विविधैर्लोकैः समीपग्रामसंस्थितैः । तत्कृतं विधिना राजन् सर्वसिद्धिप्रदायकम् ॥३१॥ ततस्तेन सुषेणेन प्रशस्तं भूममंडले । कृतं ततो जनाः सर्वे चक्रुर्हर्षसमन्विताः ॥३२॥ अभवन् व्रतपुण्येन सर्पा अंतर्हिता बभुः । लोका रोगादिभिः