मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 455, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. २० पान ५७ सर्वे वर्जिता हर्षसंयुताः ॥३३॥ पुत्रपौत्रादिसंयुक्ता धनधान्यसमन्विताः । नानासुखेषु संसक्ता अभवंस्तत्र ते ततः ॥३४॥ राजा गणपतिं नित्यमभजन्नान्यचेतसा । षडक्षरेण मंत्रेण विधियुक्तेन पूजयन् ॥३५॥ पुत्रे राज्यं विनिक्षिप्य सस्त्रीकः स वनं ययौ । तत्र विघ्नेशमेवं सोऽपूजयद्यत्नतत्परः ॥३६॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह । जनाः सर्वे व्रते संस्थाः शुक्लकृष्णभवे परे ॥३७॥ स्वांते क्रमेण ते सर्वे ब्रह्मभूता बभूविरे । व्रतस्यैव प्रभावेण न किंचिद् दुर्लभं भवेत् ॥३८॥ अन्यच्छृणु महीपाल चरितं मलमासगम् । पुण्यं शुक्लचतुर्थीजं श्रवणात् सर्वदं भवेत् ॥३९॥ हस्तिनापुरवासी च क्षत्रियः कः सुदारुणः । बाल्यात् प्रभृति वै सोऽपि पापाचारो बभूव ह । ॥४०॥ द्रव्यलोभार्थमेवं स्वजनकं स जघान ह । परस्त्री- लालसः पूर्णश्चौरकर्मपरोऽभवत् ॥४१॥ एवं नानाविधं पापं चक्रेऽसौ दुर्मतिः सदा । वने स्थितः कदाचिद्वै जनान् जघ्ने महाखलः ॥४२॥ एतस्मिन्नंतरे तत्र सर्पेणैव महीपते । दष्टः सोऽपि भयोद्विग्नो गृहे गंतुं मनो दधे ॥४३॥ ततो विषेण संव्याप्तो देहस्तेन पपात ह । दैवयोगेन तत्राऽसौ जलान्न्रहितोऽभवत् ॥४४॥ शुक्लपक्षे मले मासे चतुर्थी सा तिथस्तदा । तेन प्राप्ता तत्र भूप अज्ञानेन व्रतं कृतम् ॥४५॥ पंचम्यां स मृतस्तत्र वने घोरे महाखलः । स्वानंदे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥४६॥ नाना जना व्रतेनैव ब्रह्मभूता बभूविरे । इह भुक्त्वाऽखिलान् भोगानंते वक्तुं न शक्यते ॥४७॥ इदं चतुर्थीमाहात्म्यं मलमासे शृणोति यत् । शुक्लपक्षे लभेत् सोऽपि पठेद्वा सर्वमंजसा ॥४८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मलमासशुक्लचतुर्थीचरितवर्णनं नाम एकोनविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । संश्रुत्य वरदाया वै माहात्म्यं सर्वदं परम् । अत्यंतं कृतकृत्योऽहं जातो नास्त्यत्र संशयः ॥१॥ नानेन सदृशं किंचिद्व्रतं सर्वार्थदं परम् । धन्यास्ते पुरुषा विप्र चतुर्थीव्रतकारकाः ॥२॥ अधुना संकटायाश्च माहात्म्यं वद विस्तरात् । न तृप्यामि सुधारूपां कथां श्रुत्वा समासतः ॥३॥ मुद्गल उवाच । एवं पृष्टो महायोगी वसिष्ठ- स्तमुवाच ह । तच्छृणुष्व प्रजानाथ श्रवणानंददायकम् ॥४॥ वसिष्ठ उवाच । तव भावं विदित्वाऽहं संतुष्टो नृपसत्तम । पुण्यवानसि येन त्वं गणेशे भक्तिमानसि ॥५॥ न ह्यल्पपुण्ययोगेन गणेशस्य महात्मनः । कथायां जायते प्रीतिर्धन्योऽस्यत्र न संशयः ॥६॥ कथां शृणु महाभाग चतुर्थीसंश्रितां पराम् । कृष्णपक्षे महापुण्यां सर्वसिद्धिप्रदायिनीम् ॥७॥