मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 461, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. २२ पान ६३ निरतोऽभवत् ॥३४॥ चांडालैर्योनिसंबंधं पुत्रपुत्रीसमुद्भवम् । चकार मंदधीः सोऽपि मद्यमांसपरायणः ॥३५॥ स कदाचिद्वने संस्थो जनान् हंतुं समुद्यतः । द्रव्यलोभी महापापी परस्त्रीलालसोऽभवत् ॥३६॥ तत्र फाल्गुनमासे सा चतुर्थी कृष्णगा- ऽऽगता । संस्थितः पर्वतद्रोण्यां बभूव ब्राह्मणोऽधमः ॥३७॥ तत्र कश्चिन्नृपः सैन्यैश्चतुरंगैः समागतः । तद्भयात् सोऽपि तत्रैव संस्थितोऽन्नजलैर्विना ॥३८॥ महत् सैन्यं नृपस्यैव मार्गे गमनकारकम् । किंचिद्दिवसशेषे तत् संपूर्णगतमभवत् ॥३९॥ ततः सोऽपि बहिर्वीक्ष्य निःस्रुतो भयवर्जितः । जगाम स्वगृहं चंद्रोदये दुष्टः क्षुधातुरः ॥४०॥ बभक्षान्नं स्वपुत्रैः स रात्रौ सुप्तो निजालये । तत्र सर्पेण दष्टश्च ममार नृप दुर्मतिः ॥४१॥ ततो गणेशदूतैः स नीतः स्वानंदके पुरे । दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥४२॥ अज्ञानव्रतपुण्येन विधिहीनेन भो नृप । मुक्तश्चतुर्भिरेवं स किं पुनर्ज्ञानिनां परम् ॥४३॥ एतादृशा महाभागा विधियुक्ता विधिं विना । व्रतपुण्यप्रभावेण ब्रह्मभूता बभूविरे ॥४४॥ तत्रैवं कति ते ब्रूयां नालं वर्षायुतैरपि । भवामि नृप माहात्म्यं संक्षेपेण निरूपितम् ॥४५॥ इदं फाल्गुनमासे या चतुर्थी कृष्णगा मता । तस्याः शृणोति माहात्म्यं पठेद्वा सर्वमालभेत् ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते फाल्गुनकृष्णचतुर्थीवर्णनं नामैकविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । चैत्रकृष्णचतुर्थी या तां मे वद महामुने । न तृप्यामि गणेशस्य कथां श्रुत्वा सुखप्रदाम् ॥१॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । चतुर्थीमहिमायुक्तं सर्वसिद्धिप्रदायकम् ॥२॥ कलिंगे नृपवर्यश्चोग्रसेनो धर्मतत्परः । यज्वा दानपरो नित्यं धर्मात्मा शंसितव्रतः ॥३॥ शस्त्रास्त्रकुशलो धीमान् सत्यवाक् नीतिसंयुतः । जित्वा राजगणान् सर्वांश्चकार राज्यमुत्तमम् ॥४॥ तस्य राज्ये नृपश्रेष्ठ बभक्षुः सर्वमानवान् । अपारास्तत्पुरे व्याघ्राः समागत्य महाबलाः ॥५॥ उग्रसेनश्च शस्त्रैस्तान् जघान नृपसंयुतः । तथा स्म न शमं यांति व्याघ्रा दैवोद्भवा यथा ॥६॥ लोकाः संपीड़िता व्याघ्रैर्निंनिंदुस्तं नृपं तदा । पापकर्मो नृपोऽयं वै प्रजाभ्यो दुःखदायकः ॥७॥ धर्मयुक्तो यदा राजा प्रजास्तत्र सुखे रताः । किं कर्तव्यं प्रजाभिश्च दुष्टे राजनि नित्यदा ॥८॥ स राजर्षिदूतमुखाच्छ्रुत्वा दुःखसमन्वितः । ययौ वनं प्रधानेषु राज्यं त्यक्त्वा सुदारुणम् ॥९॥ तत्र गत्वा स एकांते तताप तप उत्तमम् ।