मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 460, कुल 1023 में से
संदर्भ में पढ़ें[खं. ४ अ. २१] [पान ६२]
ज्ञानं किं करोमि महामुने ॥९॥ नारद उवाच । शिवेन प्रेषितोऽहं वै त्वदर्थं राक्षसोत्तम । शृणु ज्ञानप्रदं पूर्णं वाक्यं तत्कुरु सादरः ॥१०॥ चतुर्विधं जगद्भूतं संकटं संमतं बुधैः । तन्नाशार्थं व्रतं मुख्यं संकष्टीसंज्ञकं कुरु ॥११॥ एवमुक्त्वा चतुर्थ्याः स माहात्म्यं नारदोऽब्रवीत् । तच्छ्रुत्वा रावणस्तं चाब्रवीद्धर्षसमन्वितः ॥१२॥ रावण उवाच । कीदृशोऽयं गणाधीशस्तस्य ज्ञानं वद प्रभो । यस्य व्रतं चतुर्णां च पदार्थानां प्रदायकम् ॥१३॥ न कृतं चेच्चतुर्णां तन्नाशकं नाऽत्र संशयः । सर्वार्दौ संमतं विप्र सर्वसिद्धिप्रदायकम् ॥१४॥ एवं पृष्टो महायोगी नारदस्तमुवाच ह । हर्षेण महता युक्तो रावणं लोकरावणम् ॥१५॥ नारद उवाच । महज्ज्ञानं कथितुं गणेशस्य न शक्यते । उपाधिना वदिष्यामि राक्षसाधिप तच्छृणु ॥१६॥ गणः समूह- रूपश्च समूहा ब्रह्मवाचकाः । बाह्यांतरादियोगेऽयं समूहो जायते यतः ॥१७॥ देहिदेहमयं ब्रह्म गकाराक्षरवाचकम् । संयोगायोगरूपं यणकाराक्षरगं मतम् ॥१८॥ तयोर्योगे गणेशश्च स्वामी सर्वत्र संमतः । तं भजस्व विधानेन तदा शांति- मवाप्स्यसि ॥१९॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं दशाक्षरम् । रावणाय महायोगी विधियुक्तं तमब्रवीत् ॥२०॥ यदि त्यजसि दैत्येंद्र तदा भ्रंशमवाप्स्यसि । अतो गणेशमंत्रो न त्याज्यो रक्षः कदाचन ॥२१॥ एवमुक्त्वा महातेजा नारदों- ऽतर्दधे स्वयम् । रावणस्य तदा प्राप्ता संकष्टी फाल्गुनी नृप ॥२२॥ सा कृता तेन हर्षेण विधियुक्तेन कर्मणा । व्रतपुण्य- प्रभावेण स्फूर्तिः प्राप्ता च तत्क्षणात् ॥२३॥ चकार स ततः शुक्लां कृष्णां वै राक्षसाधिपः । जनान् विशेषेणाबोध्य सह तैर्गणपे रतः ॥२४॥ ततो ज्ञानं समालब्धं रावणेन महात्मना । ययौ स्वनगरे दैत्यै राज्यं चक्रे मदान्वितः ॥२५॥ दुष्ट- संगतियोंगेन क्रमेण ज्ञानमुत्तमम् । नष्टं तस्य सुदुष्टस्य स्त्रीमांसादिपरोऽभवत् ॥२६॥ अहं गणेशरूपश्च नाऽन्यो जगति वर्तते । न पापपुण्यभोक्तृत्वं कस्य पूजनमाचरे ॥२७॥ ततो ज्ञानमदेनैव त्यक्तो मंत्रः सुखप्रदः । व्रतं त्यक्तमिदं पुण्यं पूजा त्यक्ता विशेषतः ॥२८॥ नष्टं ज्ञानं स्थितिर्नष्टा राक्षसो राक्षसोऽभवत् । धर्मलोपे रतोऽत्यंतं चकार कर्मखंडनम् ॥२९॥ तेनैव दोषयुक्तोऽभूद्धतो रामेण तत्क्षणात् । राक्षसैः स्वजनैः सार्धं तव पुत्रेण धीमता ॥३०॥ दशरथ उवाच । अहं वंध्यश्च विप्रेश रावणश्च प्रवर्तते । किमिदं भाषसे स्वामिन् कूटरूपं भ्रमप्रदम् ॥३१॥ वसिष्ठ उवाच । कल्पे कल्पे स रामो वै तव पुत्रोऽभवत्प्रभुः । जघान रावणं वीरो गाणपत्यबलान्वितः ॥३२॥ अन्यच्छृणु चरित्रं त्वं फाल्गुने संकटीभवम् । सर्वपापहरं पूर्णं भुक्तिमुक्तिप्रदायकम् ॥३३॥ महाराष्ट्रे द्विजः कश्चित् पापकर्मो बभूव ह । ब्राह्मणत्वं परित्यज्य चांडाल्यां