मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 459, कुल 1023 में से
संदर्भ में पढ़ेंयहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:
खं. ४ अ. २१ पान ६१ कंपितो राजसत्तमः । जगाद तान् प्रणम्यैव हा हा कृत्वा सुदारुणम् ॥८४॥ शूरसेन उवाच । पापानां गणना नास्ति प्रायश्चित्तं न विद्यते । अधुना तादृशं चात्र मया किं क्रियते गणाः ॥८५॥ कृपया सर्वपापानां प्रायश्चित्तं महाद्भुतम् । कथ्यतां तत् करिष्यामि देहपातावधि किल ॥८६॥ ततस्तं गाणपत्यास्तेऽब्रुवन् हर्षसमन्विताः । गजानन इति प्राज्ञ श्रावयस्व जनाधमम् ॥८७॥ चतुर्वेदसमुद्धृतं सारं ब्रह्ममुखोद्गतम् । चतुर्मुखैश्च संगीतं सुयोगेन गजाननम् ॥८८॥ तेषां वचनमाकर्ण्य शूरसेनः प्रहर्षितः । गजाननेति वैश्यस्याऽजपत् कर्णे स सादरः ॥८९॥ श्रुत्वा पापविनिर्मुक्तो वैश्यः स्वर्णतनूर्यथा । कुष्ठहीनः स शोभाभिर्युक्तो वै हर्षितोऽभवत् ॥९०॥ ततः सर्वैः समायुक्तो नगरस्थैर्विशेषतः । चतुराकरजै राजा ययौ विघ्नेश- मादरात् ॥९१॥ स्वानंदे गणपं दृष्ट्वा ब्रह्मभूताश्च जंतवः । बभूवुः स यथा राजा गाणपत्यो बभूव ह ॥९२॥ ब्रह्मभूतः स राजेंद्रो व्रतपुण्यप्रभावतः । जंतुभिः सहितश्चातः कोऽर्हो वर्णयितुं व्रतम् ॥९३॥ चतुर्विधं जगत् सर्वं संकटं संमतं नृप । तत्त्यक्त्वा व्रतपुण्येन ब्रह्मभूतो भवेन्नरः ॥९४॥ इदं माघचतुर्थ्यास्तु संकष्ट्याः संशृणोति यः । माहात्म्यं वाऽपि पठति सर्वार्थं लभते परम् ॥९५॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते माघकृष्णचतुर्थीमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । ब्रह्मन् श्रुत्वा च वै माघी संकष्टीजं सुविस्मितः । माहात्म्यं सर्वदं पुण्यं सर्वसंकट- हारकम् ॥१॥ फाल्गुने कृष्णपक्षे या चतुर्थी संकटी मता । तस्याश्चरित्रमेवं मे कथयस्व कृपानिधे ॥२॥ वसिष्ठ उवाच । पौलस्त्यो रावणः प्रोक्तस्तपस्तप्त्वा सुदारुणम् । वरं लब्ध्वा त्रिलोकस्य राज्यं चक्रे महाबलः ॥३॥ प्रधानेषु समाक्षिप्य राज्यं राक्षससत्तमः । एकांते निर्जने गत्वा ध्यानसंस्थो बभूव ह ॥४॥ वेदोपनिषदि प्रोक्तं ब्रह्म वेदांतपारगम् । ध्यायति स्म विचारज्ञो ज्ञानयोगपरायणः ॥५॥ एवं बहौ गते काले न लेभे ज्ञानमुत्तमम् । तदा खेदसमायुक्तः सोऽतिष्ठच्छंकरं स्मरन् ॥६॥ ततः शिवेन तत्रैव प्रेषितो नारदो मुनिः । तं दृष्ट्वा नारदं रक्षः प्रणनाम कृतांजलिः ॥७॥ पप्रच्छ खेदसंयुक्तो नारदं योगिनां वरम् । स्वामिन् ज्ञानप्रदं किंचिद्वदस्व करुणायुतः ॥८॥ ज्ञानार्थं ध्याननिष्ठोऽहं नित्यं तिष्ठामि चादरात् । न लेभे तन् महत्