मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 458, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. २० पान ६० सोवाच नागतः स्वामिन् पुत्रो मे स्वगृहे प्रभो । एकपुत्रस्नेहवशात् पुनस्तं सो गवेषयत् ॥५९॥ निशीथे निद्रिते लोके जनान् पप्रच्छ मार्गगान् । बुधः कुत्र प्रहृष्टो मामेकं वदत पुत्रकम् ॥६०॥ एवं नाना जनास्तेन पृष्टास्तेन जगुः सुतम् । ततो भीमोऽन्त्यजो वृद्धो मिलितस्तं जगाद सः ॥६१॥ तेनैव कथितं स्पष्टं पुत्रो वेश्यागृहे स्थितः । मद्यपः किं पृच्छसि त्वं तपस्विन् जातिदूषणम् ॥६२॥ तस्य तद्वचनं श्रुत्वा विस्मितो मुनिपुंगवः । वेश्यागृहे स्वपुत्रं तं दृष्ट्वोवाच मदान्वितम् ॥६३॥ किं त्वं मद्यप वेश्याया गृहे तिष्ठसि दूषक । अधुना देहमुत्सृज्य व्रजस्व यममंदिरे ॥६४॥ पुन्नामनरकात् त्राता पुत्रस्तेन प्रकीर्तितः । नरकप्रद एवं मे किमर्थं पुत्र आगतः ॥६५॥ एवं पितुर्वचः श्रुत्वा बुधः क्रोधसमन्वितः । लत्तया ताडयामास पितरं च पुनः पुनः ॥६६॥ वृद्धः क्षुधातुरः सोऽपि मर्मस्थाने प्रहारतः । ममार तं प्रगृह्याऽसौ बुधश्चिक्षेप वै बहिः ॥६७॥ प्रभाते स्वगृहे पुत्रमागतं सा बुधं ततः । जननी स्नेहसंयुक्ता पप्रच्छ क्व स्थितं त्वया ॥६८॥ गवेषितुं च ते पुत्र पिता त्वां प्रजगाम ह । तमानय महाभाग ततः स्नानं समाचर ॥६९॥ मातृवचनमेवं स बुधः श्रुत्वा पुनः पुनः । क्रोधयुक्तः स्वयष्ट्या तां ताडयामास मस्तके ॥७०॥ मस्तकः स्फुटितस्तस्याः सा ममार तपस्विनी । बहिः प्रक्षिप्य तां वेश्यागृहमागात् स हर्षितः ॥७१॥ अदहंस्तौ जनाः संतो ब्राह्मणीं ब्राह्मणं तथा । पितृगौरवभावेन राजा तं न शशास ह ॥७२॥ पुनर्गेहागतं सा तं सावित्री दुःखसंयुता । उवाच किं कृतं स्वामिन् पितुर्मातुर्वधात्मकम् ॥७३॥ वेश्यां त्वं मां परित्यज्य किमर्थं गच्छसि प्रभो । सर्वावयवसंपूर्णां सुंदरीं धर्मपालिनीम् ॥७४॥ चतुरा करजेष्वेव नरदेहः सुदुर्लभः । ज्ञानकर्मादिसंयुक्तस्तत्र ब्राह्मण्यकं कुतः ॥७५॥ ब्राह्मणत्वं समासाद्य पापमिच्छति दुर्मतिः । निधिं त्यक्त्वा स्वहस्तस्थं विष्ठाभक्षणलालसः ॥७६॥ तथा कृतं त्वया नाथ तेनाऽहं दुःखिता भृशम् । कां गतिं च त्वया सार्धं गमिष्यामि महामते ॥७७॥ एवमाकर्ण्य दुष्टात्मा तां जघान स्वयष्टिभिः । काष्ठैः सा मर्मभेदेन ममार स्वर्गगाऽभवत् ॥७८॥ एवं स्वल्पे गते काले बुधोऽगात् स्वगुरोर्गृहे । अयभद्रुरुपत्नीमेकाकिनीं तां सुदुर्मतिः ॥७९॥ दारुणानि च पापानि एवं नानाविधानि सः । चकारांते गृहे याम्ये यातनां बुभुजे ततः ॥८०॥ भुक्तभोगः स वैश्योऽयं जातः कुष्ठसमन्वितः । पापाचरणमत्रापि कुरुते दारुणं महत् ॥८१॥ द्रव्यलोभार्थमेवायं वने गत्वा द्विजादिकान् । हंति नित्यं सतीनां च स वने दूषकोऽभवत् ॥८२॥ शूरसेन अतस्त्यक्त्वैनं याहि त्वं गजाननम् । अस्य स्पर्शेन राजेंद्र सचैलं स्नानमापतेत् ॥८३॥ दूतानां वचनं श्रुत्वा