मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ४ अ. २० पान ६० सोवाच नागतः स्वामिन् पुत्रो मे स्वगृहे प्रभो । एकपुत्रस्नेहवशात् पुनस्तं सो गवेषयत् ॥५९॥ निशीथे निद्रिते लोके जनान् पप्रच्छ मार्गगान् । बुधः कुत्र प्रहृष्टो मामेकं वदत पुत्रकम् ॥६०॥ एवं नाना जनास्तेन पृष्टास्तेन जगुः सुतम् । ततो भीमोऽन्त्यजो वृद्धो मिलितस्तं जगाद सः ॥६१॥ तेनैव कथितं स्पष्टं पुत्रो वेश्यागृहे स्थितः । मद्यपः किं पृच्छसि त्वं तपस्विन् जातिदूषणम् ॥६२॥ तस्य तद्वचनं श्रुत्वा विस्मितो मुनिपुंगवः । वेश्यागृहे स्वपुत्रं तं दृष्ट्वोवाच मदान्वितम् ॥६३॥ किं त्वं मद्यप वेश्याया गृहे तिष्ठसि दूषक । अधुना देहमुत्सृज्य व्रजस्व यममंदिरे ॥६४॥ पुन्नामनरकात् त्राता पुत्रस्तेन प्रकीर्तितः । नरकप्रद एवं मे किमर्थं पुत्र आगतः ॥६५॥ एवं पितुर्वचः श्रुत्वा बुधः क्रोधसमन्वितः । लत्तया ताडयामास पितरं च पुनः पुनः ॥६६॥ वृद्धः क्षुधातुरः सोऽपि मर्मस्थाने प्रहारतः । ममार तं प्रगृह्याऽसौ बुधश्चिक्षेप वै बहिः ॥६७॥ प्रभाते स्वगृहे पुत्रमागतं सा बुधं ततः । जननी स्नेहसंयुक्ता पप्रच्छ क्व स्थितं त्वया ॥६८॥ गवेषितुं च ते पुत्र पिता त्वां प्रजगाम ह । तमानय महाभाग ततः स्नानं समाचर ॥६९॥ मातृवचनमेवं स बुधः श्रुत्वा पुनः पुनः । क्रोधयुक्तः स्वयष्ट्या तां ताडयामास मस्तके ॥७०॥ मस्तकः स्फुटितस्तस्याः सा ममार तपस्विनी । बहिः प्रक्षिप्य तां वेश्यागृहमागात् स हर्षितः ॥७१॥ अदहंस्तौ जनाः संतो ब्राह्मणीं ब्राह्मणं तथा । पितृगौरवभावेन राजा तं न शशास ह ॥७२॥ पुनर्गेहागतं सा तं सावित्री दुःखसंयुता । उवाच किं कृतं स्वामिन् पितुर्मातुर्वधात्मकम् ॥७३॥ वेश्यां त्वं मां परित्यज्य किमर्थं गच्छसि प्रभो । सर्वावयवसंपूर्णां सुंदरीं धर्मपालिनीम् ॥७४॥ चतुरा करजेष्वेव नरदेहः सुदुर्लभः । ज्ञानकर्मादिसंयुक्तस्तत्र ब्राह्मण्यकं कुतः ॥७५॥ ब्राह्मणत्वं समासाद्य पापमिच्छति दुर्मतिः । निधिं त्यक्त्वा स्वहस्तस्थं विष्ठाभक्षणलालसः ॥७६॥ तथा कृतं त्वया नाथ तेनाऽहं दुःखिता भृशम् । कां गतिं च त्वया सार्धं गमिष्यामि महामते ॥७७॥ एवमाकर्ण्य दुष्टात्मा तां जघान स्वयष्टिभिः । काष्ठैः सा मर्मभेदेन ममार स्वर्गगाऽभवत् ॥७८॥ एवं स्वल्पे गते काले बुधोऽगात् स्वगुरोर्गृहे । अयभद्रुरुपत्नीमेकाकिनीं तां सुदुर्मतिः ॥७९॥ दारुणानि च पापानि एवं नानाविधानि सः । चकारांते गृहे याम्ये यातनां बुभुजे ततः ॥८०॥ भुक्तभोगः स वैश्योऽयं जातः कुष्ठसमन्वितः । पापाचरणमत्रापि कुरुते दारुणं महत् ॥८१॥ द्रव्यलोभार्थमेवायं वने गत्वा द्विजादिकान् । हंति नित्यं सतीनां च स वने दूषकोऽभवत् ॥८२॥ शूरसेन अतस्त्यक्त्वैनं याहि त्वं गजाननम् । अस्य स्पर्शेन राजेंद्र सचैलं स्नानमापतेत् ॥८३॥ दूतानां वचनं श्रुत्वा
यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:
खं. ४ अ. २१ पान ६१ कंपितो राजसत्तमः । जगाद तान् प्रणम्यैव हा हा कृत्वा सुदारुणम् ॥८४॥ शूरसेन उवाच । पापानां गणना नास्ति प्रायश्चित्तं न विद्यते । अधुना तादृशं चात्र मया किं क्रियते गणाः ॥८५॥ कृपया सर्वपापानां प्रायश्चित्तं महाद्भुतम् । कथ्यतां तत् करिष्यामि देहपातावधि किल ॥८६॥ ततस्तं गाणपत्यास्तेऽब्रुवन् हर्षसमन्विताः । गजानन इति प्राज्ञ श्रावयस्व जनाधमम् ॥८७॥ चतुर्वेदसमुद्धृतं सारं ब्रह्ममुखोद्गतम् । चतुर्मुखैश्च संगीतं सुयोगेन गजाननम् ॥८८॥ तेषां वचनमाकर्ण्य शूरसेनः प्रहर्षितः । गजाननेति वैश्यस्याऽजपत् कर्णे स सादरः ॥८९॥ श्रुत्वा पापविनिर्मुक्तो वैश्यः स्वर्णतनूर्यथा । कुष्ठहीनः स शोभाभिर्युक्तो वै हर्षितोऽभवत् ॥९०॥ ततः सर्वैः समायुक्तो नगरस्थैर्विशेषतः । चतुराकरजै राजा ययौ विघ्नेश- मादरात् ॥९१॥ स्वानंदे गणपं दृष्ट्वा ब्रह्मभूताश्च जंतवः । बभूवुः स यथा राजा गाणपत्यो बभूव ह ॥९२॥ ब्रह्मभूतः स राजेंद्रो व्रतपुण्यप्रभावतः । जंतुभिः सहितश्चातः कोऽर्हो वर्णयितुं व्रतम् ॥९३॥ चतुर्विधं जगत् सर्वं संकटं संमतं नृप । तत्त्यक्त्वा व्रतपुण्येन ब्रह्मभूतो भवेन्नरः ॥९४॥ इदं माघचतुर्थ्यास्तु संकष्ट्याः संशृणोति यः । माहात्म्यं वाऽपि पठति सर्वार्थं लभते परम् ॥९५॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते माघकृष्णचतुर्थीमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । ब्रह्मन् श्रुत्वा च वै माघी संकष्टीजं सुविस्मितः । माहात्म्यं सर्वदं पुण्यं सर्वसंकट- हारकम् ॥१॥ फाल्गुने कृष्णपक्षे या चतुर्थी संकटी मता । तस्याश्चरित्रमेवं मे कथयस्व कृपानिधे ॥२॥ वसिष्ठ उवाच । पौलस्त्यो रावणः प्रोक्तस्तपस्तप्त्वा सुदारुणम् । वरं लब्ध्वा त्रिलोकस्य राज्यं चक्रे महाबलः ॥३॥ प्रधानेषु समाक्षिप्य राज्यं राक्षससत्तमः । एकांते निर्जने गत्वा ध्यानसंस्थो बभूव ह ॥४॥ वेदोपनिषदि प्रोक्तं ब्रह्म वेदांतपारगम् । ध्यायति स्म विचारज्ञो ज्ञानयोगपरायणः ॥५॥ एवं बहौ गते काले न लेभे ज्ञानमुत्तमम् । तदा खेदसमायुक्तः सोऽतिष्ठच्छंकरं स्मरन् ॥६॥ ततः शिवेन तत्रैव प्रेषितो नारदो मुनिः । तं दृष्ट्वा नारदं रक्षः प्रणनाम कृतांजलिः ॥७॥ पप्रच्छ खेदसंयुक्तो नारदं योगिनां वरम् । स्वामिन् ज्ञानप्रदं किंचिद्वदस्व करुणायुतः ॥८॥ ज्ञानार्थं ध्याननिष्ठोऽहं नित्यं तिष्ठामि चादरात् । न लेभे तन् महत्
[खं. ४ अ. २१] [पान ६२]
ज्ञानं किं करोमि महामुने ॥९॥ नारद उवाच । शिवेन प्रेषितोऽहं वै त्वदर्थं राक्षसोत्तम । शृणु ज्ञानप्रदं पूर्णं वाक्यं तत्कुरु सादरः ॥१०॥ चतुर्विधं जगद्भूतं संकटं संमतं बुधैः । तन्नाशार्थं व्रतं मुख्यं संकष्टीसंज्ञकं कुरु ॥११॥ एवमुक्त्वा चतुर्थ्याः स माहात्म्यं नारदोऽब्रवीत् । तच्छ्रुत्वा रावणस्तं चाब्रवीद्धर्षसमन्वितः ॥१२॥ रावण उवाच । कीदृशोऽयं गणाधीशस्तस्य ज्ञानं वद प्रभो । यस्य व्रतं चतुर्णां च पदार्थानां प्रदायकम् ॥१३॥ न कृतं चेच्चतुर्णां तन्नाशकं नाऽत्र संशयः । सर्वार्दौ संमतं विप्र सर्वसिद्धिप्रदायकम् ॥१४॥ एवं पृष्टो महायोगी नारदस्तमुवाच ह । हर्षेण महता युक्तो रावणं लोकरावणम् ॥१५॥ नारद उवाच । महज्ज्ञानं कथितुं गणेशस्य न शक्यते । उपाधिना वदिष्यामि राक्षसाधिप तच्छृणु ॥१६॥ गणः समूह- रूपश्च समूहा ब्रह्मवाचकाः । बाह्यांतरादियोगेऽयं समूहो जायते यतः ॥१७॥ देहिदेहमयं ब्रह्म गकाराक्षरवाचकम् । संयोगायोगरूपं यणकाराक्षरगं मतम् ॥१८॥ तयोर्योगे गणेशश्च स्वामी सर्वत्र संमतः । तं भजस्व विधानेन तदा शांति- मवाप्स्यसि ॥१९॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं दशाक्षरम् । रावणाय महायोगी विधियुक्तं तमब्रवीत् ॥२०॥ यदि त्यजसि दैत्येंद्र तदा भ्रंशमवाप्स्यसि । अतो गणेशमंत्रो न त्याज्यो रक्षः कदाचन ॥२१॥ एवमुक्त्वा महातेजा नारदों- ऽतर्दधे स्वयम् । रावणस्य तदा प्राप्ता संकष्टी फाल्गुनी नृप ॥२२॥ सा कृता तेन हर्षेण विधियुक्तेन कर्मणा । व्रतपुण्य- प्रभावेण स्फूर्तिः प्राप्ता च तत्क्षणात् ॥२३॥ चकार स ततः शुक्लां कृष्णां वै राक्षसाधिपः । जनान् विशेषेणाबोध्य सह तैर्गणपे रतः ॥२४॥ ततो ज्ञानं समालब्धं रावणेन महात्मना । ययौ स्वनगरे दैत्यै राज्यं चक्रे मदान्वितः ॥२५॥ दुष्ट- संगतियोंगेन क्रमेण ज्ञानमुत्तमम् । नष्टं तस्य सुदुष्टस्य स्त्रीमांसादिपरोऽभवत् ॥२६॥ अहं गणेशरूपश्च नाऽन्यो जगति वर्तते । न पापपुण्यभोक्तृत्वं कस्य पूजनमाचरे ॥२७॥ ततो ज्ञानमदेनैव त्यक्तो मंत्रः सुखप्रदः । व्रतं त्यक्तमिदं पुण्यं पूजा त्यक्ता विशेषतः ॥२८॥ नष्टं ज्ञानं स्थितिर्नष्टा राक्षसो राक्षसोऽभवत् । धर्मलोपे रतोऽत्यंतं चकार कर्मखंडनम् ॥२९॥ तेनैव दोषयुक्तोऽभूद्धतो रामेण तत्क्षणात् । राक्षसैः स्वजनैः सार्धं तव पुत्रेण धीमता ॥३०॥ दशरथ उवाच । अहं वंध्यश्च विप्रेश रावणश्च प्रवर्तते । किमिदं भाषसे स्वामिन् कूटरूपं भ्रमप्रदम् ॥३१॥ वसिष्ठ उवाच । कल्पे कल्पे स रामो वै तव पुत्रोऽभवत्प्रभुः । जघान रावणं वीरो गाणपत्यबलान्वितः ॥३२॥ अन्यच्छृणु चरित्रं त्वं फाल्गुने संकटीभवम् । सर्वपापहरं पूर्णं भुक्तिमुक्तिप्रदायकम् ॥३३॥ महाराष्ट्रे द्विजः कश्चित् पापकर्मो बभूव ह । ब्राह्मणत्वं परित्यज्य चांडाल्यां
खं. ४ अ. २२ पान ६३ निरतोऽभवत् ॥३४॥ चांडालैर्योनिसंबंधं पुत्रपुत्रीसमुद्भवम् । चकार मंदधीः सोऽपि मद्यमांसपरायणः ॥३५॥ स कदाचिद्वने संस्थो जनान् हंतुं समुद्यतः । द्रव्यलोभी महापापी परस्त्रीलालसोऽभवत् ॥३६॥ तत्र फाल्गुनमासे सा चतुर्थी कृष्णगा- ऽऽगता । संस्थितः पर्वतद्रोण्यां बभूव ब्राह्मणोऽधमः ॥३७॥ तत्र कश्चिन्नृपः सैन्यैश्चतुरंगैः समागतः । तद्भयात् सोऽपि तत्रैव संस्थितोऽन्नजलैर्विना ॥३८॥ महत् सैन्यं नृपस्यैव मार्गे गमनकारकम् । किंचिद्दिवसशेषे तत् संपूर्णगतमभवत् ॥३९॥ ततः सोऽपि बहिर्वीक्ष्य निःस्रुतो भयवर्जितः । जगाम स्वगृहं चंद्रोदये दुष्टः क्षुधातुरः ॥४०॥ बभक्षान्नं स्वपुत्रैः स रात्रौ सुप्तो निजालये । तत्र सर्पेण दष्टश्च ममार नृप दुर्मतिः ॥४१॥ ततो गणेशदूतैः स नीतः स्वानंदके पुरे । दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥४२॥ अज्ञानव्रतपुण्येन विधिहीनेन भो नृप । मुक्तश्चतुर्भिरेवं स किं पुनर्ज्ञानिनां परम् ॥४३॥ एतादृशा महाभागा विधियुक्ता विधिं विना । व्रतपुण्यप्रभावेण ब्रह्मभूता बभूविरे ॥४४॥ तत्रैवं कति ते ब्रूयां नालं वर्षायुतैरपि । भवामि नृप माहात्म्यं संक्षेपेण निरूपितम् ॥४५॥ इदं फाल्गुनमासे या चतुर्थी कृष्णगा मता । तस्याः शृणोति माहात्म्यं पठेद्वा सर्वमालभेत् ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते फाल्गुनकृष्णचतुर्थीवर्णनं नामैकविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । चैत्रकृष्णचतुर्थी या तां मे वद महामुने । न तृप्यामि गणेशस्य कथां श्रुत्वा सुखप्रदाम् ॥१॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । चतुर्थीमहिमायुक्तं सर्वसिद्धिप्रदायकम् ॥२॥ कलिंगे नृपवर्यश्चोग्रसेनो धर्मतत्परः । यज्वा दानपरो नित्यं धर्मात्मा शंसितव्रतः ॥३॥ शस्त्रास्त्रकुशलो धीमान् सत्यवाक् नीतिसंयुतः । जित्वा राजगणान् सर्वांश्चकार राज्यमुत्तमम् ॥४॥ तस्य राज्ये नृपश्रेष्ठ बभक्षुः सर्वमानवान् । अपारास्तत्पुरे व्याघ्राः समागत्य महाबलाः ॥५॥ उग्रसेनश्च शस्त्रैस्तान् जघान नृपसंयुतः । तथा स्म न शमं यांति व्याघ्रा दैवोद्भवा यथा ॥६॥ लोकाः संपीड़िता व्याघ्रैर्निंनिंदुस्तं नृपं तदा । पापकर्मो नृपोऽयं वै प्रजाभ्यो दुःखदायकः ॥७॥ धर्मयुक्तो यदा राजा प्रजास्तत्र सुखे रताः । किं कर्तव्यं प्रजाभिश्च दुष्टे राजनि नित्यदा ॥८॥ स राजर्षिदूतमुखाच्छ्रुत्वा दुःखसमन्वितः । ययौ वनं प्रधानेषु राज्यं त्यक्त्वा सुदारुणम् ॥९॥ तत्र गत्वा स एकांते तताप तप उत्तमम् ।
खं. ४ अ. २२ पान ६४
सूर्य ध्यात्वा च सौरैस्तं तोषयामास नित्यदा ॥१०॥ निराहारपरो राजा गते वर्षे बभूव ह । अस्थिचर्मावशेषः स तथाऽपि तप आचरत् ॥११॥ ततो ब्राह्मणरूपेण रविस्तं प्रजगाम ह । राजा प्रणम्य तं विप्रं फलैरपूजयत्ततः ॥१२॥ फलानि भक्षयित्वा स उवाच राजसत्तमम् । तपः किमर्थं राजन् ते देहं शोषयसे वद ॥१३॥ उग्रसेनस्ततो विप्रं तमुवाच कृतांजलिः । दुःखेन महता युक्तो निःश्वस्य स पुनः पुनः ॥१४॥ उग्रसेन उवाच । करोमि नीतियुक्तेन राज्यं धर्मेण नित्यदा । तत्र व्याघ्रगणाः क्रूरा नरान् संभक्षयंति भोः ॥१५॥ शांतयेऽत्र मया तेषां नानोपायाः कृता मुने । अपरास्ते भवंतीह तदर्थं तप आचरम् ॥१६॥ राज्ञो वचनमाकर्ण्य विप्रस्तं पुनरब्रवीत् । निंदयन् सर्वभावेन साक्षाद्भानुः प्रतापवान् ॥१७॥ द्विज उवाच । महापापी त्वमेवासि कर्मदूषणतो नृप । चतुर्थीजं व्रतं मुख्यं नष्टं राज्ये सुदुर्मते ॥१८॥ सर्वादौ तत् प्रकर्तव्यं सर्वसिद्धि- प्रदायकम् । तदा कर्म कृतं भूप फलयुक्तं भवेत् सदा ॥१९॥ चतुःपदार्थदं पूर्णं व्रतानामुत्तमं व्रतम् । व्याघ्रास्तद्दोषभावेन पीडयंति च मानवान् ॥२०॥ एवमुक्त्वा चतुर्थीजं माहात्म्यं द्विजसत्तमः । श्रावयामास तस्मै स श्रुत्वा सोऽभूत् सुविस्मितः ॥२१॥ जगाद हर्षसंयुक्तस्तं विप्रं ज्ञानदं परम् । कृतांजलिः प्रणम्याऽसौ वचनं स्वहितप्रदम् ॥२२॥ उग्रसेन उवाच । किं त्वं साक्षात् स्वयं भानुस्तपसा तुष्टचेतसा । आगतोऽनुग्रहार्थं मे धन्योऽहं ते प्रदर्शनात् ॥२३॥ अधुना वद मे ब्रह्मन् गणेशस्य स्वरूपकम् । ज्ञात्वा तं देवदेवेशं भजिष्यामि विशेषतः ॥२४॥ द्विज उवाच । शृणु राजन् गणेशस्य स्वरूपं योगदं परम् । भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥२५॥ चित्ते चिंतामणिः साक्षात् पंचचित्तप्रचालकः । पंचवृत्तिनिरोधेन प्राप्यते योगसेवया ॥२६॥ असंप्रज्ञातसंस्थश्च गजशब्दो महामते । तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥२७॥ आंतिरूपा महामाया सिद्धिर्वामांगसंश्रिता । आंतिधारकरूपा च बुद्धिः सा दक्षिणांगके ॥२८॥ तयोः स्वामी गणेशश्च मायाभ्यां खेलते सदा । तं भजस्व विधानेन तदा शं लभसे नृप ॥२९॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं दशाक्षरम् । विधियुक्तं ततः सूर्योऽतर्धानं प्रचकार ह ॥३०॥ राजा स्वनगरे गत्वा प्रधानैरनुमोदितः । कथयामास वृत्तांतं सर्वेभ्यः सुखदायकम् ॥३१॥ तत्रादौ चैत्रगा कृष्णा चतुर्थी सहसाऽऽगता । तां चकार विधानेन गणेशे भक्तिसंयुतः ॥३२॥ समीपे नागराः संस्था नरा ग्रामांतरे स्थिताः । चक्रुस्ते हर्षसंयुक्ताः संकष्टीं कष्टहारिणीम् ॥३३॥ तत् सर्वत्र व्रतं मुख्यं प्रशस्तं स चकार ह । भयाद्द्रुतेन चक्रुस्ते जना भूमिसंस्थिताः परे ॥३४॥ ततो व्याघ्रा महोग्राः स्म सर्वेऽतर्धानमाययुः । रोगादिभिर्विनिर्मुक्ताश्चिक्रीडुर्हर्षिता
खं. ४ अ. २३ पान ६५ ═════════════════════════════════════════════════════════════════════════════════════════════ जनाः ॥३५॥ राजा गणपतिं नित्यमभजन्नान्यचेतसा । गुरुरूपेण भानुं स पूजयामास नित्यदा ॥३६॥ गते काले ततः पुत्रं स संस्थाप्य महामतिः । राज्ये निवृत्तिमास्थाय गणेशमभजत् परम् ॥३७॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह । तस्य राज्ये जनाः सर्वे क्रमात्ते मुक्तिमाप्नुवन् ॥३८॥ एवं व्रतस्य माहात्म्यं लेशतः कथितं मया । अन्यच्छृणु महाभाग पापनाशकं परम् ॥३९॥ द्राविडे भिल्लजातिस्थः क्षत्रियः पापकारकः । भिल्लैः संस्कारहीनश्च संबंधं स चकार ह ॥४०॥ एकदा वनसंस्थश्च द्रव्यलोभी दुरात्मवान् । कंचित् दृष्ट्वा नरं तत्राऽधावच्छस्त्रप्रधारकः ॥४१॥ पपाल सोऽपि दूरं वै नरो भयसमन्वितः । ऋक्षस्तत्र समायातो वने कश्चिन् महाबलः ॥४२॥ तेनैव क्षत्रियः पापी धृतो वेगेन भूमिप । ऋक्षं स तं स शस्त्रेण पातयामास भूतले ॥४३॥ भिल्लस्तत्र पपाताऽसौ भृशमृक्षेण पीडितः । निर्जने वनमध्ये स विललापाऽतिदारुणम् ॥४४॥ दैवयोगेन सा देवी चैत्री संकष्टहारिणी । तद्दिने तेन संप्राप्ता चतुर्थी कृष्णपक्षगा ॥४५॥ जलान्नसंविहीनोऽयं बभूवे पापकारकः । चंद्रोदये फलं तत्र पपात नृप वृक्षतः ॥४६॥ दुष्टेन क्षत्रियेणैव भक्षितं विकलेन तत् । पंचम्यां स मृतस्तत्र ब्रह्मभूतो बभूव ह ॥४७॥ एवं नाना जना राजन् व्रतस्यैव प्रभावतः । इह भुक्त्वाऽखिलान् भोगानंते ब्रह्म प्रलेभिरे ॥४८॥ तन्न ते कति शक्यं न वक्तुं वर्षायुतैरपि । नानेन सदृशं किंचिद्व्रतं सर्वार्थदायकम् ॥४९॥ अज्ञानेन कृतं दुष्टैर्व्रतं गानेश्वरं महत् । ब्रह्मभूतकरं प्रोक्तं ज्ञानिनां तत्र का कथा ॥५०॥ इदं चैत्रचतुर्थ्या यो माहात्म्यं प्रपठेन्नरः । शृणोति चेच्च कृष्णायाः स सर्वं प्रलभेदू ध्रुवम् ॥५१॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चैत्रकृष्णचतुर्थीचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥ ❖❖❖ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वैशाखे कृष्णगायास्त्वं चतुर्थ्या वद सांप्रतम् । माहात्म्यं मुनिशार्दूल न तृप्यामि समासतः ॥१॥ वसिष्ठ उवाच । अगस्त्यो मुनिमुख्यश्च समुद्रशोषणे रतः । न शशाक महातेजा ब्रह्माणं शरणं ययौ ॥२॥ ब्रह्मणा नोदितः सोऽपि चकार व्रतमुत्तमम् । वैशाखे कृष्णपक्षे स चतुर्थ्यां विधिपूर्वकम् ॥३॥ ज्ञात्वा माहात्म्यमुग्रं स नित्यं मंत्रपरायणः । शौक्लं कार्ष्णं व्रतं सर्वैश्चकार मुनिसत्तमैः ॥४॥ दशरथ उवाच । तपस्तेजोयुतः साक्षादगस्त्यः सर्व- शास्त्रवित् । व्रतहीनः कथं सोऽपि कुंठितश्च महाद्युतिः ॥५॥ वसिष्ठ उवाच । शृणु राजन् महाभाग सम्यक् पृष्टं विचक्षण ।
ख. ४ अ. २३ | पान ६६
अधुना तस्य माहात्म्यं कथयामि समासतः ॥६॥ अगस्त्यस्तपसा युक्तो बभूवाऽतीव दारुणः । न समस्तेन राजेंद्र ब्राह्मणेषु तपस्विषु ॥७॥ न व्रतं तेन तदपि कृतमज्ञानभावतः । ब्रवीमि कारणं तत्र शृणु संशयनाशनम् ॥८॥ वेदशास्त्रपुराणेषु कर्म नानाविधं नृप । कथितं तच्च सर्वं तु कर्तुं केन प्रशक्यते ॥९॥ स्वेच्छया कर्मणः कर्ता स्वयं भवति मानवः । तत्र मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥१०॥ नित्यं नैमित्तिकं कर्म द्विविधं शास्त्रमार्गतः । तत्रागस्त्यश्चकाराऽसौ नित्यं कर्म महीपते ॥११॥ अन्यव्रतादिकं सर्वं त्यक्त्वा विधिसमन्वितः । तपस्सु तत्परो नान्यदजानात् स तपोधनः ॥१२॥ अतस्तेन व्रतं मुख्यं न धृतं राजसत्तम । न समर्थेन शास्त्रेऽन्यच्छृणुष्व कथयामि ते ॥१३॥ गणेशभजनं मुख्यं सर्वेषां नात्र संशयः । सर्वसिद्धिकरं प्रोक्तं वेदादिषु विशेषतः ॥१४॥ राजशार्दूल तदपि नराः संस्कारहीनकाः । नाभजंस्तं गणेशानं ब्रह्मणां नायकं परम् ॥१५॥ तपसा दग्धपापश्च पुण्यराशिः प्रजायते । तदा रुचिर्भवेत्तत्र गणेशे भक्तिसंयुता ॥१६॥ अतोऽयं तपसा युक्तोऽगस्त्यस्तेजस्विनां वरः । जातः पात्रं विजानीहि ज्ञाने गाणेशसंज्ञिते ॥१७॥ अगस्त्यः क्रोधसंयुक्तो नृप वातापिरक्षकम् । समुद्रं तं शोषयितुं क्षोभयामास चोद्यतः ॥१८॥ तत्राऽतिकुंठितो जातस्तदर्थं विस्मितः स्वयम् । गत्वा ब्रह्माणमानम्य वचनं स जगाद ह ॥१९॥ अगस्त्य उवाच । तपसा जलधिं ब्रह्मन् शोषयामि न संशयः । तत्र मे तपसः शक्तिः कुंठिताऽभूत् कथं वद ॥२०॥ ब्रह्मोवाच । शृणु पुत्र महाभाग कारणं कथयामि ते । नित्यकर्मपरस्त्वं वै सदा तपसि संस्थितः ॥२१॥ गणेशस्मरणं वत्स पूजनं नित्यमादरात् । करोषि तेन भवति कर्म ते सफलं मुने ॥२२॥ तथापि नित्यवत्तात्त चतुर्थी व्रतमुत्तमम् । कर्तव्यं यत्त्वया त्यक्तं तन्नैमित्तिकमानतः ॥२३॥ चतुर्णां पुरुषार्थानां दायकं शास्त्रसंमतम् । तेन हीनस्त्वमद्यैव कुंठितो नात्र संशयः ॥२४॥ अधुना तद्व्रतं मुख्यं कुरु भावसमन्वितः । नित्यवत्तन् महाभाग समाचर विशेषतः ॥२५॥ तदा संकटहीनस्त्वं चतुष्पदसमन्वितः । पूर्णयोगी भवसि वै गाणपत्यमवाप्स्यसि ॥२६॥ ततस्तेन कृतं राजन् व्रतं गाणेश्वरं महत् । पुरुषार्थसमायुक्तस्तेनैव स बभूव ह ॥२७॥ समुद्रं शोषयामास व्रतपुण्यप्रभावतः । अचलां गणनांथस्य भक्तिं चकार नित्यदा ॥२८॥ ततस्तेन मुनींद्रेषु विख्यातं तत् कृतं व्रतम् । नित्यवत्ते व्रतं मुख्यं चक्रुः सर्वार्थसिद्धये ॥२९॥ अन्यच्च शृणु माहात्म्यं पुण्यदं श्रवणात्नृणाम् । अवंतीनगरे वैश्यो बभूवे पापकारकः ॥३०॥ बाल्यात् प्रारभ्य तेनैव कृतं पापं महाद्भुतम् । मरणावधि राजेंद्र वक्तुं तन्न प्रशक्यते ॥३१॥
मातृहा द्रव्यलोभार्थं पितृहा संबभूव ह । गुरुद्रोहं चकारैव ब्रह्महत्यां समाचरत् ॥३२॥ ततो लोकैः समाज्ञप्तो राजा तं निर्वासयत् । ग्रामाद्वनं समागत्य गुहायां संस्थितोऽभवत् ॥३३॥ जघान मार्गगान् लोकान् जीवान्नानाविधान् सदा । तत्र प्रयोजनेनैव हीनो वा युक्त एव वा ॥३४॥ ततो बहुधनो जातश्चौराः संमिलिताः परे । सह तैस्तत्र तेनैव कृतं दुर्गं सुदुर्गमम् ॥३५॥ पर्वतद्रोणगं तत्र गृहं चक्रे महाखलः । चौरास्तत्र निवासार्थमाययुः सर्वतः स्थिताः ॥३६॥ तेषां राजा बभूवाऽसौ भार्या तत्र महीपते । समानीताऽतिदुष्टेन पुत्रपुत्रीभिरावृता ॥३७॥ यथेष्टं रमते तत्र चौरैश्चौर्यपरायणः । चकार लेशमात्रं स न पुण्यं दुर्मतिः कदा ॥३८॥ मार्गे परस्त्रियं धृत्वा स सतीदूषकोऽभवत् । काश्चित्तत्र मृता राजन् स्त्रियः सत्यो महाभयात् ॥३९॥ सोऽवंतीपालको लोकै राजेंद्रो बोधितस्ततः । मार्गरोधभयाच्चौरं तं हंतुं प्रोद्यतोऽभवत् ॥४०॥ सर्वत्र दशदिक्ष्वेव सैनिकाः प्रेषितास्ततः । राज्ञा चक्रुः प्रयत्नेन रुद्धं सर्वत्र तं खलम् ॥४१॥ ततस्ते संधृतं चौरं पुत्रश्चौरैः समन्वितम् । राज्ञे निवेदयामासुस्तं दुष्टं वैश्ययोनिजम् ॥४२॥ राजा चौरान् जघानापि जनैः शस्त्रधरैर्नृप । तं वैश्यं बंधने क्षिप्त्वा ताडयन्नित्यदा खलम् ॥४३॥ ततोऽकस्माच्चतुर्थी सा वैशाखी सहसाऽऽगता । कृष्णा तत्र च वैश्येन न प्राप्तं त्वन्नभक्षणम् ॥४४॥ नित्यताडनभावेन दुःखितोऽतितरां खलः । क्षुधया पीडितोऽत्यंतं पापी स निशि चैककः ॥४५॥ ततो दयायुतैस्तत्र राजदूतैश्च भक्षणम् । किंचिद्दत्तं विधोरेवोदये वैश्यो बभक्ष सः ॥४६॥ पंचम्यां स मृतस्तत्र बंधने ताडितो भृशम् । गाणेशैर्ब्रह्मभूतः स कृतः स्वानंदके पुरे ॥४७॥ एतादृशः सुदुष्टात्मा व्रतपुण्यप्रभावतः । ब्रह्मभूतो बभूवाऽपि किं पुनर्व्रतकारिणः ॥४८॥ एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे । तेऽत्र वक्तुं न शक्या वै भवंति नृपसत्तम ॥४९॥ इदं वैशाखमासे वै चतुर्थ्याः संशृणोति चेत् । कृष्णाया वाऽपि पठति माहात्म्यं लभते परम् ॥५०॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते वैशाखकृष्णचतुर्थीचरितं नाम त्रयोविंशोऽध्यायः ॥
पान ६८
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । माहात्म्यं तच्छ्रुतं मुख्यं मया वैशाखके परम् । संकष्टीसंभवं मुख्यं न तृप्तस्तदपि प्रभो ॥१॥ अतो ज्येष्ठे चतुर्थी या संकष्टी मुनिसत्तम । तस्याश्चरितमेवं मे वद पूर्णं समासतः ॥२॥ वसिष्ठ उवाच । निषधेषु महाभागो नलो नामाऽभवन्नृपः । तेजस्वी शस्त्रसंपन्नः शास्त्रज्ञश्च बभूव ह ॥३॥ रूपवान् धनसंपन्नश्चतुरंगबलान्वितः । शस्त्रास्त्रैर्भूमिपालांश्च बभौ जित्वा महाबलान् ॥४॥ सामंता वशगा यस्य करदा इतरे नृपाः । सार्वभौमो महाराजः शशास पृथिवीमिमाम् ॥५॥ धर्मेण दानशीलेन नीत्या त्यागेन भूमिपः । यशसा पूरयामास त्रैलोक्यं स चराचरम् ॥६॥ इन्द्रलोके विधेर्लोके कैलासे वैष्णवे पदे । यस्य वार्तां प्रचक्रुस्ते धर्मशीलस्य देवपाः ॥७॥ त्रिलोकीगमने सक्तः साधुदर्शनतत्परः । देवविप्रातिथिप्रेप्सुर्दीनांधादीनपालयत् ॥८॥ दमयंती महाभागा रूपेणाऽप्रतिमा भुवि । भार्या यस्य विशालाक्षी जगन्मोहकरी बभौ ॥९॥ गुणा वर्णयितुं नैव शक्यास्तस्य महात्मनः । पुण्यश्लोकः स वै राजा कलि जिग्ये महायशाः ॥१०॥ कदाचिद्दनगेनैव भ्रात्रा कलिवशेन सः । जितो द्यूतेन राज्यं त्यक्त्वा वनं स जगाम ह ॥११॥ तत्राऽपि कलिना मत्स्यमिषेणैव महासती । प्रेरितेन नलेनाऽसौ त्यक्ता नृप वनांतरे ॥१२॥ अर्धवस्त्रधरा साऽपि दमयंती पितुर्गृहे । नानादुःखसमायुक्ता जगाम नलवर्जिता ॥१३॥ गूप्तरूपेण वर्षाणि त्रीणि भ्रमणलालसः । नलो बभ्राम तेजस्वी वने वस्त्रार्धधारकः ॥१४॥ धर्मशीलं स राजानं कलिना पीडितं परम् । दृष्ट्वा मुनिवरस्तत्र नारदः प्रजगाम ह ॥१५॥ तं दृष्ट्वा लज्जितो राजा प्रणामं कृतांजलिः । लज्जितं तं समाज्ञाय नारदः स उवाच ह ॥१६॥ नारद उवाच । मा लज्जां कुरु राजेंद्र कर्मणां गतिरीदृशी । सावधानमना भूत्वा शृणु मे परमं वचः ॥१७॥ तव राज्ये महाभाग व्रतं नष्टं महाद्भुतम् । चतुर्थी- संज्ञितं तेन राज्यभ्रष्टोऽसि सांप्रतम् ॥१८॥ सर्वार्दौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् । न कृतं चेन् महाराज कर्म सर्वं निरर्थकम् ॥१९॥ चतुःफलविहीनस्त्वं भवस्यत्र न संशयः । अतोऽवश्यकभावेन कुरु त्वं सर्वसिद्धिदम् ॥२०॥ एवमुक्त्वा महायोगी नारदः श्रावयन्नृपम् । माहात्म्यं व्रतमुख्यस्य चतुर्थ्याः शांतिकारकम् ॥२१॥ तच्छ्रुत्वा विस्मितो राजा नलस्तं प्रत्युवाच ह । गणेश्वरस्य माहात्म्यं भजिष्यामि वदस्व मे ॥२२॥ नारद उवाच । गणेश्वरस्य माहात्म्यं शांतियोगफलप्रदम् । वक्तुं न शक्यते राजंस्तथापि शृणु मे वचः ॥२३॥ ब्रह्मा विष्णुश्च शंभुश्च शक्तिः सूर्योऽमरास्तथा । शेषादिनागमुख्यास्तं भजंति कुलदैवतम् ॥२४॥ अन्नप्राणादिकान्येव ब्रह्माणि नृपसत्तम । भजंति तं विशेषेण कुलदेवं सनातनम् ॥२५॥
खं. ४ अ. २४ पान ६९ महावाक्यादिभिर्वेदास्तं भजंति सुयोगदम् । महावाक्यानि राजेंद्र भजंति ब्रह्मनायकम् ॥२६॥ सर्वसिद्धिप्रदा यस्य वामांगे प्रकृतिः परा । पंचचित्तमयी बुद्धिर्दक्षिणांगे व्यवस्थिता ॥२७॥ स्वानंदे वसतिर्यस्य सर्वपूज्योऽयमुच्यते । सर्वादिर्गण- नाथश्च विप्रैः सोऽंतेषु तिष्ठति ॥२८॥ गणाः समूहरूपाश्चांतरबाह्यादियोगतः । तेषां स्वामी गणेशोऽयं तं भजस्व विधानतः ॥२९॥ एवमुक्त्वा ददौ तस्मै नृप मंत्रं षडक्षरम् । विधियुक्तं ततः सोऽंतर्दधे गाणेशको मुनिः ॥३०॥ ततः स नृपशार्दूलो ध्यात्वा हृदि गजाननम् । मंत्रं जजाप भावेन स्वात्मानं निंदयन् भृशम् ॥३१॥ ततः कर्कोटकेनैव दष्टस्तेन बभूव ह । विरूपस्तं ददौ वस्त्रं नागः पुनः स्वरूपदम् ॥३२॥ तेन संहर्षितो भूप ऋतुपर्णं जगाम ह । तेनैव मानितोऽत्यंतं विरूपो गुणसंयुतः ॥३३॥ पितुर्गृहे गता नारी दमयंती महासती । तद्व्रतं कारयामास गत्वा तामपि नारदः ॥३४॥ नलेन दमयंत्या तज्ज्येष्ठमासे समागतम् । प्रथमं तद्व्रतं मुख्यं संकष्टीसंज्ञकं कृतम् ॥३५॥ त्रीणि वर्षाणि पूर्णानि गुप्तरूपेण संस्थितः । नलश्चतुर्थीजेनैव पुण्येन ज्ञानवानभूत् ॥३६॥ ततः श्वशुरमागम्य ऋतुपर्णेन संयुतः । स्वात्मानं नागवस्त्रेण पूर्वरूपं चकार ह ॥३७॥ दमयंत्या युतः सोऽपि श्वशुरेण च सेनया । ऋतुपर्णेन राजेंद्रो गतः स्वनगरे ततः ॥३८॥ भ्रात्रा संमानितो- ऽत्यंतं चकार राज्यमुत्तमम् । विघ्नहीनः स्वभावेन हृष्टपुष्टजनैर्वृतः ॥३९॥ ततो बहौ गते काले पुत्रं राज्येऽभिषिच्य सः । सपत्नीको वने गत्वाऽभजत्तं गणनायकम् ॥४०॥ अंते जगाम राजाऽसौ स्वानंदे गणपं नृप । तत्रैव ब्रह्मभूतः स बभूव नलनामकः ॥४१॥ नलेन संप्रदिष्टा ये जना भूमितले ततः । शुक्लकृष्णचतुर्थीजं मुख्यं चक्रुर्व्रतं नृप ॥४२॥ ते सर्वे सुखसंयुक्ता बुभुजुः सुखमुत्तमम् । पुत्रपौत्रादिभिर्युक्ता रोगैः संवर्जिता नृप ॥४३॥ अंते क्रमेण सर्वे ते ब्रह्मभूता बभूविरे । एवं कृष्णे ज्येष्ठमासे माहात्म्यं संकटीभवम् ॥४४॥ कथितं ते नृपश्रेष्ठ पुनस्त्वं शृणु सिद्धिदम् । ज्येष्ठकृष्ण- चतुर्थीजं सर्वसंकटहारकम् ॥४५॥ मालवेंत्यजजः कश्चित् पापकर्मा बभूव ह । वनं गत्वा द्विजादीन् स जघान द्रव्य- लोलुपः ॥४६॥ एकाकिनीं स्त्रियं दृष्ट्वा बलेन बुभुजे खलः । सती परनरस्पर्शाहीना तत्याज सा तनुम् ॥४७॥ एवं नानाविधं पापं चकार जातिदूषणः । न तच्छक्यं कथयितुं पापभोगभयान् मया ॥४८॥ एकदा वनसंस्थश्च चांडालः शस्त्रधारकः । कंचित् पुरुषकं दृष्ट्वाऽधावत् स हननाय तम् ॥४९॥ पलायनपरः सोऽपि जगाम भयसंकुलः । हाहा कृत्वा पुरोदेशे स ततो निष्फलोऽभवत् ॥५०॥ एतस्मिन्नंतरे तत्र पुरुषाः शस्त्रधारकाः । राज्ञः समागतास्तत्र श्रुत्वा कोलाहलं तयोः ॥५१॥
खं. ४ अ. २५ पान ७०
ते धृत्वा ताडयामासुः पुनस्तं राजसेवकाः । बद्ध्वा राज्ञे ददुर्दुष्टं राजा चिक्षेप बंधने ॥५२॥ तत्रैव दैवयोगेन प्राप्ता ज्येष्ठ- चतुर्थिका । कृता तेनान्नहीनोऽयं बभूवे बंधनाकुलः ॥५३॥ चंद्रोदये दयायुक्तै रक्षकैस्तैर्महामते । अन्नं दत्तं तथा भुक्तं तेन दुष्टेन तत्क्षणात् ॥५४॥ राजाज्ञया च तं दुष्टं पंचम्यां जघ्नुरादरात् । स मृतोंत्यजजस्तत्र ब्रह्मभूतो बभूव ह ॥५५॥ एवं नाना जना राजन् व्रतपुण्यप्रभावतः । भुक्त्वा भोगांश्च ते सर्वे ब्रह्मभूता बभूविरे ॥५६॥ अपारमाहात्म्ययुतं व्रतं वक्तुं न शक्यते । तथाऽपि कथितं भूप माहात्म्यं संकटीभवम् ॥५७॥ इदं ज्येष्ठचतुर्थ्यास्तु कृष्णायाः संशृणोति यः । माहात्म्यं वा पठति स लभते स्वेप्सितं फलम् ॥५८॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः ॥
❖
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । आषाढे संकटी प्रोक्ता चतुर्थी चरितं शुभम् । तस्या वद महायोगिन् सर्वदं पापनाशनम् ॥१॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । सर्वसिद्धिकरं पूर्णं सेवितं चेष्टृपात्मज ॥२॥ वृत्रेण पीडितोऽत्यंतं महेंद्रश्चितयान्वितः । वने वसत्तु संत्रस्तस्त्यक्त्वा राज्यादिकं पुरा ॥३॥ मुनयः श्रुतिभिर्हीना भ्रष्टाचाराः समंततः । अतिष्ठंस्ते भयोद्विग्ना वर्णाः सर्वे तथा नृप ॥४॥ कर्मखंडनभावेन देवाः परमविह्वलाः । उपोषणपरा भूत्वाऽतिष्ठंस्ते मरणोन्मुखाः ॥५॥ गिरेर्गुहासु संस्थास्ते ददृशुर्मुनिपुंगवम् । विशेषज्ञं गृत्समदं योगिनां गुरुमागतम् ॥६॥ तं दृष्ट्वा दंडवत् सर्वे प्रणेमुरेंद्रमुख्यकाः । पप्रच्छुः पूजयित्वा तं स्वासने संस्थितं मुनिम् ॥७॥ इन्द्र उवाच । दृष्टिर्धन्या जन्म धन्यं पिता माता व्रतादिकम् । यज्ञो ज्ञानादिकं मे वै त्वदंघ्रेर्दर्शनात् प्रभो ॥८॥ तव दर्शनमात्रेण कल्याणं नो भविष्यति । साक्षाद्योगीश्वरस्यैव सर्वसिद्धिप्रदस्य च ॥९॥ वृत्रासुरेण दुष्टेन निर्जिता वयमेव च । राज्यं त्यक्त्वा वने विप्र तिष्ठामः पशवो यथा ॥१०॥ अत्रातिकर्मनाशेनोषोपणेन समन्विताः । मरिष्यामो न संदेहस्तत्र किं दर्शनं भवेत् ॥११॥ तथाऽपि पुण्ययोगेन प्राप्तं ते दर्शनं परम् । वद ब्रह्मन् दयां कृत्वा वृत्रनाशकरं महत् ॥१२॥ जगत् सर्वं महायोगिन् भ्रष्टाचारं कृतं
[header] खं. ४ अ. २५ पान ७१ [/header]
सदा । किं पश्यसि सुसंहारे प्राप्ते योगींद्रसत्तम ॥१३॥ वसिष्ठ उवाच । एवं पृष्टो गृत्समदस्तमुवाच दयान्वितः । विश्वरक्षण- भावार्थं दुष्टनाशनकरं वचः ॥१४॥ गृत्समद उवाच । राज्यं प्राप्य महाभाग सुर त्यक्ता चतुर्थिका। व्रतभ्रष्टोऽसि देवेंद्र अधुना तद्व्रतं कुरु ॥१५॥ ज्ञानमदेन विघ्नेशमंत्रस्त्यक्तस्तथा त्वया । किं चित्रं राज्यहीनत्वे दुर्मते मदलालस ॥१६॥ एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः । कथयामास तस्मै तत् पुनर्मंत्रं ददौ स्वयम् ॥१७॥ यदृच्छया गते राजन् मुनावेंद्रेण तत्ततः । व्रतं कृतं द्विजैर्देवैर्गणेशं संप्रपूज्य च ॥१८॥ तत्रादौ देवराजेनाषाढी कृष्णा महातिथिः । प्राप्ता चतुर्थिका भूप सा कृता भूतिदायिका ॥१९॥ गणेशं मनसा ध्यात्वा दधीचेरस्थिजं महत् । वज्रं धृत्वा ययौ देवैर्वृतं युद्धपरायणः ॥२०॥ चतुर्थीव्रतजेनाऽसौ प्रभावेण महासुरम् । कृत्वा युद्धं महाघोरं वज्रेणैव जघान तम् ॥२१॥ हत्वा वृत्रं महावीर्यं देवैः सह शतक्रतुः । स्वस्थोऽभूदमरावत्यां मुमुदे स्वजनैर्नृप ॥२२॥ ततो देवगणाः सर्वे स्वस्वस्थानेषु नित्यशः । शुक्लकृष्णभवं चक्रुश्चतुर्थीसंज्ञितं व्रतम् ॥२३॥ पृथिव्या सर्वलोकास्तद्व्रतं चक्रुरशेषतः। इन्द्रेण बोधितं भक्त्या सर्वसिद्धिकरं महत् ॥२४॥ मन्वंतरे गते देवैरिन्द्रः स्वानंदगोऽभवत् । दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥२५॥ भ्वामसंस्था नराः सर्वे क्रमेण प्रययुर्नृप । गणेशं ब्रह्मभूतास्ते व्रतपुण्यप्रभावतः ॥२६॥ एतत्ते कथितं स्वल्पं माहात्म्यं व्रतसंभवम् । पुनरन्यच्छृणुष्व त्वं पापकंचुकनाशनम् ॥२७॥ गुर्जरे ब्राह्मणः कश्चिद् बाल्यात् पापपरायणः । परयोनिषु संसक्तो जीवघातं चकार ह ॥२८॥ एकदा भगिनी यन्ध्या तेन दुष्टेन चाऽभवत् । मद्यमांसपरेणाऽपि चरता वनगह्वरे ॥२९॥ द्रव्यलोभी जघानाऽसौ द्विजादींश्च विशेषतः । पशुपक्षिगणान् राजन् भ्रष्टाचारः सुदुर्मतिः ॥३०॥ नित्यं चकार स खलो यवनैः सह भोजनम् । न शक्यं तन्मया तस्य पापं वर्णयितुं परम् ॥३१॥ एकदा वनमध्यस्थो बभूवे जातिदूषकः । आषाढे कृष्णपक्षे स चतुर्थ्यां पापकारकः ॥३२॥ दैवयोगेन तेनैव न प्राप्तं वनगह्वरे । किंचित्तेनाऽतिदुःखार्तस्तदा बभ्राम पर्वते ॥३३॥ तथाऽपि नालभत् किंचित् ततो दुःखपरायणः । अपराह्ने पुनः सोऽपि स्वगृहं गंतुमुत्सुकः ॥३४॥ न ददर्श स तत्राऽपि जलान्नं दैवयोगतः । आजगाम क्षुधार्तः स स्वगृहे शोकसंयुतः ॥३५॥ यवनजां समालिंग्य निशि चंद्रोदये नृप । बभक्षान्नं सुतैः सार्धं मोहितो मायया भृशम् ॥३६॥ ततो ज्वरयुतोऽकस्माद्बभूवे पापनिश्चयः । राजन् यवनजातेन न स्पृष्टा पापकारिणी ॥३७॥ पंचम्यां स मृतस्तत्र भृशं दुःखेन पीडितः । गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥३८॥ एतादृशा महापापा उद्धरंति व्रतेन वै ।
खं. ४ अ. २६ | पान ७२ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ अज्ञानकृतपुण्येन तत्र किं वर्णयाम्यहम् ॥३९॥ विधियुक्तं व्रतं भूप ये कुर्वंति नरोत्तमाः । दर्शनेन जनानां ते तारकाः संभवंति हि ॥४०॥ एवं व्रतप्रभावेण ब्रह्मभूता बभूविरे । अनंताश्चरितं तेषां वक्तुं नैव प्रशक्यते ॥४१॥ इदमाषाढसंकष्ट्याश्चरितं यः शृणोति चेत् । पठेद्वा लभते सोऽपि वाञ्छितं नात्र संशयः ॥४२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आषाढकृष्णचतुर्थीवर्णनं नाम पंचविंशोऽध्यायः ॥ ❧★❧ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणे कृष्णपक्षे या चतुर्थी संकटी भवेत् । माहात्म्यं वद तस्या मे सर्वेभ्यः सुख- दायकम् ॥१॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि श्रावणे संकटीभवम् । श्रवणात् सुखदः पूर्णो भवते पठनात्तथा ॥२॥ चन्द्रवंशे समुत्पन्नो युधिष्ठिरः प्रतापवान् । धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥३॥ साक्षाद्धर्मावतारश्च सत्यवाक् करुणायुतः । पांडुपुत्रो महातेजाः प्रजापालनतत्परः ॥४॥ द्रौपद्या भ्रातृभिश्चैव सहितः सर्वसंमतः । कुंत्या मात्रा महाभागो विख्यातः सर्वमंडले ॥५॥ कृष्णो यस्य सहायोऽभूत् सदा वृष्णिकुलोद्भवः । साक्षान्नारायणः श्रीमान् भूभारहरणे रतः ॥६॥ एकदा स्वगृहे राजा संस्थितो राजभिर्वृतः । राजसूयं महायज्ञं कृत्वा कृष्णविवर्जितः ॥७॥ धृतराष्ट्रेण तत्रैव प्रेषितो विदुरः स्वयम् । आजगाम स तं दृष्ट्वा मानयामास कुंतिजः ॥८॥ भोजिनं परमान्नेन विदुरं सदसि स्थितम् । तमुवाच महाभागो हर्षितः स युधिष्ठिरः ॥९॥ धन्यं मे जन्म कर्मादि त्वदंघ्रियुगदर्शनात् । वयं पाल्याः सदा तात त्वया धर्मभृता प्रभो ॥१०॥ कुशलं स्वजनानां ते किमर्थं त्वं समागतः । वद मे सकलं पूर्णं वृत्तांतं धृतराष्ट्रगम् ॥११॥ विदुर उवाच । सर्वत्र कुशलं वत्स स्वजनेषु महामते । धृतराष्ट्रस्य दुर्बुद्धेरादराद्वचनं शृणु ॥१२॥ पुत्रवत्सलभावेन दुर्योधनसमाश्रितः । तेनाऽहं प्रेषितो भूप त्वत्समीपे विचक्षणः ॥१३॥ इच्छति त्वां विजेतुं स प्रभो द्यूतेन मंदधीः । दुर्योधनो महापापी कुलक्लेशविवर्धनः ॥१४॥ कर्णेन प्रेरितोऽत्यंतं शकुनिना विशेषतः । सक्तस्ते राज्यहरणे दुःशासन- समन्वितः ॥१५॥ धृतराष्ट्रस्तथा राजन् मन्यते मनसि ध्रुवम् । स त्वामाह्वयते लोभी मया चैव युधिष्ठिर ॥१६॥ मा गच्छ दुर्मतिं तात पुत्रपक्षसमाश्रितम् । धृतराष्ट्रं च कुंत्या त्वं सस्त्रीको भ्रातृभिः कदा ॥१७॥ वसिष्ठ उवाच । विदुरस्य वचः ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
शीर्षक / हेडर: खं. ४ अ. २६ | पान ७३
मूल संस्कृत पाठ:
श्रुत्वा युधिष्ठिरो महायशाः । उवाच तं महाभागं निःश्वस्य वचनं हितम् ॥१८॥ युधिष्ठिर उवाच । शृणु तात मदीयं त्वं वाक्यं धर्मयुतं महत् । राज्ये सुसंस्थितो राजा धृतराष्ट्रो विशेषतः ॥१९॥ तदाज्ञावशगाः सर्वे वयं भीष्मादयः किल । अतो यामि त्वया सार्धं भावि यत्तद्भविष्यति ॥२०॥ धर्मयुक्तं वचः श्रुत्वा विदुरः खिन्नमानसः । न किंचिदुक्तवांस्तत्र तं निःश्वस्य महायशाः ॥२१॥ विदुरेण युताः सर्वे सस्त्रीकाः पांडवा नृप । समागताश्च द्रौपद्या धृतराष्ट्रं सभास्थितम् ॥२२॥ तेनाज्ञप्ताश्च ते सर्वे भ्रातरः कलहे रताः । चिकीर्षुर्द्युतममुग्रं वै दुर्योधनमुखैः पुरा ॥२३॥ शकुनिना महोग्रेण तपसा साधितं पुरा । द्यूतं तदेव राजेंद्र तदधीनं बभूव ह ॥२४॥ क्रमेण राज्यमुग्रं तत् सर्वं जित्वा सुयोधनः । वनवासे पांडवान् स स्थापयामास दुर्मतिः ॥२५॥ द्रौपदी तेन दुष्टेन सभायां सर्वसंनिधौ । समानीता स तां प्राह पत्नी मे भव सुंदरि ॥२६॥ पतयः पंच कुत्राऽपि न दृश्यंते स्त्रियाः क्वचित् । अस्माकं कुलजं सर्वं यशो नष्टं त्वया खले ॥२७॥ भ्राता तां हठसंयुक्तो नग्नां चक्रे महाखलः । भीष्मादींश्च तिरस्कृत्य दुःशासनसमन्वितः ॥२८॥ पांडवा धर्मरक्षार्थमसहंस्तस्य कर्म तत् । द्रौपद्या संस्मृतः कृष्णो गुप्तरूपधरो ययौ ॥२९॥ मायया वस्त्रसंयुक्तां द्रौपदीं स पुनः पुनः । चकार च ततः सर्वे क्षुभिताः स्वगृहं ययुः ॥३०॥ द्रौपदी पांडवैः सार्धं ययौ मुक्ता वने तदा । तत्र कृष्णः समायातो बलेन क्रोधसंयुतः ॥३१॥ उवाच राजशार्दूलं युधिष्ठिरं प्रतापवान् । कृष्ण उवाच । हत्वा दुर्योधनं तात सपक्षं राज्यकामुकम् ॥३२॥ त्वां राज्ये स्थापयिष्यामि मा गच्छ वनमेव च । ततस्तं धर्मराजस्तु जगाद वचनं हितम् ॥३३॥ क्रोधं त्यज महाबाहो धर्म रक्ष जनार्दन । धर्मयुक्तं च राज्यं मे देहि वृष्णिकुलोद्भव ॥३४॥ एवमुक्तो महातेजाः कृष्णस्तं प्रत्युवाच ह । कुरु त्वं भ्रातृभिः सार्धं गणेशोपासनं श्रिया ॥३५॥ सत्यासत्यसमाना व्यक्तैश्चतुर्धा बभौ प्रभुः । स्वानंदवासकर्ताऽसावस्माकं कुलदैवतम् ॥३६॥ एवमुक्त्वा ददौ तस्मै प्रभुर्मंत्रं दशाक्षरम् । स विधिं हर्षसंयुक्तः सर्वसिद्धिकरं परम् ॥३७॥ माहात्म्यं व्रतजं तत्र श्रावयामास केशवः । युधिष्ठिरस्य सर्वं वै पुण्यदं भ्रांतिनाशनम् ॥३८॥ चतुर्विधप्रदं पूर्णं सर्वादौ संमतं व्रतम् । कृतं चेत् कर्म तत् सर्वं सफलं भवति प्रभो ॥३९॥ तव राज्ये व्रतं मुख्यं नष्टं तेन महामते । राज्यभ्रष्टश्च संजातश्चतुःपदविवर्जितः ॥४०॥ श्रुत्वा युधिष्ठिरो राजा विस्मितः सुमहायशाः । गणेशं मनसि ध्यात्वा चकार विधिसंयुतः ॥४१॥ तत्रादौ श्रावणे मासे प्राप्ता संकटनाशिनी । चतुर्थी कृष्णपक्षे तां साधयामास सानुजैः ॥४२॥ शुक्लकृष्णचतुर्थीजं व्रतं चक्रुश्च पांडवाः ।
खं. ४ अ. २६ पान ७४ सस्त्रीकास्तेन ते सर्वे वनेषु सुखिनोऽभवन् ॥४३॥ पुनः स्वराज्यकर्तारो बभूवुश्च सुयोधनम् । हत्वा सर्वन्नृपैर्युक्तं कृष्णेन हर्षसंयुतः ॥४४॥ पुनस्तेन पृथिव्यां तद्विख्यातं प्रकृतं व्रतम् । शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे जनास्ततः ॥४५॥ इह भुक्त्वा- ऽखिलान् भोगान् पौत्रं राज्येऽभिषिच्य ते । पांडवा ज्ञानसंयुक्ता बभुः स्वांशेषु संगताः ॥४६॥ अन्ये जनाः क्रमेणैव गता गाणेश्वरं पदम् । दृष्ट्वा गणेश्वरं तत्र ब्रह्मभूता बभूविरे ॥४७॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यच्छृणु महाभाग महापुण्यप्रदं परम् ॥४८॥ कर्णाटे कारुकः कश्चिन् महापापपरोऽभवत् । वनेषु शस्त्रधारी जनान् जघान स नित्यदा ॥४९॥ परस्त्रियं तन्न दृष्ट्वैकाकिनीं स तथा दरात् । अयम्भ्रष्ठसंयुक्तो बलेन स महाखलः ॥५०॥ गोवधादिकमेवं स ब्राह्मणानां च हिंसनम् । चकार दुष्टभावेन द्रव्यार्थं मांसकारणात् ॥५१॥ एवं नित्यं वने गत्वा पापं चक्रे स दुर्मतिः । चोरो ग्रामे जनान् जघ्ने गृहीत्वाऽर्थं विशेषतः ॥५२॥ कदाचित् स वने गत्वा गुहायां संस्थितोऽभवत् । जनान् हंतुं महाचोर- स्ततो वृष्टिर्बभूव ह ॥५३॥ अतिवृष्टिप्रभावेन जलैर्नद्यश्च पूरिताः । यत्र तत्र जलं पूर्णं गंतुं मार्गो न विद्यते ॥५४॥ तत्र वृष्टिभयेनैव संस्थितः क्षुधितो नृप । दैवयोगेन सा देवी चतुर्थी तिथिरार्भभौ ॥५५॥ श्रावणे कृष्णपक्षे सा प्राप्ता तस्या व्रतं शुभम् । कृतं तेन सुदुष्टेन ह्यन्नहीनप्रभावतः ॥५६॥ चन्द्रोदये समुत्पन्ने जलेनागतमादरात् । फलं च नारिकेलं यत्तद्भंज बभक्ष सः ॥५७॥ निशाशेषे बहिः पापी निःसृतस्तत्र चाययौ । व्याघ्रः संगृह्य तं हत्वा बभक्ष क्षुधितो भृशम् ॥५८॥ गाणपास्तं संप्रगृह्य ययुः स्वानंदके पुरे । चक्रुर्व्रतप्रभावेन तत्र ब्रह्ममयं ततः ॥५९॥ महापापी व्रतेनैवाज्ञानजेन नृपात्मज । ब्रह्मभूतो बभूवाऽथ वर्णये किं महाद्भुतम् ॥६०॥ नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् । ययुः स्वानंदके वर्णयितुं तन्न न शक्यते ॥६१॥ इदं श्रावणकृष्णायाश्चतुर्थ्या वर्णनं पठेत् । माहात्म्यं शृणुयाद्यो वै भुक्तिं मुक्तिं स विंदति ॥६२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते श्रावणकृष्णचतुर्थीमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥
खं. ४ अ. २७ पान ७५ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । भाद्रकृष्णचतुर्थ्यास्त्वं माहात्म्यं वद भो मुने । न तृप्यामि कथां शृण्वन् सर्वसिद्धि- प्रदायिनीम् ॥१॥ वसिष्ठ उवाच । द्राविडे राजशार्दूलो बभूव परमद्युतिः । वीरसेनो यशोयुक्तः सार्वभौमो महाबलः ॥२॥ नीतिज्ञो नीतियुक्तश्च चक्रे सौराज्यमुत्तमम् । सर्वान् राज्ञो वशे कृत्वा करभारेण संयुतान् ॥३॥ धर्मशीलः सदानंदं चाददाद्भक्तिसंयुक्तः । क्षुधितं न नरं नारीमसहत् सुखकारकः ॥४॥ पुत्रानिव प्रजाः सर्वाः पालयामास यत्नतः । अपुत्रो दैवयोगेन बभूव परवीरहा ॥५॥ पुत्रार्थं यत्नमत्यंतं जपहोमादिभिः सदा । चकार तीर्थक्षेत्रादि विधाने तादृशोऽभवत् ॥६॥ एवं बहौ गते काले पुत्रो नासीन् महीपते । ततोऽतिदुःखितो राजा राज्यं त्यक्त्वा ययौ वनम् ॥७॥ सस्त्रीकः स वने राजा बभ्राम यत्र तत्र ह । ततो महावनं गत्वा पपात क्षुधयान्वितः ॥८॥ सुमंतुस्तत्र विप्रर्षिः समिदर्थं समाययौ । नृपं दृष्ट्वा दयायुक्त आययौ तं निरीक्षितुम् ॥९॥ वेदवेदांगवित् साक्षात् सर्वशास्त्रप्रवर्तकः । पुराणज्ञो महायोगी व्यासशिष्यः प्रतापवान् ॥१०॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम महामुनिम् । वीरसेनः प्रहर्षेण सस्त्रीकः संयुतो नृपः ॥११॥ करसंपुटमुत्थाय पुरः कृत्वा महामुनेः । तं जगाद विशेषज्ञं राजा वचनमुत्तमम् ॥१२॥ वीरसेन उवाच । धन्यं मे कर्म जन्मादि पिता माता कुलं यशः । विद्या व्रतादिकं सर्वं त्वदंघ्रियुगदर्शनात् ॥१३॥ राज्यं त्यक्त्वा वने संस्थः पुत्रार्थं पापवानहम् । तत्र ते दर्शनं प्राप्तं पूर्वपुण्यफलोदयात् ॥१४॥ नानायत्नेन विप्रेश पुत्रो मे नाऽभवत्किल । त्वत्कृपोपायमेकं च पश्यामि सुखदायकम् ॥१५॥ वसिष्ठ उवाच । एवं तस्य नृपस्याऽसौ श्रुत्वा वचनमुत्तमम् । संतुष्टस्तं जगादेवं सुमंतुर्मुरिसत्तमः ॥१६॥ सुमंतुरुवाच । मा चिंतां कुरु राजेंद्र पुत्रस्ते कुलतारकः । भविष्यति न संदेहः शृणु मे वचनं हितम् ॥१७॥ राज्ये नष्टं त्वदीये तच्चतुर्थीजं व्रतं महत् । तेन त्वं पुत्रहीनोऽसि नृपाधम न बुध्यसे ॥१८॥ सर्वादौ तद्वतं मुख्यं कर्तव्यं सर्वसिद्धिदम् । चतुःपदार्थदं सर्वैर्नोचेत् सर्वं सुनिष्फलम् ॥१९॥ त्वया कर्म कृतं नानापुण्यदं सर्वसंमतम् । चतुर्भिः पुरुषार्थैर्हीनं चतुर्थीविवर्जितम् ॥२०॥ एवमुक्त्वा नृपायाऽथ माहात्म्यं व्रतजं महत् । श्रावयामास तं सोऽपि श्रुत्वा पप्रच्छ भाविकः ॥२१॥ वीरसेन उवाच । वद ब्रह्मन् गणेशस्य ज्ञानं यस्य चतुःप्रदम् । व्रतं सर्वादिसंमान्यं तं भजिष्यामि नित्यदा ॥२२॥ सुमंतुरुवाच । गणेशस्य स्वरूपं यद्वक्तुं शक्तो भवेत्तु कः । उपाधिसंयुतं ज्ञानं शृणु राजेंद्र सर्वदम् ॥२३॥ अहं तपःप्रभावेण पुरा जातो विशेषतः । शापानुग्रहणे राजन् समर्थः सर्वमंडले ॥२४॥ ततोऽतितपसा युक्तोऽभवं तेन महामते । अंतर्ज्ञानं समुत्पन्नं स दृष्ट्वा
विस्मितो ह्यहम् ॥२५॥ ततो जडादिका नाना भूमिकाः साधयंस्ततः । नानाब्रह्मविभेदेषु संस्थितो ब्रह्मधारकः ॥२६॥ एवं क्रमेण राजेंद्र आसं स्वानंदगोऽभवम् । तत्र शांतिसुखे सक्तो ब्रह्मभूतस्वभावतः ॥२७॥ तस्माद्भेदमयं द्वंद्वं दृष्ट्वा शांतो महामुनिम् । व्यासं गत्वा प्रणम्यैवाऽऽपृच्छं तं स्वहितप्रदम् ॥२८॥ ब्रह्मभूतस्वरूपां मे वद शांतिं महामुने । शिष्योऽहं ते महाभाग तारयस्व भवार्णवात् ॥२९॥ इति पृष्टो महायोगी मामुवाच प्रहर्षितः । तत्तेऽहं कथयिष्यामि गणेशज्ञानकारकम् ॥३०॥ व्यास उवाच । शृणु पुत्र प्रवक्ष्यामि ब्रह्मभूतस्वरूपकम् । शांतीनां शांतिरूपं तं ज्ञातव्यं योगसेवया ॥३१॥ स्वत उत्थानकं ब्रह्म उत्थानं परतस्तथा । तयोर्भेदभावे च ह्यसत् स्वानंद उच्यते ॥३२॥ तत्रामृतमयं यत्तत् सद्रूपं स्वस्वरूपकम् । तयोरभेदभावे चानंदः स्वानंद उच्यते ॥३३॥ त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं ब्रह्म कथ्यते । चतुर्णामेव संयोगे स्वानंदो ब्रह्म उच्यते ॥३४॥ पंचभिर्गतिहीनं यन्मतं चायोगवाचकम् । न तत्र कस्यचियोगस्ततः कुत्राऽपि पुत्रक ॥३५॥ संयोगायोगयोर्योगे योगः शांतिप्रदायकः । स एव गणराजश्च ज्ञातव्यो विबुधैः सदा ॥३६॥ गणाः समूहरूपाश्चांतर- बाह्यादियोगतः । अन्नादिब्रह्मरूपास्ते ज्ञातव्या योगसेवया ॥३७॥ तेषां स्वामी गणेशानस्तं भजस्व विधानतः । तदा त्वं ब्रह्मभूतश्च भविष्यसि न संशयः ॥३८॥ चित्तं पंचविधं प्रोक्तं तदेव बुद्धिवाचकम् । चित्तं मोहस्वरूपं यत् सिद्धिरूपं वदंति च ॥३९॥ तयोः स्वामी गणाधीशो मायाभ्यां क्रीडति प्रभुः । पंचचित्तनिरोधेन लभ्यते चित्तधारकः ॥४०॥ अतश्चिंतामणिः प्रोक्तो पश्य वेदेषु पुत्रक । चित्तं त्यक्त्वा समोहं त्वं भव चिंतामणिस्ततः ॥४१॥ एवमुक्त्वा ददौ मह्यं मंत्रमेकाक्षरं प्रभुः । सविधिं तं प्रणम्यैवाऽऽगतोऽहं स्वाश्रमे पुनः ॥४२॥ ध्यात्वा गणपतिं राजन् मंत्रे जपपरोऽभवम् । ततः स्वल्पेन कालेन शांतिं प्राप्तोऽहमेव च ॥४३॥ तथाऽपि गणराजं त्वपूजयंतं विशेषतः । ततो मे दर्शयामास स्वात्मानं विघ्नपः प्रभुः ॥४४॥ समागतं गणेशानं दृष्ट्वा विस्मितमानसः । अपूजयं प्रहर्षेण तं प्रणम्य पुनः पुनः ॥४५॥ अथर्वोपनिषद्भिः स संस्तुतो गणनायकः । भक्तिं दत्त्वा स्वकीयां मेंऽतर्धानं प्रचकार ह ॥४६॥ तदादि गाणपत्योऽहं प्रभजे नित्यमादरात् । तं भजस्व महाराज ततः सर्वं शुभं भवेत् ॥४७॥ एवमुक्त्वा ददौ तस्मै स मंत्रं षोडशाक्षरम् । सविधिं मुनिमुख्यः सोऽतर्धानमगम- त्ततः ॥४८॥ राजाऽतिविस्मितो भूत्वा सपत्नीकः प्रणम्य तम् । स्वपुरे स समागत्याऽभजत्तं गणनायकम् ॥४९॥ तत्राऽऽदौ भाद्रमासे सा कृष्णा प्राप्ता चतुर्थिका । कृता तेन जनैः सर्वैः पुरवासिभिरादरात् ॥५०॥ विशेषतस्ततस्तेन प्रशस्तं तद्व्रतं
खं. ४ अ. २७ पान ७७ कृतम् । शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे धरातले ॥५१॥ व्रतपुण्यप्रभावेण राजा पुत्रसमन्वितः । बभूवू रोगहीनास्ते भूमिपैवं जनास्तथा ॥५२॥ पुत्रे राज्यं परित्यज्य राजा निर्वृत्तिसंयुतः । सपत्नीको गणेशानमभजन्नित्यमादरात् ॥५३॥ अंते गणेश- लोके स गत्वा ब्रह्ममयोऽभवत् । क्रमेण सर्वलोकाश्च ब्रह्मभूता बभूविरे ॥५४॥ एतत्ते कथितं भूप माहात्म्यं संकटीभवम् । अन्यच्छृणु चतुर्थ्यास्त्वं पापघ्नं सर्वदं परम् ॥५५॥ आंध्रे च धीवरः कश्चिद् बभूवे सर्वहिंसकः । बाल्यात् प्रभृति सोऽत्यंतं पापकर्मपरायणः ॥५६॥ वृथा साक्ष्यपरो भूत्वा कलहं सोऽकरोन् मिथः । लोकानां लोभशीलश्च चौर्यद्रव्यं समाहरत् ॥५७॥ वने गत्वा महापापी मार्गस्थान् प्रजघान वै । ब्राह्मणादीन् विशेषेण नानापापपरायणः ॥५८॥ न तस्य कर्म वक्तुं वै शक्यते पापभीतितः । ग्रंथबाहुल्यतो भूप परस्त्रीलालसोऽभवत् ॥५९॥ भाद्रकृष्णचतुर्थीजे वनमध्यस्थ एकदा । व्रते प्राप्ते महापापी निराहारो बभूव ह ॥६०॥ अकस्मात् तत्र संप्राप्तो जनसंघो महान्नृप । भयात्तस्य प्रलीनोऽभूद्गुहायां धीवरः स तु ॥६१॥ किंचिद्दिनावशेषे स जनसंघो गतोऽभवत् । तदा बहिर्विनिःसृत्य गृहे गंतुं मनो दधे ॥६२॥ न प्राप्तं तेन दुष्टेन किंचित्तदपि दारुणः । स्वात्मन्यास्थाय धैर्यं स मार्गसंस्थो बभूव ह ॥६३॥ रात्रौ समागतो दुष्टः स्वगृहे राजसत्तम । चन्द्रोदये सुतैः सार्धं भोजनं स चकार ह ॥६४॥ पंचम्यां सर्पदंशेन मृतः पापेन निश्चयः । गणराजस्य तदपि दूता नेतुं समागमन् ॥६५॥ गृहीत्वा धीवरं तेऽयुर्गणाः स्वानंदके पुरे । गणेशानं स तं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥६६॥ व्रतेनाऽज्ञानजेनाऽयं विधिहीनेन भूमिप । ब्रह्मभूतो धीवरश्च संबभूव वदामि किम् ॥६७॥ एवं नाना जना राजन् ब्रह्मभूता बभूविरे । चतुर्थ्या व्रतपुण्येन वक्तुं नैव प्रशक्यते ॥६८॥ इदं भाद्रपदे कृष्णचतुर्थीजं शृणोति यः । माहात्म्यं वाऽपि पठति स ईप्सितमवाप्नुयात् ॥६९॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । माहात्म्यं यद्वद ब्रह्मन्नाश्विने कृष्णके महत् । चतुर्थीजं विशेषेण न तृप्तोऽहं भवामि वै ॥१॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । अत्र तेन महाराज शृणु तृप्तो भविष्यसि ॥२॥ पार्वती- शंकराभ्यां च तपसाऽऽराधितोऽभवत् । दिव्यवर्षसहस्रेण गणेशः पुत्रतां गतः ॥३॥ कार्तिकेयस्तथा जातः स्ववीर्यात् स्नेहकारकः । न तथा प्रीतिरुत्पन्ना गणेशे च तयोरभूत् ॥४॥ कार्तिकेयो गणेशानं स्पर्धते नित्यमादरात् । विवाहो मे पुरा पश्चात्त्वापि स्म भविष्यति ॥५॥ एवं स्पर्धयतोर्वीक्ष्य पुत्रयोः पार्वतीशिवौ । विचारं चक्रतुस्तत्र विवाहार्थं महामते ॥६॥ अयं विघ्नेश्वरः साक्षाद्ब्रह्मरूपो न संशयः। क्षोभितश्चेत् पदभ्रष्टं करिष्यति विशेषतः ॥७॥ साक्षात् पुत्रं समुत्पन्नं स्कंदं संत्यज्य विघ्नपम् । ज्येष्ठं विवाहयेच्चेद्वा सेनानीः कोपितो भवेत् ॥८॥ त्यक्त्वा स्वपुत्रं सेनान्यं विवाहो नैव शोभते । अतः कपट- रूपेण कर्तव्यं कार्यमुत्तमम् ॥९॥ ततः शिवो गणेशानं स्कंदं चैवाऽब्रवीद्वचः। धराप्रदक्षिणां कृत्वा य आदौ सुसमागतः ॥१०॥ पूर्वं विवाहकं तस्य करिष्यामि न संशयः । ततस्तं गणनाधस्तु जगाद वचनं हितम् ॥११॥ ज्येष्ठं मां कि परित्यज्य प्रभो वदसि शंकर । वेदहीनं तथा मेऽस्तु भवदाज्ञां करोम्यहम् ॥१२॥ स्थूलदेहधरोऽहं मे वाहनं मूषको मतः । पृथ्वीप्रदक्षिणां कर्तुं न शक्नोमि सदाशिवं ॥१३॥ एवमुक्त्वा गणाधीशः स्वगृहे संस्थितोऽभवत् । जगाम स्कंद आरुह्य मयूरं हर्ष- संयुतः ॥१४॥ पृथ्वीप्रदक्षिणायां स रतः स्कंदः स वेगवान् । चकार मायया तत्र गणेशः कौतुकं महत् ॥१५॥ संपूज्य पार्वतीं शंकरं चकार प्रदक्षिणाम् । उवाच शंकरं तत्र विवाहो मे विधीयताम् ॥१६॥ प्रदक्षिणा कृता येन पितुर्मातुः सदाशिव । पृथ्वीप्रदक्षिणा तेन कृता शास्त्रे न संशयः ॥१७॥ श्रुत्वा गणपतेर्वाक्यं कंपितः शंकरोऽब्रवीत् । करोमि ते विवाहं वै क्रोधं मा कुरु पुत्रक ॥१८॥ तत एकांतगं शंभुं पार्वती प्रेमविह्वला । उवाच कार्तिकेयं किं त्यक्त्वा ढुंढिः स मानितः ॥१९॥ ततस्तां शंकरो वाक्यं जगाद शृणु पार्वति । अयं क्रुद्धश्च सर्वस्वं हरत्यत्र न संशयः ॥२०॥ अतः स्नेहं परित्यज्य रक्ष धर्मं सनातनम् । नाऽयं पुत्रो महादेवि ब्रह्मभूतः समागतः ॥२१॥ एवमुक्त्वा सतीं शंभुर्विवाहमकरोत्ततः । गणेशस्य विधानेन हृदयेनाविदूयता ॥२२॥ सिद्धे विवाहके पूर्णे कार्तिकेयः समागतः । तत्र विघ्नकरो विघ्नं चकार परमाद्भुतम् ॥२३॥ नारदः सहसाऽऽगत्य कार्तिकेयमुवाच ह । विवाहकृत्यमेतस्य पित्रा मात्रा कृतं पुरा ॥२४॥ त्वां वंचयित्वा सेनानीः कृतं कर्म जुगुप्सितम् । नावलोक्यं मुखं मातुः पितुश्चापि त्वया कदा ॥२५॥ एवमुक्त्वा गतो विप्रो
[खं. ४ अ. २८] [पान ७९]
नारदः कलहप्रियः । स्कंदो निःश्वस्य तस्मात् स ययौ श्रीशैलपर्वतम् ॥२६॥ ज्ञात्वा पुत्रस्य वृत्तांतं पार्वतीशंकराविमम् । शोधार्थं तत्र शैले तौ गतौ ज्ञात्वा पपाल सः ॥२७॥ क्रौंचे स्कंदं स्थितं ज्ञात्वा पार्वतीशंकरौ नृप । शोकसंविनचित्तौ तौ विलापं चक्रतुः पुरा ॥२८॥ तत्राऽऽजगाम विप्रेंद्रो मुद्गलः सर्वमुद्गलः । तं दृष्ट्वा सहसोत्थाय पूजयामासतुर्मुनिम् ॥२९॥ सुखासीनं महाभाग उवाच शोकसंकुलः । भगवन् सर्वतत्त्वज्ञ वद मां शोकनाशनम् ॥३०॥ स्कंदसंयोगदं पूर्णमुपायं तं करोम्यहम् । रुरोद पार्वती तत्र ततस्तौ मुनिरब्रवीत् ॥३१॥ मुद्गल उवाच । शंभो शृणु महाभाग त्वं साक्षात् सर्ववित् प्रभुः । विद्यारूपेयमाया सा शक्तिः सर्वार्थदायिनी ॥३२॥ तथापि कथयामि त्वां पुत्रौ शास्त्रे प्रकीर्तितौ । द्विविधौ तौ त्वया प्राप्तौ त्वत्समो नैव दृश्यते ॥३३॥ योगाभ्यासेन विघ्नेशो ब्रह्मणां नायकस्तव । पुत्रः समाधिजः प्रोक्तस्ततश्चितामणिः स्मृतः ॥३४॥ देहः शक्तिमयस्तत्रात्मा त्वं पुरुष उच्यसे । ताभ्यां योगबलेनैव क्रियते ब्रह्मपुत्रकः ॥३५॥ अर्धनारीश्वरस्त्वं च तस्माज्जातो गजाननः । ब्रह्मभूतपदस्याऽसौ पालको नात्र संशयः ॥३६॥ भिन्ना शक्तिरियं जाता भिन्नस्त्वं देहधारकः । भिन्नभावात् समुत्पन्नः पुत्रस्ते स्कंद एव च ॥३७॥ देहसौख्यकरः प्रोक्तः स्कंदः सर्वत्र संमतः । शांतिसौख्यकरश्चैव गणेशः पुत्रभावतः ॥३८॥ तत्र त्वं भिन्नभावेन मोहितोऽसि न संशयः । स्कंदं स्नेहेन शंभो त्वमधिकं मन्यसे सदा ॥३९॥ न तथा ब्रह्मणि श्रद्धाऽधिका विश्वेश्वरेऽधुना । तेन विघ्नसमायुक्तो जातोऽसि च भजस्व तम् ॥४०॥ ब्रह्मणि स्नेहभावेन विषयान्निंदयन् स्थितः । तदा विषयतापास्ते स्वयं वश्या भवंति वै ॥४१॥ विघ्नेश्वरमनादृत्य स्कंदं विवाहसंयुक्तम् । आदौ पश्यामि शक्त्या वै संधृतं मानसे त्वया ॥४२॥ तदैव निष्फलं सर्वं कृतं विघ्नकरेण ते । वियोगश्च समुत्पन्नस्तस्मात्तं शरणं व्रज ॥४३॥ एवमुक्त्वा मुद्गलस्तं जगाम स्वेच्छया चरन् । शिवः शक्त्या युतः स स्म मन्यते सत्यमेव तत् ॥४४॥ त्यक्त्वा स्कंदभवं स्नेहं विघ्नेशमभजत् सदा । तत्रादौ संकटी प्राप्ताऽऽश्विनी तां तौ प्रचक्रतुः ॥४५॥ मायां भ्रांतिकरीं सर्वां भिन्नभावप्रमोहतः । त्यक्त्वा शिवश्च शक्तिश्च शांतिस्थौ तौ बभूवतुः ॥४६॥ कस्य पुत्रश्च का माता पिता को भ्रमदायकम् । कृतं विघ्नेश्वरेणैव तमावां शरणं गतौ ॥४७॥ ततो विघ्नेश्वरेणैव कृतं कौतुकमादरात् । बुद्धिभेदः कृतस्तत्र स्कंदस्य नृप तच्छृणु ॥४८॥ त्यक्तौ मयाऽतिमूढेन पार्वतीशंकरवहो । ज्येष्ठं गणपतिं नित्यं स्पर्धयामि महाप्रभुम् ॥४९॥ शक्त्या शिवेन विघ्नेशस्तपसाऽऽराधितोऽभवत् । सोऽयं पुत्रस्वरूपेण बभूव वरदानतः ॥५०॥ स्वानंदवासकारी स