मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 470, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. २६ | पान ७२ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ अज्ञानकृतपुण्येन तत्र किं वर्णयाम्यहम् ॥३९॥ विधियुक्तं व्रतं भूप ये कुर्वंति नरोत्तमाः । दर्शनेन जनानां ते तारकाः संभवंति हि ॥४०॥ एवं व्रतप्रभावेण ब्रह्मभूता बभूविरे । अनंताश्चरितं तेषां वक्तुं नैव प्रशक्यते ॥४१॥ इदमाषाढसंकष्ट्याश्चरितं यः शृणोति चेत् । पठेद्वा लभते सोऽपि वाञ्छितं नात्र संशयः ॥४२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आषाढकृष्णचतुर्थीवर्णनं नाम पंचविंशोऽध्यायः ॥ ❧★❧ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणे कृष्णपक्षे या चतुर्थी संकटी भवेत् । माहात्म्यं वद तस्या मे सर्वेभ्यः सुख- दायकम् ॥१॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि श्रावणे संकटीभवम् । श्रवणात् सुखदः पूर्णो भवते पठनात्तथा ॥२॥ चन्द्रवंशे समुत्पन्नो युधिष्ठिरः प्रतापवान् । धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥३॥ साक्षाद्धर्मावतारश्च सत्यवाक् करुणायुतः । पांडुपुत्रो महातेजाः प्रजापालनतत्परः ॥४॥ द्रौपद्या भ्रातृभिश्चैव सहितः सर्वसंमतः । कुंत्या मात्रा महाभागो विख्यातः सर्वमंडले ॥५॥ कृष्णो यस्य सहायोऽभूत् सदा वृष्णिकुलोद्भवः । साक्षान्नारायणः श्रीमान् भूभारहरणे रतः ॥६॥ एकदा स्वगृहे राजा संस्थितो राजभिर्वृतः । राजसूयं महायज्ञं कृत्वा कृष्णविवर्जितः ॥७॥ धृतराष्ट्रेण तत्रैव प्रेषितो विदुरः स्वयम् । आजगाम स तं दृष्ट्वा मानयामास कुंतिजः ॥८॥ भोजिनं परमान्नेन विदुरं सदसि स्थितम् । तमुवाच महाभागो हर्षितः स युधिष्ठिरः ॥९॥ धन्यं मे जन्म कर्मादि त्वदंघ्रियुगदर्शनात् । वयं पाल्याः सदा तात त्वया धर्मभृता प्रभो ॥१०॥ कुशलं स्वजनानां ते किमर्थं त्वं समागतः । वद मे सकलं पूर्णं वृत्तांतं धृतराष्ट्रगम् ॥११॥ विदुर उवाच । सर्वत्र कुशलं वत्स स्वजनेषु महामते । धृतराष्ट्रस्य दुर्बुद्धेरादराद्वचनं शृणु ॥१२॥ पुत्रवत्सलभावेन दुर्योधनसमाश्रितः । तेनाऽहं प्रेषितो भूप त्वत्समीपे विचक्षणः ॥१३॥ इच्छति त्वां विजेतुं स प्रभो द्यूतेन मंदधीः । दुर्योधनो महापापी कुलक्लेशविवर्धनः ॥१४॥ कर्णेन प्रेरितोऽत्यंतं शकुनिना विशेषतः । सक्तस्ते राज्यहरणे दुःशासन- समन्वितः ॥१५॥ धृतराष्ट्रस्तथा राजन् मन्यते मनसि ध्रुवम् । स त्वामाह्वयते लोभी मया चैव युधिष्ठिर ॥१६॥ मा गच्छ दुर्मतिं तात पुत्रपक्षसमाश्रितम् । धृतराष्ट्रं च कुंत्या त्वं सस्त्रीको भ्रातृभिः कदा ॥१७॥ वसिष्ठ उवाच । विदुरस्य वचः ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖