भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 471, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 471

शीर्षक / हेडर: खं. ४ अ. २६ | पान ७३


मूल संस्कृत पाठ:

श्रुत्वा युधिष्ठिरो महायशाः । उवाच तं महाभागं निःश्वस्य वचनं हितम् ॥१८॥ युधिष्ठिर उवाच । शृणु तात मदीयं त्वं वाक्यं धर्मयुतं महत् । राज्ये सुसंस्थितो राजा धृतराष्ट्रो विशेषतः ॥१९॥ तदाज्ञावशगाः सर्वे वयं भीष्मादयः किल । अतो यामि त्वया सार्धं भावि यत्तद्भविष्यति ॥२०॥ धर्मयुक्तं वचः श्रुत्वा विदुरः खिन्नमानसः । न किंचिदुक्तवांस्तत्र तं निःश्वस्य महायशाः ॥२१॥ विदुरेण युताः सर्वे सस्त्रीकाः पांडवा नृप । समागताश्च द्रौपद्या धृतराष्ट्रं सभास्थितम् ॥२२॥ तेनाज्ञप्ताश्च ते सर्वे भ्रातरः कलहे रताः । चिकीर्षुर्द्युतममुग्रं वै दुर्योधनमुखैः पुरा ॥२३॥ शकुनिना महोग्रेण तपसा साधितं पुरा । द्यूतं तदेव राजेंद्र तदधीनं बभूव ह ॥२४॥ क्रमेण राज्यमुग्रं तत् सर्वं जित्वा सुयोधनः । वनवासे पांडवान् स स्थापयामास दुर्मतिः ॥२५॥ द्रौपदी तेन दुष्टेन सभायां सर्वसंनिधौ । समानीता स तां प्राह पत्नी मे भव सुंदरि ॥२६॥ पतयः पंच कुत्राऽपि न दृश्यंते स्त्रियाः क्वचित् । अस्माकं कुलजं सर्वं यशो नष्टं त्वया खले ॥२७॥ भ्राता तां हठसंयुक्तो नग्नां चक्रे महाखलः । भीष्मादींश्च तिरस्कृत्य दुःशासनसमन्वितः ॥२८॥ पांडवा धर्मरक्षार्थमसहंस्तस्य कर्म तत् । द्रौपद्या संस्मृतः कृष्णो गुप्तरूपधरो ययौ ॥२९॥ मायया वस्त्रसंयुक्तां द्रौपदीं स पुनः पुनः । चकार च ततः सर्वे क्षुभिताः स्वगृहं ययुः ॥३०॥ द्रौपदी पांडवैः सार्धं ययौ मुक्ता वने तदा । तत्र कृष्णः समायातो बलेन क्रोधसंयुतः ॥३१॥ उवाच राजशार्दूलं युधिष्ठिरं प्रतापवान् । कृष्ण उवाच । हत्वा दुर्योधनं तात सपक्षं राज्यकामुकम् ॥३२॥ त्वां राज्ये स्थापयिष्यामि मा गच्छ वनमेव च । ततस्तं धर्मराजस्तु जगाद वचनं हितम् ॥३३॥ क्रोधं त्यज महाबाहो धर्म रक्ष जनार्दन । धर्मयुक्तं च राज्यं मे देहि वृष्णिकुलोद्भव ॥३४॥ एवमुक्तो महातेजाः कृष्णस्तं प्रत्युवाच ह । कुरु त्वं भ्रातृभिः सार्धं गणेशोपासनं श्रिया ॥३५॥ सत्यासत्यसमाना व्यक्तैश्चतुर्धा बभौ प्रभुः । स्वानंदवासकर्ताऽसावस्माकं कुलदैवतम् ॥३६॥ एवमुक्त्वा ददौ तस्मै प्रभुर्मंत्रं दशाक्षरम् । स विधिं हर्षसंयुक्तः सर्वसिद्धिकरं परम् ॥३७॥ माहात्म्यं व्रतजं तत्र श्रावयामास केशवः । युधिष्ठिरस्य सर्वं वै पुण्यदं भ्रांतिनाशनम् ॥३८॥ चतुर्विधप्रदं पूर्णं सर्वादौ संमतं व्रतम् । कृतं चेत् कर्म तत् सर्वं सफलं भवति प्रभो ॥३९॥ तव राज्ये व्रतं मुख्यं नष्टं तेन महामते । राज्यभ्रष्टश्च संजातश्चतुःपदविवर्जितः ॥४०॥ श्रुत्वा युधिष्ठिरो राजा विस्मितः सुमहायशाः । गणेशं मनसि ध्यात्वा चकार विधिसंयुतः ॥४१॥ तत्रादौ श्रावणे मासे प्राप्ता संकटनाशिनी । चतुर्थी कृष्णपक्षे तां साधयामास सानुजैः ॥४२॥ शुक्लकृष्णचतुर्थीजं व्रतं चक्रुश्च पांडवाः ।

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 471, कुल 1023 में से · BharatKosha