भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 469, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 469

[header] खं. ४ अ. २५ पान ७१ [/header]

सदा । किं पश्यसि सुसंहारे प्राप्ते योगींद्रसत्तम ॥१३॥ वसिष्ठ उवाच । एवं पृष्टो गृत्समदस्तमुवाच दयान्वितः । विश्वरक्षण- भावार्थं दुष्टनाशनकरं वचः ॥१४॥ गृत्समद उवाच । राज्यं प्राप्य महाभाग सुर त्यक्ता चतुर्थिका। व्रतभ्रष्टोऽसि देवेंद्र अधुना तद्व्रतं कुरु ॥१५॥ ज्ञानमदेन विघ्नेशमंत्रस्त्यक्तस्तथा त्वया । किं चित्रं राज्यहीनत्वे दुर्मते मदलालस ॥१६॥ एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः । कथयामास तस्मै तत् पुनर्मंत्रं ददौ स्वयम् ॥१७॥ यदृच्छया गते राजन् मुनावेंद्रेण तत्ततः । व्रतं कृतं द्विजैर्देवैर्गणेशं संप्रपूज्य च ॥१८॥ तत्रादौ देवराजेनाषाढी कृष्णा महातिथिः । प्राप्ता चतुर्थिका भूप सा कृता भूतिदायिका ॥१९॥ गणेशं मनसा ध्यात्वा दधीचेरस्थिजं महत् । वज्रं धृत्वा ययौ देवैर्वृतं युद्धपरायणः ॥२०॥ चतुर्थीव्रतजेनाऽसौ प्रभावेण महासुरम् । कृत्वा युद्धं महाघोरं वज्रेणैव जघान तम् ॥२१॥ हत्वा वृत्रं महावीर्यं देवैः सह शतक्रतुः । स्वस्थोऽभूदमरावत्यां मुमुदे स्वजनैर्नृप ॥२२॥ ततो देवगणाः सर्वे स्वस्वस्थानेषु नित्यशः । शुक्लकृष्णभवं चक्रुश्चतुर्थीसंज्ञितं व्रतम् ॥२३॥ पृथिव्या सर्वलोकास्तद्व्रतं चक्रुरशेषतः। इन्द्रेण बोधितं भक्त्या सर्वसिद्धिकरं महत् ॥२४॥ मन्वंतरे गते देवैरिन्द्रः स्वानंदगोऽभवत् । दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥२५॥ भ्वामसंस्था नराः सर्वे क्रमेण प्रययुर्नृप । गणेशं ब्रह्मभूतास्ते व्रतपुण्यप्रभावतः ॥२६॥ एतत्ते कथितं स्वल्पं माहात्म्यं व्रतसंभवम् । पुनरन्यच्छृणुष्व त्वं पापकंचुकनाशनम् ॥२७॥ गुर्जरे ब्राह्मणः कश्चिद् बाल्यात् पापपरायणः । परयोनिषु संसक्तो जीवघातं चकार ह ॥२८॥ एकदा भगिनी यन्ध्या तेन दुष्टेन चाऽभवत् । मद्यमांसपरेणाऽपि चरता वनगह्वरे ॥२९॥ द्रव्यलोभी जघानाऽसौ द्विजादींश्च विशेषतः । पशुपक्षिगणान् राजन् भ्रष्टाचारः सुदुर्मतिः ॥३०॥ नित्यं चकार स खलो यवनैः सह भोजनम् । न शक्यं तन्मया तस्य पापं वर्णयितुं परम् ॥३१॥ एकदा वनमध्यस्थो बभूवे जातिदूषकः । आषाढे कृष्णपक्षे स चतुर्थ्यां पापकारकः ॥३२॥ दैवयोगेन तेनैव न प्राप्तं वनगह्वरे । किंचित्तेनाऽतिदुःखार्तस्तदा बभ्राम पर्वते ॥३३॥ तथाऽपि नालभत् किंचित् ततो दुःखपरायणः । अपराह्ने पुनः सोऽपि स्वगृहं गंतुमुत्सुकः ॥३४॥ न ददर्श स तत्राऽपि जलान्नं दैवयोगतः । आजगाम क्षुधार्तः स स्वगृहे शोकसंयुतः ॥३५॥ यवनजां समालिंग्य निशि चंद्रोदये नृप । बभक्षान्नं सुतैः सार्धं मोहितो मायया भृशम् ॥३६॥ ततो ज्वरयुतोऽकस्माद्बभूवे पापनिश्चयः । राजन् यवनजातेन न स्पृष्टा पापकारिणी ॥३७॥ पंचम्यां स मृतस्तत्र भृशं दुःखेन पीडितः । गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥३८॥ एतादृशा महापापा उद्धरंति व्रतेन वै ।