भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 468, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 468

खं. ४ अ. २५ पान ७०


ते धृत्वा ताडयामासुः पुनस्तं राजसेवकाः । बद्ध्वा राज्ञे ददुर्दुष्टं राजा चिक्षेप बंधने ॥५२॥ तत्रैव दैवयोगेन प्राप्ता ज्येष्ठ- चतुर्थिका । कृता तेनान्नहीनोऽयं बभूवे बंधनाकुलः ॥५३॥ चंद्रोदये दयायुक्तै रक्षकैस्तैर्महामते । अन्नं दत्तं तथा भुक्तं तेन दुष्टेन तत्क्षणात् ॥५४॥ राजाज्ञया च तं दुष्टं पंचम्यां जघ्नुरादरात् । स मृतोंत्यजजस्तत्र ब्रह्मभूतो बभूव ह ॥५५॥ एवं नाना जना राजन् व्रतपुण्यप्रभावतः । भुक्त्वा भोगांश्च ते सर्वे ब्रह्मभूता बभूविरे ॥५६॥ अपारमाहात्म्ययुतं व्रतं वक्तुं न शक्यते । तथाऽपि कथितं भूप माहात्म्यं संकटीभवम् ॥५७॥ इदं ज्येष्ठचतुर्थ्यास्तु कृष्णायाः संशृणोति यः । माहात्म्यं वा पठति स लभते स्वेप्सितं फलम् ॥५८॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । आषाढे संकटी प्रोक्ता चतुर्थी चरितं शुभम् । तस्या वद महायोगिन् सर्वदं पापनाशनम् ॥१॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । सर्वसिद्धिकरं पूर्णं सेवितं चेष्टृपात्मज ॥२॥ वृत्रेण पीडितोऽत्यंतं महेंद्रश्चितयान्वितः । वने वसत्तु संत्रस्तस्त्यक्त्वा राज्यादिकं पुरा ॥३॥ मुनयः श्रुतिभिर्हीना भ्रष्टाचाराः समंततः । अतिष्ठंस्ते भयोद्विग्ना वर्णाः सर्वे तथा नृप ॥४॥ कर्मखंडनभावेन देवाः परमविह्वलाः । उपोषणपरा भूत्वाऽतिष्ठंस्ते मरणोन्मुखाः ॥५॥ गिरेर्गुहासु संस्थास्ते ददृशुर्मुनिपुंगवम् । विशेषज्ञं गृत्समदं योगिनां गुरुमागतम् ॥६॥ तं दृष्ट्वा दंडवत् सर्वे प्रणेमुरेंद्रमुख्यकाः । पप्रच्छुः पूजयित्वा तं स्वासने संस्थितं मुनिम् ॥७॥ इन्द्र उवाच । दृष्टिर्धन्या जन्म धन्यं पिता माता व्रतादिकम् । यज्ञो ज्ञानादिकं मे वै त्वदंघ्रेर्दर्शनात् प्रभो ॥८॥ तव दर्शनमात्रेण कल्याणं नो भविष्यति । साक्षाद्योगीश्वरस्यैव सर्वसिद्धिप्रदस्य च ॥९॥ वृत्रासुरेण दुष्टेन निर्जिता वयमेव च । राज्यं त्यक्त्वा वने विप्र तिष्ठामः पशवो यथा ॥१०॥ अत्रातिकर्मनाशेनोषोपणेन समन्विताः । मरिष्यामो न संदेहस्तत्र किं दर्शनं भवेत् ॥११॥ तथाऽपि पुण्ययोगेन प्राप्तं ते दर्शनं परम् । वद ब्रह्मन् दयां कृत्वा वृत्रनाशकरं महत् ॥१२॥ जगत् सर्वं महायोगिन् भ्रष्टाचारं कृतं