मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 475, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. २७ पान ७७ कृतम् । शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे धरातले ॥५१॥ व्रतपुण्यप्रभावेण राजा पुत्रसमन्वितः । बभूवू रोगहीनास्ते भूमिपैवं जनास्तथा ॥५२॥ पुत्रे राज्यं परित्यज्य राजा निर्वृत्तिसंयुतः । सपत्नीको गणेशानमभजन्नित्यमादरात् ॥५३॥ अंते गणेश- लोके स गत्वा ब्रह्ममयोऽभवत् । क्रमेण सर्वलोकाश्च ब्रह्मभूता बभूविरे ॥५४॥ एतत्ते कथितं भूप माहात्म्यं संकटीभवम् । अन्यच्छृणु चतुर्थ्यास्त्वं पापघ्नं सर्वदं परम् ॥५५॥ आंध्रे च धीवरः कश्चिद् बभूवे सर्वहिंसकः । बाल्यात् प्रभृति सोऽत्यंतं पापकर्मपरायणः ॥५६॥ वृथा साक्ष्यपरो भूत्वा कलहं सोऽकरोन् मिथः । लोकानां लोभशीलश्च चौर्यद्रव्यं समाहरत् ॥५७॥ वने गत्वा महापापी मार्गस्थान् प्रजघान वै । ब्राह्मणादीन् विशेषेण नानापापपरायणः ॥५८॥ न तस्य कर्म वक्तुं वै शक्यते पापभीतितः । ग्रंथबाहुल्यतो भूप परस्त्रीलालसोऽभवत् ॥५९॥ भाद्रकृष्णचतुर्थीजे वनमध्यस्थ एकदा । व्रते प्राप्ते महापापी निराहारो बभूव ह ॥६०॥ अकस्मात् तत्र संप्राप्तो जनसंघो महान्नृप । भयात्तस्य प्रलीनोऽभूद्गुहायां धीवरः स तु ॥६१॥ किंचिद्दिनावशेषे स जनसंघो गतोऽभवत् । तदा बहिर्विनिःसृत्य गृहे गंतुं मनो दधे ॥६२॥ न प्राप्तं तेन दुष्टेन किंचित्तदपि दारुणः । स्वात्मन्यास्थाय धैर्यं स मार्गसंस्थो बभूव ह ॥६३॥ रात्रौ समागतो दुष्टः स्वगृहे राजसत्तम । चन्द्रोदये सुतैः सार्धं भोजनं स चकार ह ॥६४॥ पंचम्यां सर्पदंशेन मृतः पापेन निश्चयः । गणराजस्य तदपि दूता नेतुं समागमन् ॥६५॥ गृहीत्वा धीवरं तेऽयुर्गणाः स्वानंदके पुरे । गणेशानं स तं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥६६॥ व्रतेनाऽज्ञानजेनाऽयं विधिहीनेन भूमिप । ब्रह्मभूतो धीवरश्च संबभूव वदामि किम् ॥६७॥ एवं नाना जना राजन् ब्रह्मभूता बभूविरे । चतुर्थ्या व्रतपुण्येन वक्तुं नैव प्रशक्यते ॥६८॥ इदं भाद्रपदे कृष्णचतुर्थीजं शृणोति यः । माहात्म्यं वाऽपि पठति स ईप्सितमवाप्नुयात् ॥६९॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥