भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 474, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 474

विस्मितो ह्यहम् ॥२५॥ ततो जडादिका नाना भूमिकाः साधयंस्ततः । नानाब्रह्मविभेदेषु संस्थितो ब्रह्मधारकः ॥२६॥ एवं क्रमेण राजेंद्र आसं स्वानंदगोऽभवम् । तत्र शांतिसुखे सक्तो ब्रह्मभूतस्वभावतः ॥२७॥ तस्माद्भेदमयं द्वंद्वं दृष्ट्वा शांतो महामुनिम् । व्यासं गत्वा प्रणम्यैवाऽऽपृच्छं तं स्वहितप्रदम् ॥२८॥ ब्रह्मभूतस्वरूपां मे वद शांतिं महामुने । शिष्योऽहं ते महाभाग तारयस्व भवार्णवात् ॥२९॥ इति पृष्टो महायोगी मामुवाच प्रहर्षितः । तत्तेऽहं कथयिष्यामि गणेशज्ञानकारकम् ॥३०॥ व्यास उवाच । शृणु पुत्र प्रवक्ष्यामि ब्रह्मभूतस्वरूपकम् । शांतीनां शांतिरूपं तं ज्ञातव्यं योगसेवया ॥३१॥ स्वत उत्थानकं ब्रह्म उत्थानं परतस्तथा । तयोर्भेदभावे च ह्यसत् स्वानंद उच्यते ॥३२॥ तत्रामृतमयं यत्तत् सद्रूपं स्वस्वरूपकम् । तयोरभेदभावे चानंदः स्वानंद उच्यते ॥३३॥ त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं ब्रह्म कथ्यते । चतुर्णामेव संयोगे स्वानंदो ब्रह्म उच्यते ॥३४॥ पंचभिर्गतिहीनं यन्मतं चायोगवाचकम् । न तत्र कस्यचियोगस्ततः कुत्राऽपि पुत्रक ॥३५॥ संयोगायोगयोर्योगे योगः शांतिप्रदायकः । स एव गणराजश्च ज्ञातव्यो विबुधैः सदा ॥३६॥ गणाः समूहरूपाश्चांतर- बाह्यादियोगतः । अन्नादिब्रह्मरूपास्ते ज्ञातव्या योगसेवया ॥३७॥ तेषां स्वामी गणेशानस्तं भजस्व विधानतः । तदा त्वं ब्रह्मभूतश्च भविष्यसि न संशयः ॥३८॥ चित्तं पंचविधं प्रोक्तं तदेव बुद्धिवाचकम् । चित्तं मोहस्वरूपं यत् सिद्धिरूपं वदंति च ॥३९॥ तयोः स्वामी गणाधीशो मायाभ्यां क्रीडति प्रभुः । पंचचित्तनिरोधेन लभ्यते चित्तधारकः ॥४०॥ अतश्चिंतामणिः प्रोक्तो पश्य वेदेषु पुत्रक । चित्तं त्यक्त्वा समोहं त्वं भव चिंतामणिस्ततः ॥४१॥ एवमुक्त्वा ददौ मह्यं मंत्रमेकाक्षरं प्रभुः । सविधिं तं प्रणम्यैवाऽऽगतोऽहं स्वाश्रमे पुनः ॥४२॥ ध्यात्वा गणपतिं राजन् मंत्रे जपपरोऽभवम् । ततः स्वल्पेन कालेन शांतिं प्राप्तोऽहमेव च ॥४३॥ तथाऽपि गणराजं त्वपूजयंतं विशेषतः । ततो मे दर्शयामास स्वात्मानं विघ्नपः प्रभुः ॥४४॥ समागतं गणेशानं दृष्ट्वा विस्मितमानसः । अपूजयं प्रहर्षेण तं प्रणम्य पुनः पुनः ॥४५॥ अथर्वोपनिषद्भिः स संस्तुतो गणनायकः । भक्तिं दत्त्वा स्वकीयां मेंऽतर्धानं प्रचकार ह ॥४६॥ तदादि गाणपत्योऽहं प्रभजे नित्यमादरात् । तं भजस्व महाराज ततः सर्वं शुभं भवेत् ॥४७॥ एवमुक्त्वा ददौ तस्मै स मंत्रं षोडशाक्षरम् । सविधिं मुनिमुख्यः सोऽतर्धानमगम- त्ततः ॥४८॥ राजाऽतिविस्मितो भूत्वा सपत्नीकः प्रणम्य तम् । स्वपुरे स समागत्याऽभजत्तं गणनायकम् ॥४९॥ तत्राऽऽदौ भाद्रमासे सा कृष्णा प्राप्ता चतुर्थिका । कृता तेन जनैः सर्वैः पुरवासिभिरादरात् ॥५०॥ विशेषतस्ततस्तेन प्रशस्तं तद्व्रतं