भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 473, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 473

खं. ४ अ. २७ पान ७५ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । भाद्रकृष्णचतुर्थ्यास्त्वं माहात्म्यं वद भो मुने । न तृप्यामि कथां शृण्वन् सर्वसिद्धि- प्रदायिनीम् ॥१॥ वसिष्ठ उवाच । द्राविडे राजशार्दूलो बभूव परमद्युतिः । वीरसेनो यशोयुक्तः सार्वभौमो महाबलः ॥२॥ नीतिज्ञो नीतियुक्तश्च चक्रे सौराज्यमुत्तमम् । सर्वान् राज्ञो वशे कृत्वा करभारेण संयुतान् ॥३॥ धर्मशीलः सदानंदं चाददाद्भक्तिसंयुक्तः । क्षुधितं न नरं नारीमसहत् सुखकारकः ॥४॥ पुत्रानिव प्रजाः सर्वाः पालयामास यत्नतः । अपुत्रो दैवयोगेन बभूव परवीरहा ॥५॥ पुत्रार्थं यत्नमत्यंतं जपहोमादिभिः सदा । चकार तीर्थक्षेत्रादि विधाने तादृशोऽभवत् ॥६॥ एवं बहौ गते काले पुत्रो नासीन् महीपते । ततोऽतिदुःखितो राजा राज्यं त्यक्त्वा ययौ वनम् ॥७॥ सस्त्रीकः स वने राजा बभ्राम यत्र तत्र ह । ततो महावनं गत्वा पपात क्षुधयान्वितः ॥८॥ सुमंतुस्तत्र विप्रर्षिः समिदर्थं समाययौ । नृपं दृष्ट्वा दयायुक्त आययौ तं निरीक्षितुम् ॥९॥ वेदवेदांगवित् साक्षात् सर्वशास्त्रप्रवर्तकः । पुराणज्ञो महायोगी व्यासशिष्यः प्रतापवान् ॥१०॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम महामुनिम् । वीरसेनः प्रहर्षेण सस्त्रीकः संयुतो नृपः ॥११॥ करसंपुटमुत्थाय पुरः कृत्वा महामुनेः । तं जगाद विशेषज्ञं राजा वचनमुत्तमम् ॥१२॥ वीरसेन उवाच । धन्यं मे कर्म जन्मादि पिता माता कुलं यशः । विद्या व्रतादिकं सर्वं त्वदंघ्रियुगदर्शनात् ॥१३॥ राज्यं त्यक्त्वा वने संस्थः पुत्रार्थं पापवानहम् । तत्र ते दर्शनं प्राप्तं पूर्वपुण्यफलोदयात् ॥१४॥ नानायत्नेन विप्रेश पुत्रो मे नाऽभवत्किल । त्वत्कृपोपायमेकं च पश्यामि सुखदायकम् ॥१५॥ वसिष्ठ उवाच । एवं तस्य नृपस्याऽसौ श्रुत्वा वचनमुत्तमम् । संतुष्टस्तं जगादेवं सुमंतुर्मुरिसत्तमः ॥१६॥ सुमंतुरुवाच । मा चिंतां कुरु राजेंद्र पुत्रस्ते कुलतारकः । भविष्यति न संदेहः शृणु मे वचनं हितम् ॥१७॥ राज्ये नष्टं त्वदीये तच्चतुर्थीजं व्रतं महत् । तेन त्वं पुत्रहीनोऽसि नृपाधम न बुध्यसे ॥१८॥ सर्वादौ तद्वतं मुख्यं कर्तव्यं सर्वसिद्धिदम् । चतुःपदार्थदं सर्वैर्नोचेत् सर्वं सुनिष्फलम् ॥१९॥ त्वया कर्म कृतं नानापुण्यदं सर्वसंमतम् । चतुर्भिः पुरुषार्थैर्हीनं चतुर्थीविवर्जितम् ॥२०॥ एवमुक्त्वा नृपायाऽथ माहात्म्यं व्रतजं महत् । श्रावयामास तं सोऽपि श्रुत्वा पप्रच्छ भाविकः ॥२१॥ वीरसेन उवाच । वद ब्रह्मन् गणेशस्य ज्ञानं यस्य चतुःप्रदम् । व्रतं सर्वादिसंमान्यं तं भजिष्यामि नित्यदा ॥२२॥ सुमंतुरुवाच । गणेशस्य स्वरूपं यद्वक्तुं शक्तो भवेत्तु कः । उपाधिसंयुतं ज्ञानं शृणु राजेंद्र सर्वदम् ॥२३॥ अहं तपःप्रभावेण पुरा जातो विशेषतः । शापानुग्रहणे राजन् समर्थः सर्वमंडले ॥२४॥ ततोऽतितपसा युक्तोऽभवं तेन महामते । अंतर्ज्ञानं समुत्पन्नं स दृष्ट्वा

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 473, कुल 1023 में से · BharatKosha