मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 476, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । माहात्म्यं यद्वद ब्रह्मन्नाश्विने कृष्णके महत् । चतुर्थीजं विशेषेण न तृप्तोऽहं भवामि वै ॥१॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । अत्र तेन महाराज शृणु तृप्तो भविष्यसि ॥२॥ पार्वती- शंकराभ्यां च तपसाऽऽराधितोऽभवत् । दिव्यवर्षसहस्रेण गणेशः पुत्रतां गतः ॥३॥ कार्तिकेयस्तथा जातः स्ववीर्यात् स्नेहकारकः । न तथा प्रीतिरुत्पन्ना गणेशे च तयोरभूत् ॥४॥ कार्तिकेयो गणेशानं स्पर्धते नित्यमादरात् । विवाहो मे पुरा पश्चात्त्वापि स्म भविष्यति ॥५॥ एवं स्पर्धयतोर्वीक्ष्य पुत्रयोः पार्वतीशिवौ । विचारं चक्रतुस्तत्र विवाहार्थं महामते ॥६॥ अयं विघ्नेश्वरः साक्षाद्ब्रह्मरूपो न संशयः। क्षोभितश्चेत् पदभ्रष्टं करिष्यति विशेषतः ॥७॥ साक्षात् पुत्रं समुत्पन्नं स्कंदं संत्यज्य विघ्नपम् । ज्येष्ठं विवाहयेच्चेद्वा सेनानीः कोपितो भवेत् ॥८॥ त्यक्त्वा स्वपुत्रं सेनान्यं विवाहो नैव शोभते । अतः कपट- रूपेण कर्तव्यं कार्यमुत्तमम् ॥९॥ ततः शिवो गणेशानं स्कंदं चैवाऽब्रवीद्वचः। धराप्रदक्षिणां कृत्वा य आदौ सुसमागतः ॥१०॥ पूर्वं विवाहकं तस्य करिष्यामि न संशयः । ततस्तं गणनाधस्तु जगाद वचनं हितम् ॥११॥ ज्येष्ठं मां कि परित्यज्य प्रभो वदसि शंकर । वेदहीनं तथा मेऽस्तु भवदाज्ञां करोम्यहम् ॥१२॥ स्थूलदेहधरोऽहं मे वाहनं मूषको मतः । पृथ्वीप्रदक्षिणां कर्तुं न शक्नोमि सदाशिवं ॥१३॥ एवमुक्त्वा गणाधीशः स्वगृहे संस्थितोऽभवत् । जगाम स्कंद आरुह्य मयूरं हर्ष- संयुतः ॥१४॥ पृथ्वीप्रदक्षिणायां स रतः स्कंदः स वेगवान् । चकार मायया तत्र गणेशः कौतुकं महत् ॥१५॥ संपूज्य पार्वतीं शंकरं चकार प्रदक्षिणाम् । उवाच शंकरं तत्र विवाहो मे विधीयताम् ॥१६॥ प्रदक्षिणा कृता येन पितुर्मातुः सदाशिव । पृथ्वीप्रदक्षिणा तेन कृता शास्त्रे न संशयः ॥१७॥ श्रुत्वा गणपतेर्वाक्यं कंपितः शंकरोऽब्रवीत् । करोमि ते विवाहं वै क्रोधं मा कुरु पुत्रक ॥१८॥ तत एकांतगं शंभुं पार्वती प्रेमविह्वला । उवाच कार्तिकेयं किं त्यक्त्वा ढुंढिः स मानितः ॥१९॥ ततस्तां शंकरो वाक्यं जगाद शृणु पार्वति । अयं क्रुद्धश्च सर्वस्वं हरत्यत्र न संशयः ॥२०॥ अतः स्नेहं परित्यज्य रक्ष धर्मं सनातनम् । नाऽयं पुत्रो महादेवि ब्रह्मभूतः समागतः ॥२१॥ एवमुक्त्वा सतीं शंभुर्विवाहमकरोत्ततः । गणेशस्य विधानेन हृदयेनाविदूयता ॥२२॥ सिद्धे विवाहके पूर्णे कार्तिकेयः समागतः । तत्र विघ्नकरो विघ्नं चकार परमाद्भुतम् ॥२३॥ नारदः सहसाऽऽगत्य कार्तिकेयमुवाच ह । विवाहकृत्यमेतस्य पित्रा मात्रा कृतं पुरा ॥२४॥ त्वां वंचयित्वा सेनानीः कृतं कर्म जुगुप्सितम् । नावलोक्यं मुखं मातुः पितुश्चापि त्वया कदा ॥२५॥ एवमुक्त्वा गतो विप्रो