भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 479, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 479

यहाँ दिए गए पृष्ठ का देवनागरी में अक्षरशः प्रतिलेखन (transcription) प्रस्तुत है:

खं. ४ अ. २९ | पान ८१ ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ वशगां पृथिवीं समुद्रांतां विशेषतः ॥५॥ करदा इतरे सर्वे राजानः सेवका इव । सामंताश्च महाराज तस्याज्ञा- वशवर्तिनः ॥६॥ पुण्यवान् धर्मशीलश्च नानादानपरायणः । देवविप्राऽतिथिप्रेप्सुः स्वदारनिरतोऽभवत् ॥७॥ यज्वा विनीतकस्तीर्थकारकः परवीरहा । नानागुणयुतः सोऽपि मया वक्तुं न शक्यते ॥८॥ स एव यक्ष्मणाऽत्यंतं पीडितः पापरूपिणा । शोकाकुलोऽभवद्राजा अस्थिशेषो बभूव ह ॥९॥ नानोपायाः कृतास्तस्य शांतये न च सोऽभवत् । शांतस्ततो महाराजस्तीर्थयात्रापरोऽभवत् ॥१०॥ नानातीर्थानि राजाऽसौ चकार तदपि ह्यहो । पीडया नैव मुक्तोऽभूत्ततो दुःखित- मानसः ॥११॥ देवार्चनरता विप्राः कृतास्तेन महात्मना । तथापि रोगसंयुक्तोऽधिको राजा बभूव ह ॥१२॥ ततः शांतिधरो राजा वैराग्ये निदधे मनः । राज्यं त्यक्त्वा प्रधानेषु सस्त्रीकः स वनं ययौ ॥१३॥ बभ्राम वनगो भूत्वा यत्र तत्र महीपतिः । ततो मंकणकं विप्रमदर्शद्योगिसत्तमम् ॥१४॥ तद् दृष्ट्वा निपपातोर्व्यां रुरोद भृशमेव सः । ततस्तं मुनिमुख्योऽसौ जगाद दयया युतः ॥१५॥ मंकणक उवाच । शृणु राजन् महाभाग येन त्वं रोगपीडितः । अभवस्तदहं सर्वं कथयामि नृपाधम ॥१६॥ मुख्यं नष्टं च राज्ये ते चतुर्थीसंज्ञितं व्रतम् । तेन त्वं पापसंयुक्तो नरके गच्छसि ध्रुवम् ॥१७॥ सर्वादौ तद्व्रतं कार्यं नित्यवद्राजसत्तम । सर्वसिद्धिकरं पूर्णं चतुर्विधफलप्रदम् ॥१८॥ तद्व्रतेन विहीनस्त्वं नानाधर्मपरायणः । चतुःपदार्थहीनत्वान्निष्फलोऽसि नृपाधम ॥१९॥ एवमुक्त्वा च माहात्म्यं चतुर्थीसंभवं मुनिः । श्रावयामास तस्मै तच्छ्रुत्वा सोऽपि तमब्रवीत् ॥२०॥ कद्देम उवाच । धन्यं मे जन्म कर्मादि त्वदंघ्रियुगदर्शनात् । व्रतस्य श्रवणाद्धन्यो कृतकृत्यो न संशयः ॥२१॥ दयानिधे गणेशस्य स्वरूपं वद विस्तरात् । सर्वदेवाधिदेवं तं भजिष्यामि निरंतरम् ॥२२॥ मंकणक उवाच । गणेशस्य स्वरूपं कथयितुं शक्यते न तत् । तथाप्युपाधिसंयुक्तं वदामि शृणु कद्देम ॥२३॥ पुराऽहं पत्रभक्षः संस्तपसे संस्थितोऽभवम् । बहुकाले गते हस्तो विद्धो मे कंटकेन च ॥२४॥ तदा पत्ररसस्तस्मादस्रवत् किंचिदप्यहो । दृष्ट्वा विस्मित- चित्तोऽहं नृत्यं चाकरवं तदा ॥२५॥ अहो देहाद्गतं कुत्र रुधिरं मे स्वभावजम् । पत्रभक्षणभावेन रसः स्रवति हस्ततः ॥२६॥ ततो नृत्यस्य वेगेन कंपितं स चराचरम् । मदीयंतपसा युक्तं देवाः शंकरमाययुः ॥२७॥ शंकरः सर्वदेवैश्चागत्य मामब्रवीद्वचः । किं नृत्यसि महाभाग पश्य मे कौतुकं महत् ॥२८॥ इत्युक्त्वा त्रुटिका तेन कृता तत्र रसस्य मे । भस्मरूपं कृतं भूपाऽभवं तेनातिविस्मितः ॥२९॥ त्यक्त्वा नृत्यं महेशानं प्रणम्य स्तुतवान् क्षणात् । अंतर्धाय स्वमात्मानं शंकरः स ꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥꕥ