मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 480, कुल 1023 में से
संदर्भ में पढ़ेंयहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:
खं. ४ अ. २९ पान ८२ गतोऽभवत् ॥३०॥ मया मनसि राजेंद्र संधृतं शंकरात् परम् । विद्यते न तथा कर्तुमन्यथा कर्तुमीश्वरः ॥३१॥ दर्शयित्वा तपोरूपमतो भस्म कृतं महत् । रसस्य सर्वगः सोऽपि ब्रह्माकारः प्रदृश्यते ॥३२॥ त्यक्त्वा विष्णुं महेशस्य भजने निरतो- ऽभवम् । क्रमेण योगयुक्तोऽहं तपस्त्यक्त्वा शमे रतः ॥३३॥ जडादिका मया योगभूमयः क्रमितास्ततः । क्रमेण सहजे संस्थोऽभवं वै मोहवर्जितः ॥३४॥ यत्र तत्र महीदेशे भ्रांतोऽहं योगधारकः । सहजं ब्रह्म मोहेन हीनं दृष्टं मया ततः ॥३५॥ स्वाधीनं सहजं ब्रह्म न योग्यं शांतिदे परे । तेनाऽहं ब्रह्माणि भ्रांतः सूर्य च शरणं गतः ॥३६॥ प्रणम्य सौरमार्गेण स्तोत्रेण प्रस्तुतो मया । प्रसन्नो माऽवदत्तत्र वरं वरय चेप्सितम् ॥३७॥ ततोऽहमवदं सूर्य वद शांतिप्रदं प्रभो । सहजं मोहहीनत्वात् स्वाधीनं नैव शांतिदम् ॥३८॥ ततो मामब्रवीत् सूर्यः प्रसन्नो भक्तियंत्रितः । गणेशं भज भावेन तदा शांतिमवाप्स्यसि ॥३९॥ असच्छक्तिश्च सत् सूर्यः समो विष्णुर्महामुने । सहजः शंकरः प्रोक्तस्तेषां योगे गणेश्वरः ॥४०॥ चतुर्णां चैव संयोगे स्वानंदः परिकीर्तितः । अयोगः पंचभिर्हीनस्तत्र निर्मायिको बभौ ॥४१॥ संयोगे मायया युक्तो योगे मायाविवर्जितः । तयोर्योगे शांतिदः स गणेशो ब्रह्मनायकः ॥४२॥ चित्तरूपा महाबुद्धिः पंचधा परिकीर्तिता । चित्तमोह- प्रदा सिद्धिस्ताभ्यां क्रीडति विघ्नपः ॥४३॥ चित्तं मोहयुतं विप्र त्यक्त्वा योगेन शांतिदम् । चिंतामणिं भजस्व त्वं योगिवंद्यो भविष्यसि ॥४४॥ एवमुक्त्वा ददौ मंत्रं प्रभुर्मह्यं षडक्षरम् । स विधिं तं नमस्कृत्य स्वाश्रमेऽहं समागमम् ॥४५॥ तत्र विघ्नेश्वरं भक्त्या भजं तं नित्यमादरात् । ततः स्वल्पेन शांतिस्थोऽभवं योगस्य सेवया ॥४६॥ तथापि गणराजं संपूज्य मंत्रपरायणः । अभजं तेन संतुष्टः प्रत्यक्षं प्रययौ स्वयम् ॥४७॥ मया संपूजितो भक्त्या स्तुतो नानाविधैः स्तवैः । मह्यं दत्त्वा दृढां भक्तिमंतर्धानं चकार ह ॥४८॥ तदारभ्य महीपाल गाणपत्योऽहमादरात् । भजामि तं गणेशानं स्वच्छंदेन महामते ॥४९॥ एवमुक्त्वा ददौ तस्मै कर्दमाय षडक्षरम् । मंत्रं विधियुतं विप्रो गणेशकृपया युतः ॥५०॥ अंतर्धानं चकारापि महान् मंकणको मुनिः । राजा हर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥५१॥ तत्राऽऽदौ कार्तिके मास्यागता कृष्णा चतुर्थिका । तां चकार पुरस्थैश्च जनैर्हर्षयुतो नृप ॥५२॥ ततो भूपेन विख्यातं कृतं व्रतमनुत्तमम् । शुक्लकृष्ण- चतुर्थीजं व्रतं चक्रुर्जना भुवि ॥५३॥ रोगहीनः स राजर्षिर्भजद्गणनायकम् । जना वंध्यत्वहीनाश्चाऽभजंस्ते भावसंयुताः ॥५४॥ पुत्रे राज्यं परित्यज्य सस्त्रीकः स वनं ययौ । तत्र विघ्नेश्वरं भक्त्याऽभजच्चानन्यचेतसा ॥५५॥ अंते स्वानंदगो