भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 481, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 481

[Header: खं. ४ अ. ३० | पान ८३]

भूत्वा ब्रह्मभूतो बभूव ह । क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥५६॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यत्त्वं शृणु भावेन परं कार्तिकसंभवम् ॥५७॥ चांडालः कोऽपि पापात्मा हिंसायां तत्परोऽभवत् । जघान ब्राह्मणा- नन्यान् जंतून् वनसमाश्रितान् ॥५८॥ परस्त्रियं वने दृष्ट्वाऽयभक्तां हठसंयुतः । एवं नानाविधं पापं चकार दुर्मतिः सदा ॥५९॥ कदाचित् कार्तिके मासि चतुर्थ्यां वनमाश्रितः । कृष्णायां तत्र सर्पेण दष्टः पापपरायणः ॥६०॥ ततोऽतिभयसंयुक्तः स्वगृहं प्रत्यपद्यत । तत्रोपायाः कृता नाना स्वजनैर्विषहारकाः ॥६१॥ तथापि विषबाधा च न जहौ तं सुदुर्मतिम् । ततश्चन्द्रोदये किंचित् सावधानो बभूव ह ॥६२॥ तत्रान्नं भक्षयित्वा स पुनस्तद्गरलेन च । व्याकुलः पतितस्तत्र गतचेष्टो- ऽन्त्यजोऽभवत् ॥६३॥ पंचम्यां स मृतः पापी ब्रह्मभूतो बभूव ह । व्रतपुण्यप्रभावेन तदद्भुतमिवाऽभवत् ॥६४॥ एवं नानाविधा राजन् व्रतपुण्यप्रभावतः । बभूविरे ब्रह्मभूता मया वक्तुं न शक्यते ॥६५॥ एतत्ते कथितं सर्वं माहात्म्यं कार्तिके नृप । संकष्ट्या यस्तु पठति शृणोतीप्सितमालभेत् ॥६६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । मार्गशीर्षे च कृष्णायाश्चतुर्थ्या वद मानद । माहात्म्यं सर्वदं स्वामिन् येन तृप्तो भवाम्यहम् ॥१॥ वसिष्ठ उवाच । इतिहासं पुरावृत्तं कथयामि सविस्तरम् । राजा बभूव तेजस्वी हरिश्चंद्रः प्रतापवान् ॥२॥ अयोध्यायां स्थितः सोऽपि नानाधर्मपरायणः । सदा सद्गुणसंयुक्तो यज्वा कर्मपरायणः ॥३॥ यद्यच्च याचते विप्रस्तद्ददाति स हर्षतः । तस्य पुण्येन तुल्यं तु न बभूव धरातले ॥४॥ ततश्छलयितुं योगी विश्वामित्रः समाययौ । सर्वराज्यं नृपस्यैव जगृहे दानमार्गतः ॥५॥ राज्यभ्रष्टं नृपं कृत्वा परप्रांते गतं पुनः । नानामिषेण तं तत्राच्छलयन् मुनिसत्तमः ॥६॥ ततः सोऽपि नृपोऽत्यंतं धर्मयुक्तो बभूव ह । न चचालातिदुःखेन संयुक्तः परमार्थवित् ॥७॥ तत्रैकदा चतुर्थी सा मार्गशीर्षे समागता । कृष्णा नृपः क्षुधायुक्तो बभूव तृषया युतः ॥८॥ छलितो मुनिनाऽत्यंतं ततश्चंद्रोदयोऽभवत् । तत्रान्नं भक्षयामास राजेंद्रो दैवयोगतः ॥९॥ पंचम्यां बुद्धिसंभेदो विश्वामित्रस्य चाऽभवत् । तज्ज्ञात्वा विस्मितो योगी विचचार स्वचेतसि ॥१०॥