मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 491, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ३५ पान ९३ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । उद्यापनं व्रतस्यास्य वद त्वं मुनिसत्तम । येन सांगं फलं सर्वं लभते व्रतकारकः ॥१॥ मुद्गल उवाच । उद्यापनं प्रजानाथ व्रतस्यादौ मतं बुधैः । अथवा वर्षमध्ये तत् कर्तव्यं व्रतकारिणा ॥२॥ अथवा भाद्रमासे वै शुक्लायां च प्रजापते । उद्यापनं प्रकर्तव्यं कृष्णायां माघमासके ॥३॥ महामंडपं कुर्यात् कदलीस्तंभमंडितम् । नाना- शोभासमायुक्तं विभवे सति मानद ॥४॥ वित्तशाठ्यं न कुर्यात् स यथाविभवमाचरेत् । छत्राऽऽदर्शादिभिः शोभां दीपमालाविराजितम् ॥५॥ मणिमुक्तादिकैः पूर्णं भूषणैश्च विशेषतः । यत्र तत्र यथायोग्यं प्रकुर्याद्व्रतकारकः ॥६॥ मध्याह्न- समये तस्याः शुक्लायाः कथितं प्रभो । चन्द्रोदये च कृष्णायाश्चतुर्थ्याः पूजनं चरेत् ॥७॥ गोमयेन प्रलिप्याऽथ धान्यराशिं प्रकल्पयेत् । तन्मध्येऽष्टदलं पद्मं कुर्यात्तद्रुरुणा स्वयम् ॥८॥ तत्र संस्थाप्य सौवर्णं कलशं ताम्रजं तथा । रौप्यं वा मृन्मयं दक्ष वस्त्रयुग्मेन वेष्टयेत् ॥९॥ तस्योपरि सुवर्णस्य पात्रं स्थाप्य महामतिः । वस्त्रं ततो गणेशस्य यंत्रं कुर्याद्विचक्षणः ॥१०॥ तत्र गणपतेश्चैव मूर्तिर्धातुविनिर्मिता । सर्वावयवसंयुक्ता भूषणै राजिता भवेत् ॥११॥ द्विजोत्तमश्च संस्थाप्य पूजयेत्तां यथाविधि । ब्राह्मणान् वरयेच्छुद्धानैकविंशतिसंख्यकान् ॥१२॥ गणानां त्वेति मंत्रस्य जपं कुर्याद्विशेषतः । ततो होमं प्रकुर्वीत सहस्रं वा तदर्धकम् ॥१३॥ अष्टोत्तरशतं वाऽपि तथा जपद्दशांशकम् । गीतवाद्यपुराणानि वेदाध्ययनमेव च ॥१४॥ नानाशास्त्रप्रवादांश्च कुर्वंतु ब्राह्मणास्ततः । यत्र तत्र गणेशस्य कथाः संकथयंतु ते ॥१५॥ ततः पूर्णाहुतिं कुर्याद्वसोर्धारां स पातयेत् । बलिदानं ततः कुर्यात्ततो वायनकं चरेत् ॥१६॥ एकविंशतिपक्वान्नैरैकविंशतिसंख्यकैः । नैवेद्यैर्ब्राह्मणान् संभोज्यार्थयेत्तान् विशेषतः ॥१७॥ दक्षिणां विपुलां दत्त्वा सपत्नीकान् प्रतोषयेत् । योषिद्भ्यः कंचुकीर्दद्या- द्भूषणानि महामतिः ॥१८॥ कृष्णायां च चतुर्थ्यां स चन्द्रायार्घ्यं प्रदापयेत् । शुक्लायां तत्तथा दक्ष चेरेच्चन्द्रार्घ्यवर्जितम् ॥१९॥ आदौ स तिथये दद्यात् पश्चाद्विघ्नेश्वराय वै । ततश्चन्द्राय तन् मंत्रैरर्घ्यं मंत्रसमन्वितम् ॥२०॥ तिथीनां मातृरूपे त्वं देवि सर्वार्थदायिनि । गृहाणार्घ्यं मया दत्तं चतुर्थ्यै ते नमो नमः ॥२१॥ गजानन नमस्तुभ्यं नानासिद्धिप्रदायिने । गृहाणार्घ्यं बुद्धिपते मया दत्तं शुभप्रद ॥२२॥ अत्रिगोत्रसमुद्भूत गणेशप्रीतिवर्धन । गृहाणार्घ्यं मया दत्तं रोहिण्यामृतधारक ॥२३॥ कृष्णपक्षे सदा रात्रौ भोजनं स समाचरेत् । शुक्लपक्षे च पंचम्यां ब्राह्मणादींस्तु भोजयेत् ॥२४॥ चतुर्थ्यां जागरं कुर्यात् गणेशकथयान्वितः । पंचम्यां पूर्ववत् पूज्य नैवेद्याद्यैर्महामतिः ॥२५॥ दीनांधकृपणेभ्यश्च दद्यादन्नादिकं