मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 492, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ३६ पान ९४ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ तथा । ब्राह्मणेभ्यो विशेषेण दक्षिणां दापयेन्नरः ॥२६॥ सर्वान् संभोज्य दानेन तोषयेद्देवसन्निधौ । गणेशदृढभक्तिं स याचयेत्तेभ्य आदरात् ॥२७॥ ततः सोपस्करां मूर्तिं दद्यात् स्वगुरवे स्वयम् । एकविंशतिविप्रेभ्यः कलशान् दापयेत्ततः ॥२८॥ संतोष्योदारधीः सर्वान् स भावेन क्षमापयेत् । ततो गणपतिं नित्यं भजेतानन्यचेतसा ॥२९॥ एवमुद्यापनं कुर्याद्व्रतस्यास्य महामतिः । स संपूर्णफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥३०॥ वक्तुं न शक्यते दक्ष माहात्म्यं च व्रतोद्भवम् । सोद्यापनं विशेषेण कथितं ते यथामति ॥३१॥ इदं चतुर्थीजं दक्ष चरितं संशृणोति चेत् । पठेद्वा तस्य विघ्नेशो मानसेप्सितदो भवेत् ॥३२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थ्युद्यापननिरूपणं नाम पंचत्रिंशोऽध्यायः ॥ ❧★❧ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । माहात्म्यं यच्छुतं मुख्यं चतुर्थीसंभवं महत् । कृतकृत्यश्च तेनाऽहं संजातो मुनिसत्तम ॥१॥ अधुना वद माहात्म्यं लोभासुरनिबर्हणे । गजाननस्य योगीश चरित्रं सर्वसिद्धिदम् ॥२॥ मुद्गल उवाच । इतिहास प्रवक्ष्यामि पुरातनभवं प्रभो । सर्वसिद्धिप्रदं दक्ष श्रवणेन न संशयः ॥३॥ एकदा शैलवर्ये तु कैलासे शंकरः स्थितः । पार्वत्या स्वगणैः सार्धं देवैर्मुनिभिरावृतः ॥४॥ तत्राऽऽजगाम पौलस्त्यः कुबेरो निधिसंयुतः । प्रणम्य गिरिजायुक्तं शंकरं पुरतः स्थितः ॥५॥ समीपे शंकरस्यैव गत्वा चामरसंयुतः । असेवत महात्मानं भक्तियुक्तेन चेतसा ॥६॥ अकस्माद्दैवयोगेन दृष्ट्वा पर्वतनंदिनीम् । रूपेणाप्रतिमां सर्वावयवैः शोभनैर्युताम् ॥७॥ साक्षान् मायामयीं शक्तिं मोहयुक्तो बभूव ह । कामबाणाभिभूतः सन्नपश्यत्तां सुविह्वलः ॥८॥ सकामदृष्टिसंयुक्तं पश्यंतं तं धनाधिपम् । दृष्ट्वा कोपसमायुक्ता बभूवे शंकरप्रिया ॥९॥ क्रोधेन वक्रनेत्रं सा ज्वालयामास तत्क्षणात् । कुबेरस्य महादेवी सोऽपि शोकाकुलोऽभवत् ॥१०॥ अतिविह्वलगात्रत्वात् प्रास्कंदद् वीर्यमुत्तमम् । धनपस्याऽत्र पुत्रोभूत् पपात शोभया युतः ॥११॥ ततः स लज्जया युक्तः प्रणनाम महेश्वरीम् । नियम्यात्मानमानिंद्य तुष्टाव विविधैः स्तवैः ॥१२॥ ततः सा शंकरेणैव सांत्विता जगदंबिका । पिंगाक्षं तं चकाराऽपि पुत्रभावप्रदर्शिनी ॥१३॥ जगदंबा लोभनार्थं कुबेरोऽभूत् समुद्यतः । मातृगामिस्वरूपत्वात् पुत्रस्तस्य प्रतापवान् ॥१४॥ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖