भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 493, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 493

खं. ४ अ. ३६ पान ९५ लोभ एव समाख्यातं नाम तस्य द्विजैस्ततः । संगृह्य तं गृहं देवो धनदः प्रजगाम ह ॥१५॥ कुबेरभवने संस्थं लोभं तं नारदो मुनिः । ज्ञात्वा जगाम पाताले वीणागानपरायणः ॥१६॥ तारं पातालसंस्थं तं दानवानां हितैषिणम् । इंद्रेण निर्जितं ज्ञात्वा नारदः प्रययौ मुनिः ॥१७॥ तारः समुत्थितो विप्रं प्रणनाम मुदा युतः । पप्रच्छाऽऽपूज्य वृत्तांतं दानवानां हितावहम् ॥१८॥ तार उवाच । इंद्रेणाऽहं जितो विप्र दानवा मर्दिता भृशम् । अधुना किमु कुर्यां तद्वद मे मुनिसत्तम ॥१९॥ नारद उवाच । अलकायां कुबेरस्य पुत्रोऽभूद्वीर्यपातः । लोभस्तत्र समागत्य हर त्वं पुत्रमादरात् ॥२०॥ तं पालय महाभाग तेन ते वाञ्छितं महत् । भविष्यति न संदेहो मम तस्माद्वचः कुरु ॥२१॥ एवमुक्त्वा महायोगी नारदोऽन्तर्हितोऽभवत् । तारः स्म हर्षितोऽत्यंतं मेने स कृतकृत्यताम् ॥२२॥ मायया दानवाधीशस्त्वलकायां जगाम ह । गृहीत्वा लोभकं पुत्रं सुप्तं स्वगृहमागमत् ॥२३॥ लोभं केनचिदागत्य हृतं ज्ञात्वा धनाधिपः । न शोकं मानसे सोऽपि प्रचक्रे दुर्निमित्तजम् ॥२४॥ तारः पुत्रं समानीय पालयामास हर्षतः । बालकीडनकैर्युक्तं तं दृष्ट्वा विस्मितोऽभवत् ॥२५॥ उत्पाट्य बालकैर्वृक्षान् रेमे लोभः प्रतापवान् । तलप्रहारवेगेन दारुणां बिभिदे शिलाम् ॥२६॥ एवं नानाविधं कर्मास्य दृष्ट्वा दानवोत्तमाः । हर्षयुक्ता बभूवुस्ते मेनिरे कृतकृत्यताम् ॥२७॥ ततः पंचमवर्षे स चकार व्रतबंधनम् । वेदानध्यापयामास शुक्रशिष्यैर्महाबलः ॥२८॥ स आसुरीं महामायां सर्वदेवविमोहिनीम् । विद्यामभ्यस्य लोभस्तु शस्त्रास्त्रे पारगोऽभवत् ॥२९॥ ततः प्रणम्य विप्रेंद्रं शुक्रं सर्वविदांवरम् । पप्रच्छ सर्वदं पूर्णमुपायं लोभ आदरात् ॥३०॥ ततः पंचाक्षरीं विद्यां ददौ तस्मै महामुनिः । शैवीं विधियुतां लोभस्तं प्रणम्य ययौ वनम् ॥३१॥ तत्र गत्वा तपस्तेपे शिवं ध्यात्वा महासुरः । जपं चकार भावेन निराहार- परायणः ॥३२॥ भस्मांगलेपसंयुक्तः शैवमार्गपरायणः । तोषयामास यत्नेन शंकरं सर्वदं परम् ॥३३॥ एवं तपसि लोभः स संस्थितो बहुवासरम् । ततस्तस्य शरीरेऽपि वल्मीको ववृधे महान् ॥३४॥ दिव्यवर्षसहस्रेण प्रसन्नः शंकरः प्रभुः । आययौ तं वरं दातुं पार्वत्या सह शूलभृत् ॥३५॥ समागतं महेशानं न बुबोध स दानवः । ततस्तं जलमासिच्य शंभुः शक्तं चकार ह ॥३६॥ ततः शंभुं समालोक्य हर्षयुक्तेन चेतसा । जगाद तं प्रणम्यादावुत्थितो दानवाधिपः ॥३७॥ लोभासुर उवाच । धन्यं मेऽद्य तपो मंत्रो धन्यौ मे जनकौ प्रभो । जन्म ज्ञानादिकं सर्वं येन दृष्टो महेश्वरः ॥३८॥ किं स्तौमि त्वां महेशान साक्षाद्ब्रह्म सनातनम् । तथापि स्तौमि देवेश त्वद्दर्शनस्फुरन्मतिः ॥३९॥ नमस्ते विश्वनाथाय सर्वांतर्यामिणे