भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 494, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 494

ख ४ अ. ३७ पान ९६

नमः। शंकराय शिवायैव ह्यनंतगुणराशये ॥४०॥ त्रिनेत्राय महादेव शक्तियुक्ताय शंभवे । निर्गुणाय गुणानां ते चालकाय नमो नमः ॥४१॥ अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज । स्रष्ट्रे पात्रे च संहर्त्रे त्रिधारूपाय वै नमः ॥४२॥ अकर्तु- मन्यथा कर्तुं कर्तुं शक्ताय ते नमः । सदा मोहविहीनाय मृडाय सततं नमः ॥४३॥ स्वाधीनाय परेशाय सहजे खेलकारिणे । शूलहस्ताय देवानां पतये ते नमो नमः ॥४४॥ कैलासवासिने तुभ्यं भस्मलेपकराय वै । दिगंबराय सर्वेभ्यः सर्वदाय नमो नमः ॥४५॥ एवं स्तुत्वा महेशानं तूष्णीं भावेन संस्थितः । लोभासुरः प्रसन्नात्मा साश्रुकः स कृतांजलिः ॥४६॥ तमुवाच महादेबो वरं वृणु हृदीप्सितम् । दास्यामि तपसा स्तोत्रेण तुष्टो दानवोत्तम ॥४७॥ त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भविष्यति न संदेहो भुक्तिमुक्तिप्रदायकम् ॥४८॥ यः पठिष्यति दैत्येंद्र श्रावयिष्यति वा नरः । श्रोष्यते स लभेत् सद्यो वाञ्छितं मत्प्रियः सदा ॥४९॥ श्रुत्वा शंकरवाक्यं स तं जगाद महासुरः । हर्षेणोत्फुल्लनेत्रश्च भक्त्या विनयसंयुतः ॥५०॥ लोभासुर उवाच । वरदोऽसि यदि त्वं च तदा भक्तिं च ते दृढाम् । देहि राज्यं महादेव ब्रह्मांडस्य विशेषतः ॥५१॥ नानैश्वर्यसमायुक्तमारोग्यादिसमन्वितम् । मनसीप्सितमेवं मे सिद्धयतु त्वदनुग्रहात् ॥५२॥ मनोवाणीमयं यच्च तस्मान् मृत्युर्न मे भवेत् । सदानंदसमायुक्तं मां कुरुष्व कृपानिधे ॥५३॥ लोभासुरस्य वाक्यं वै श्रुत्वा चकितमानसः । शंकरस्तपसा बद्धस्तथेति तमुवाच ह ॥५४॥ अंतर्धाय स्वमात्मानं कैलासस्थो बभूव ह । लोभासुरः प्रसन्नात्मा स्वगृहं प्रत्यपद्यत ॥५५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरवरप्राप्तिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । लोभासुरः समागत्य पितरं मातरं ततः । प्रणम्य सुहृदः सर्वान् यथायोग्यं चकार ह ॥१॥ महिषासुरपुत्रीं स उवाह रूपशालिनीम् । तृष्णां गुणयुतां सोऽपि तया संहर्षितोऽभवत् ॥२॥ एवं नाना विभोगेन सुहृदानंदकारकः । बभूव बलसंयुक्तो मदेन भृशमोहितः ॥३॥ मद्यां समागतः सोऽपि दानवैः परिवारितः । नगरं निर्ममे तत्र सदा विषयवर्धनम् ॥४॥ चकार नाम तस्यापि सुखदं दानवेरितः । ततो दिग्भ्यः समायाता नाना दैत्यगणाः

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 494, कुल 1023 में से · BharatKosha