मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 495, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ३७ पान ९७ पुरे ॥५॥ ततो लोभोऽसुरैः सर्वैः स्वयं गत्वा महामुनिम् । शुक्रं समानयत्तत्र प्रणम्य भावसंयुतः ॥६॥ शुक्रेण प्रेरिता दैत्या गतास्तत्र महापुरे । देवांतकश्च वृत्रश्च बलिर्जृम्भः प्रतापवान् ॥७॥ नरांतकः प्रहेतिश्च हेतिर्विप्रचित्तिस्तथा । इत्याद्या बहवश्चान्ये मिलिता अभवन् प्रभो ॥८॥ ब्राह्मणैः कारयामास ततः शुक्नोऽभिषेचनम् । दैत्यादीनां महाराज्ये स्थापयामास तं मुनिः ॥९॥ सर्वे संहृष्टकास्तत्र बभूवुर्दानवोत्तमाः । ततः स्वस्वगृहेष्वेतेऽगमन् घोषकरा भृशम् ॥१०॥ ततो बहौ गते कालेऽसुरो लोभः प्रतापवान् । आह्वयामास दूतैस्तान् दानवान् बलसंयुतान् ॥११॥ आज्ञामात्रेण तस्यैव समाजग्मुर्बला- न्विताः । असुरा भयदाः सर्वेऽसुरं लोभं प्रजापते ॥१२॥ लोभासुरोऽसुरान् सर्वान् संप्रपूज्य यथाविधि । उवाच तान् महावाक्यं हर्षयन् दानवोत्तमः ॥१३॥ लोभासुर उवाच । विप्रचित्त्यादिकाः सर्वे शृणुध्वं मे वचो हितम् । भवतां पुण्ययोगेन जेष्यामि सकलं जगत् ॥१४॥ यदिच्छा भवतां वृद्धाः श्रेष्ठा अत्रैव संगताः । तदाऽऽज्ञा मे प्रकर्तव्या करोमि बलसंयुतः ॥१५॥ एवं तस्य वचः श्रुत्वा हर्षिता दानवोत्तमाः । जगुस्तं भावगंभीरं साधु साधु त्वयेरितम् ॥१६॥ जेष्यामस्त्वत्प्रसादेन देवान् विष्णुपुरोगमान् । पराक्रमतुला तेन विद्यते जगति प्रभो ॥१७॥ ततोऽतिहर्षिताः सर्वे शुक्रं तत्र समानयन् । तेनाज्ञप्ता महाभागाः सज्जास्ते प्रबभूविरे ॥१८॥ गजासुरो विप्रचित्तिर्देवांतकनरांतकौ । प्रतापवांश्च तारो वै प्रहेतिर्हेतिरेव च ॥१९॥ बलिर्जृम्भस्तथाऽन्ये वै दंशिता अभवंस्तदा । स्वस्वसेनायुताः सर्वे नानावाहनगा बभुः ॥२०॥ पदातयोऽप्य- संख्याता अश्वारोहास्तथाऽपरे । पशुसंस्थाः खगारोहा अपाराश्च समाययुः ॥२१॥ गजारोहा रथारूढा नानावाहनसंस्थिताः । महासुराः शस्त्रसंयुक्ता लोभासुरमाययुः ॥२२॥ तैः समेत्य महाबाहुर्लोभः संहर्षितोऽभवत् । पृथिवीजयनार्थाय कालकंपनकारकः ॥२३॥ एतादृशा महावीरा यत्रातिष्ठन् सुदंशिताः । तैर्युद्धं नृपशार्दूलाः किं कर्तारोऽल्पमानवाः ॥२४॥ नृपाः केचिन् मृतास्तत्र संग्रामे दारुणे प्रभो । केचित्तान् शरणं जग्मुः पलायनपरा ययुः ॥२५॥ एवं सप्तसमुद्रांतां पृथिवीं जित्वा महाबलाः । असुरा हर्षिताः सर्वे सार्वभौमा बभूविरे ॥२६॥ ये मृतास्तत्सुतास्तैस्ते स्थापिताः करदायिनः । पलायिताश्च तत्स्थाने स्थापिता दानवोत्तमाः ॥२७॥ शरणं ये गतास्तेऽपि स्थापिता हर्षसंयुताः । वरं तस्य समाज्ञाय शेषस्तांश्च समाययौ ॥२८॥ वार्षिकं करभारं स कृत्वा दत्त्वा महाधनम् । साम्ना तैः पूजितः सोऽपि स्वगृहे नागराड् ययौ ॥२९॥ ततोऽतिहर्षिता दैत्या ययुः स्वर्गं सुशोभनम् । लोभासुरेण संयुक्ता महामाया महाबलाः ॥३०॥ इंद्रः सुरगणैः सार्धं