भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 496, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 496

दंशितो वज्रधारकः। बृहस्पतिं प्रणम्यैवं जगाद स्वमतं प्रभुः ॥३१॥ इंद्र उवाच । लोभासुरः समायातो दानवैर्बलवत्तरैः । तेन योद्धुं गमिष्यामि त्वदाज्ञावशगः प्रभो ॥३२॥ इंद्रस्य वचनं श्रुत्वा निःश्वस्य मुनिपुंगवः । जगाद तं महेंद्रं बृहस्पतिः स प्रतापवान् ॥३३॥ गुरुरुवाच । शैवेन वरदानेन युक्तोऽसौ दैत्यनायकः । नानारूपधरः सोऽपि जेतुं नैव प्रशक्यते ॥३४॥ अतः सर्वं परित्यज्य विष्णोश्च शरणं सुर । गच्छ सोऽपि महाबुद्धिः करिष्यति हितं महत् ॥३५॥ गुरोर्वचनमाकर्ण्य सुरेंद्रः शोकसंयुतः । सुरेंद्रैः सहितः सोऽपि विकुंठमगमत्तदा ॥३६॥ देवस्थानानि सर्वाणि दृष्ट्वा शून्यानि सर्वतः । दैत्या हर्षयुताः सर्वे प्रवेशं चक्रुरंजसा ॥३७॥ दैत्यराजोऽमरावत्यां लोभः सर्वसमन्वितः । गत्वाऽऽसने महेंद्रस्य समारूढो बभौ स्वयम् ॥३८॥ सर्वान् संमान्य दैत्येंद्रो ददौ नानापदानि सः । दैत्येंद्रास्तत्र संस्थास्ते मुमुदुर्भोगकारकाः ॥३९॥ गंधर्वास्तं महादैत्यमप्सरोभिः समन्विताः । सिषेविरे प्रजापाल विद्याध्राद्याः समाहृताः ॥४०॥ देवोद्यानेषु दैत्येंद्रा बभ्रमुर्हर्षसंयुताः । यत्र तत्र महाभागा व्यहरंस्ते यथासुखम् ॥४१॥ लोभासुरं प्रणम्यैव संस्थिता विगतज्वराः । अवदन्न समः कश्चिल्लोभेन भुवनेषु च ॥४२॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरस्येन्द्रपदप्राप्तिवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । इंद्रः सुरगणैः सार्धं बृहस्पतिपुरोगमः । वैकुंठे विष्णुमानम्य गत्वा तुष्टाव तं स्तवैः ॥१॥ ततस्तुष्टो हरिः प्राह महेंद्रं मान्यभावतः । स्थीयतां दैवतैः सर्वैः किं कार्यं समुपस्थितम् ॥२॥ त्यक्त्वाऽमरावतीं तात किमर्थं चागतो भवान् । श्रिया हीनः पदा देवैर्वद दुःखं महाद्भुतम् ॥३॥ इंद्र उवाच । किं वदामि जगत्पाल सर्वज्ञं त्वां महामते । तथापि शृणु वृत्तांतं शोकंदं दैवकारितम् ॥४॥ लोभासुरश्च शैवेन वरेण बलदर्पितः । दानवैर्द्रैर्महाबाहुर्यो त्वं स ह्यागतोऽधुना ॥५॥ गुरुणा बोधिताः सर्वे वयं प्राप्ता जनार्दन । त्यक्त्वा राज्यादिकं सर्वं विचारं कुरु सर्वथा ॥६॥ दैत्योऽमरावतीसंस्थो देवस्थानानि माधव । प्रददाति च दैत्येभ्यः स्वर्गराज्यं करोति सः ॥७॥ त्वं पालकः श्रुतौ प्रोक्तस्तस्मा- च्छरणमागतान् । रक्ष लोभासुरं हत्वा देवानामीश्वरो भवान् ॥८॥ तेषां तद्वचनं श्रुत्वा विष्णुः कोपसमन्वितः ।