भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 498, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 498

******************************************************************** पान १०० एवं द्वंद्वरतैर्दैत्यैर्देवेंद्रा मूर्च्छिताः कृताः ॥३५॥ हा हा कृत्वा ततः सर्वं देवसैन्यं दिशो दश । पपाल तन् महाश्चर्यं दृष्ट्वा विष्णुश्चकोप ह ॥३६॥ चक्रं प्रगृह्य चिक्षेप महाबाहुः स दारुणम् । दैत्यसैन्ये ततस्तेन हता दैत्या अनेकशः ॥३७॥ केषांचिन्मस्तकेष्वेतदपतद्दारुणं महत् । चिच्छेद हस्तपादादीन् दानवानामितस्ततः ॥३८॥ ततो दैत्येंद्राः सर्वे आययुस्ते जनार्दनम् । शस्त्रास्त्रैः सर्वतो दुष्टा मारयामासुरेव तम् ॥३९॥ नारायणस्ततः कोपसंयुक्तोऽतिप्रतापवान् । गजासुरं स विव्याध बाणैर्दशभिरावृतम् ॥४०॥ तं मूर्च्छितं चकाराऽसौ ततो देवांतकं हरिः । सप्तभिस्ताडयामास पातयामास भूतले ॥४१॥ एवं सर्वान् महाविष्णुः दानवेंद्रान् सुदारुणान् । विव्याध मूर्च्छितांश्चक्रे शरवर्षैः समंततः ॥४२॥ ततो हाहारवं कृत्वाऽपलत्तत् सैन्यमुल्बणम् । दानवानां भयार्तं वै दशदिक्षु विशेषतः ॥४३॥ ततो लोभः समायातः क्रोधयुक्तो जनार्दनम् । जगाद वचनं सोऽपि मोहयुक्तो महासुरः ॥४४॥ लोभ उवाच । सम्यक् कृतं त्वया विष्णो येन मे दर्शनं गतः । अधुना त्वां न मुंचामि जीवयुक्तं कदाचन ॥४५॥ नामरूपात्मकेभ्यश्च मरणं नैव मे भवेत् । ज्ञात्वा किमर्थमायातो ज्ञानहीनो यथा नरः ॥४६॥ गदां गृहीत्वैवमुक्तवा ताडयामास केशवम् । पपात मूर्च्छया विष्णुस्ततः सैन्यं व्यमर्दयत् ॥४७॥ मुहूर्तमात्रकालेन सावधानो बभूव ह । पपाल देवराजैः स त्यक्त्वा संग्राममंडलम् ॥४८॥ प्रहस्य दानवान् सर्वान् सावधानांस्तथाऽकरोत् । लोभासुरः प्रसन्नात्मा तैः सार्धं स्वपुरेऽगमत् ॥४९॥ स्तुतो बंदिजनैस्तेभ्यो दत्त्वा दानानि हर्षितः । इंद्रासने समासीनो रेजे दानवसत्तमः ॥५०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः ॥ ❧❧❧ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततोऽतिदुःखितो विष्णुर्देवेंद्रैश्च समन्वितः । त्यक्त्वा वैकुंठमेवं स ययौ शंभुं शरण्यकम् ॥१॥ गत्वा कैलासके दक्ष शिवं नत्वा जनार्दनः । स्तुत्वा वृत्तांतमेवं स कथयामास विस्तरात् ॥२॥ श्रुत्वा महेश्वरो विष्णुं स देवं स्वपुरागतम् । सांत्वयामास युक्तैश्च नानादृष्टांतदर्शनैः ॥३॥ शिव उवाच । मा चिंतां कुरु विष्णो त्वं सर्वज्ञ जगदीश्वर । तपःपुण्यं महोग्रं यत्तेन त्वं स पराजितः ॥४॥ तपः कृतं च लोभेन फलं तस्य जनार्दन । भुक्त्वा