भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 499, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 499

खं. ४ अ. ३९ पान १०१ मरिष्यते नाथ कालस्तत्र प्रतीक्ष्यताम् ॥५॥ देवैः सह महाविष्णो मत्समीपे स्थिरो भव । मदीयभक्तियुक्तो ह्यागमिष्य- त्यत्र नैव सः ॥६॥ एवमुक्त्वा वचो विष्णुं शंकरः शोकसंयुतः । देवैस्तेन समायुक्तोऽतिष्ठत् कैलासपर्वते ॥७॥ अथ लोभासुरं सर्वैः संस्थितं दानवैर्वृतम् । इंद्रासने महाबाहुं तमूचुर्दानवोत्तमाः ॥८॥ विप्रचित्त्याद्या ऊचुः । लोभ लोभ महाभाग शृणु नो वचनं हितम् । विष्णुर्देवगणैः सर्वैः कैलासे शंकरं ययौ ॥९॥ अस्माकं शंकरः सोऽपीष्टदेवः पूज्य आदरात् । शत्रून् रक्षति नः शंभुर्भविष्यति विपक्षगः ॥१०॥ अधुना शंकरस्यास्य भावार्थं प्रेष्यतां महान् । दूतः सर्वार्थसूज्ञः कस्ततः क्षेमं भविष्यति ॥११॥ शिवो यदि स देवानां पक्षगो भवति प्रभो । तदा शंभुं प्रजेष्यामस्तपोबलसमन्विताः ॥१२॥ न ते शंभुर्वरस्यैव दाता जानीहि मानद । कर्मणां फलदातारः कृता देवाश्च कर्मणा ॥१३॥ कर्माधीनं जगत् सर्वं सदेवासुर- मानुषम् । कर्माज्ञावशगं दैत्य कर्मणा त्वं महाप्रभुः ॥१४॥ देवाः कर्मफलं लोभाद्दते न विशेषतः । तदैश्वर्यविहीनास्ते पतंति स्वपदात् किल ॥१५॥ अतस्त्यक्त्वा स्वसंदेहं त्यज शंभुं विपक्षगम् । कुरु कर्माश्रयं त्वं वै तेन क्षेमं भविष्यति ॥१६॥ इत्युक्त्वा दानवेंद्रास्ते विरामं चक्रुरंजसा । लोभासुरस्तस्तेषां वचने निरतोऽभवत् ॥१७॥ गजासुरं महावीर्यं प्रेषयामास सत्वरम् । कैलासे शंकरस्यैव भावार्थं भावधारकः ॥१८॥ गत्वा शंभुं महादैत्यः प्रणम्य प्रत्युवाच सः । वचनं लोभदैत्येन प्रेषितं सामपूर्वकम् ॥१९॥ गजासुर उवाच । महादेव नमस्तुभ्यं शृणु मे वचनं हितम् । लोभासुरेण देवेश प्रेषितोऽहं विशेषतः ॥२०॥ तेन संकथितं वाक्यं तच्छृणुष्व सुखप्रदम् । त्वं साक्षादीश्वरः पूर्णोऽस्माकं पूज्यो निरंतरम् ॥२१॥ विष्णुर्देववरः स्वामिन्नागतस्ते प्रसन्निधौ । अस्माकं शत्रुरेवाऽसौ तं त्यज त्वं सदाशिव ॥२२॥ वयं भक्तास्त्वदीयाश्चास्माकं मित्रं तदेव ते । मित्रं शत्रुस्तथा शंभो पालयस्वावराद्वि नः ॥२३॥ नो चेत् संग्रामभावेन जेष्यामस्त्वां न संशयः । कर्मणा त्वं समर्थश्चेत् संजातो भुंक्ष्व विष्टपम् ॥२४॥ कर्मणा लोभकः शंभो सर्वैश्वर्ययुतोऽधुना । तस्मादस्मान् महाभाग रक्ष ते भक्तिसंयुतान् ॥२५॥ तस्य तद्वचनं श्रुत्वाऽब्रवीन्निःश्वस्य शंकरः । गुजासुरं स्वयं साम्ना वचनं हितकारकम् ॥२६॥ शिव उवाच । गजासुर महालोभं वद मे वचनं हितम् । गत्वा तं दानवेंद्रं त्वं सर्वासुरसमन्वितम् ॥२७॥ कैलासं विष्णुना त्यक्त्वा सहितोऽहं स्वदेवपैः । गच्छामि यत्र कुत्रापि न त्यजामि जनार्दनम् ॥२८॥ कर्मणा त्वं समर्थश्चेत् संजातो भुंक्ष्व विष्टपम् । सर्वं चराचरं तेऽभूत् स्वाधीनं नात्र संशयः ॥२९॥ एवमुक्त्वा सुदुर्बुद्धिं शंकरः सुरनायकैः । जगाम पर्वतोद्देशे