मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 500, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ४० पान १०२
त्यक्त्वा कैलासमात्मनः ॥३०॥ महावने महेशानः पर्वतद्रोणिमाश्वितः । देवैर्विष्णुमुखैः सर्वैः पशुवत् कालचालकः ॥३१॥ गजासुरः सभां गत्वा जगाद सकलैर्युतम् । लोभासुरं स वृत्तांतं श्रुत्वा संहर्षितोऽभवत् ॥३२॥ ततः स सत्यलोके च वैकुंठेशंकरालये । दानवान् स्थापयामास नानादेवपदेषु वै ॥३३॥ इंद्रासनं परित्यज्य ययौ भूम्यां महासुरः । स्वपुरे दानवेंद्रैश्चावसद्रोगपरायणः ॥३४॥ न ममर्शा निजात्मानं गर्वितः केवलं स तु । स्त्रीमांसमदिरादिष्वासंसक्तोऽभूत् सुदुर्मतिः ॥३५॥ धन्यमात्मानमेवं स मन्यते स्म कृतार्थकम् । ब्रह्मांडं वशगं मेऽभून्न मत्तः श्रेष्ठ एककः ॥३६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरब्रह्माण्डजयो नामैकोनचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो बहौ गते काले दानवा बलदर्पिताः । जगुर्लोभासुरं तत्र लोभयुक्ता विशेषतः ॥१॥ दानवेंद्रा ऊचुः । देवा लोभासुर स्वामिन्नस्माकं शत्रवो मताः । सुराश्चासुरवर्याणां वेदे प्रोक्ता विचारय ॥२॥ शस्त्रास्त्रै- र्देवसंघास्ते न मरिष्यंति कर्हिचित् । अमरा वेदशास्त्रेषु कथिता नात्र संशयः ॥३॥ कर्मान्ना देवताः स्वामिन् क्षते कर्मणि तत्क्षणात् । मरिष्यंति महाभाग तदर्थं यत्नमाचर ॥४॥ जित्वा ब्रह्मांडगोळं किं संस्थितोऽसि महासुर । न कृतार्थस्त्वमेवैवं कदा जीवत्सु शत्रुभु ॥५॥ हिरण्यकशिपुर्जित्वा पुरा देवगणान् स्वयम् । राज्यं चकार सर्वत्र भुवनेषु न संशयः ॥६॥ ततो देवैः प्रयत्नेन निर्मितो नृहरिः प्रभो । तेन हत्वा सुराधीशं देवाः स्वस्थानगा बभुः ॥७॥ अतस्त्वं दैत्यराजेंद्र हितं कुरु विशेषतः । तदा चिरं महाराज सुखयुक्तो भविष्यसि ॥८॥ तेषां वचनमाकर्ण्य लोभासुरः सुमंदधीः । आज्ञापयत्ततो दैत्यो दैत्येंद्रान् कर्मखंडने ॥९॥ ततो गजासुराद्याश्च निर्गता क्रोधसंयुताः । यत्र तत्र द्विजान् धृत्वा जघ्नुर्यज्ञान् विशेषतः ॥१०॥ यज्ञवृक्षांस्तथा गाश्च तीर्थानि यत्र तत्र ते । जघ्नुर्बभंजुरत्यंतं कर्मखंडनकारणात् ॥११॥ बभंजुः क्रोधसंयुक्ता देवता- ऽऽयतनानि ते । स्वधर्मस्थं जनं दृष्ट्वा जघ्नुर्दानवसत्तमाः ॥१२॥ सर्वत्र दानवाधीशैर्लोभासुरस्य मूर्तयः । जनैः पूज्याः कृता दक्ष तदाधारं बभूव ह ॥१३॥ न स्वाहा न स्वधा कुत्र बभूव प्रलये यथा । न वषट्कारगं कर्म त्रासितं भूमिमंडलम् ॥१४॥ लोभासुरयुतं सर्वैः कर्म तैः प्रतिपादितम् । ततो हाहारवैर्युक्ता बभूवुर्मानवाः प्रभो ॥१५॥ ब्राह्मणा वनगा भूत्वा केचिन-