भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 501, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 501

मरणनिश्चयाः । चक्रुः कर्म तथा भ्रष्टा बभूवुर्बहवो द्विजाः ॥१६॥ एवं बहौ गते काले देवाः परमदुःखिताः । उपवासपराः सर्वे बभूवुस्ते प्रजापते ॥१७॥ ततोऽतियत्नसंयुक्ता विचारं चक्रुरंजसा । लोभासुरविनाशाय न प्रापुस्ते दिवौकसः ॥१८॥ ततोऽतिदुःखिताः सर्वे किं कुर्म इति विह्वलाः । संतस्थुः पर्वतोद्देशे गुप्तभावेन देवपाः ॥१९॥ तत्राऽऽजगाम योगींद्रो रैभ्यः सर्वप्रियंकरः । अवधूतः स्वरूपेण साक्षाद्विघ्नेश्वरो यथा ॥२०॥ तं प्रणम्य शिवाद्यास्ते पप्रच्छुर्लोभनाशकम् । उपायं दीनभावेन सास्थिचर्मावशेषिताः ॥२१॥ ततोऽतिकरुणायुक्तो रैभ्यः सर्वार्थकोविदः । जगाद तान् सुरेंद्रान् स दीनान् दृष्ट्वा विशेषतः ॥२२॥ रैभ्य उवाच । शृणुध्वं विष्णुशंभावाद्या मुनयस्तत्त्वभाविताः । लोभासुरो महापापी दुर्जयो नात्र संशयः ॥२३॥ विघ्नराजं तदपि वै भजध्वं भक्तिसंयुताः । तेनाऽयं सुजयो देवा भविष्यति विशेषतः ॥२४॥ स्वयं साक्षाद् बुद्धि- पतिर्बुद्धिं संचालयिष्यति । गजाननस्य मंत्रं वै जपध्वं विधिपूर्वकम् ॥२५॥ एवमुक्त्वा महायोगी रैभ्यः स्वच्छंदगोऽभवत् । शिवाद्यो महाभागा हर्षिताः संबभूविरे ॥२६॥ गजाननस्य मंत्रं ते जेपुस्तपःपरायणाः । सविधिं ध्यानसंयुक्तास्तोषया- मासुरन्वहम् ॥२७॥ निराहारप्रभावेण संतुष्टो भक्तिभावितः । शतवर्षेषु देवेशानाययौ स गजाननः ॥२८॥ दृष्ट्वा गजाननं ते तु हर्षिता देवनायकाः । देवा मुनिगणाः सर्वे पुपूजुः स्नेहसंयुताः ॥२९॥ कृत्वा करपुटं भक्त्या तुष्टुवुस्तं गजाननम् । पुनरुत्थाय ते सर्वे प्रणेमुस्तं गजाननम् ॥३०॥ देवर्षय ऊचुः । गजानन नमस्तुभ्यं सर्वेषां बीजरूपिणे । निर्बीजाय गणेशाय विघ्नानां पतये नमः ॥३१॥ अनंतायैकदंताय हेरंबाय नमो नमः । चतुर्भुजाय सर्वेश सर्वपूज्याय ते नमः ॥३२॥ सर्वसिद्धि- प्रदात्रे च सुरासुरमयाय ते । सिद्धिबुद्धिप्रचालाय सिद्धिबुद्धिपते नमः ॥३३॥ अगुणाय गुणेशाय गुणरूपाय गौणिने । मायामयाय मायायाश्चालकाय परात्मने ॥३४॥ सर्वाद्ये महोदार पराक्रमपराय ते । स्वानंदवासिने तेऽस्तु नमः स्वानंद- दायिने ॥३५॥ योगाकाराय योगानां स्वामिने शांतिदायिने । ब्रह्मणस्पतये तेऽस्तु ब्रह्मणां ब्रह्मणे नमः ॥३६॥ अनाधाराय सर्वेषामाधाराय नमो नमः । आदिमध्यांतहीनायादिमध्यांताय ते नमः ॥३७॥ परश्वंकुशहस्ताय त्रिनेत्राय महोदर । नमो मूषकवाहाय मूषकध्वजिने नमः ॥३८॥ नमो नमस्ते सकलाय धाम्ने सदा सुखानंदकराय पात्रे । जगत् सुस्रष्ट्रे सकलस्य हंत्रे गुणैर्विहीनाय गणाधिपाय ॥३९॥ विदेहरूपाय पराय भोक्त्रे बोधेन हीनाय सुसांख्यकाय । सदा स्वबुद्धौ परसंस्थिताय गजात्मरूपाय नमो नमस्ते ॥४०॥ बोधहीनं च यद्ब्रह्म तदेव गजवाचकम् । गजचिह्नेन योगींद्राः पश्यंति