मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 502, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ४१ पान १०४
त्वां गजाननम् ॥४१॥ यथा मुखस्य चिह्नेन ज्ञायंते मानवादयः । तथा विदेहचिह्नेन ज्ञायसे त्वं तु योगिभिः ॥४२॥ विदेहं गजरूपं यत्तेन ते मुखमुच्यते । गणेशस्य प्राप्तिकरं गजानन नमोऽस्तु ते ॥४३॥ किं स्तवाम गणाधीश यन्न वेदादिकास्तथा । योगिनः शांतिमापन्नास्तं वयं शरणं गताः ॥४४॥ स्तुत्वा विघ्नेश्वरं ते तु प्रणेमुस्तं पुनः पुनः । तानुवाच गणाधीशो हर्षयन् सर्वभाववित् ॥४५॥ गजानन उवाच । स्तोत्रं भवत्कृतं देवा ईश्वरा मुनयश्च मे । सर्वसिद्धिप्रदं पूर्णं भविष्यति निरंतरम् ॥४६॥ यद्यदिच्छति तत्तद्वै दास्यामि भक्तियंत्रितः । पठनाच्छ्रवणादस्य संतुष्टोऽहं विशेषतः ॥४७॥ वरदोऽहं वृणुत वो दास्यामि वरमीप्सितम् । तपसा भक्तिभावेन स्तोत्रेण तुष्टिमागतः ॥४८॥ गजाननवचः श्रुत्वा हर्षिता देवतर्षयः । प्रत्यूचिरे प्रणम्येदं वचनं सर्वसौख्यदम् ॥४९॥ देवर्षय ऊचुः । लोभासुरेण भो स्वामिन् त्रासितं भुवनत्रयम् । वयं कर्मविहीनत्वादुपोषणयुताः कृताः ॥५०॥ अतस्त्वं जहि दैत्येशं सर्वाजेयं गजानन । तव भक्तिं दृढां देहि लोभहीनां विशेषतः ॥५१॥ तेषां वचनमाकर्ण्य गजानन उवाच तान् । मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥५२॥ लोभहीना मदीया या भक्तिर्वश्च भविष्यति । अधुना दानवेंद्रं तं जेष्यामि च न संशयः ॥५३॥ मुनीन् देवानेवमुक्त्वाऽभवत्तत्रैव संस्थितः । सर्वेषां कार्यसिद्ध्यर्थं गजाननः प्रतापवान् ॥५४॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते गजाननप्रादुर्भावो नाम चत्वारिंशोऽध्यायः ॥ ❖❖❖❖ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दूतं गजाननस्तत्र प्रेषयामास शंकरम् । स गत्वा दैत्यपं दक्ष जगाद शृणु तद्वचः ॥१॥ शिव उवाच । शृणु लोभासुर त्वं मे वचनं हितकारकम् । करिष्यसि यदा सान्ना भविष्यसि तदा सुखी ॥२॥ गजाननः स्वयं साक्षाद्ब्रह्मणो नायकः स्मृतः । स आगतः सुरैः सर्वैर्देवेंद्रैर्मुनिभिर्वृतः ॥३॥ नगरप्रांतभागे ते दशयोजनदूरतः । संस्थितेन च दैत्येश प्रेषितोऽहं विशेषतः ॥४॥ मदीयवरदानेन निर्भयोऽसि हि मानद । अतस्त्वदीयरक्षार्थं प्रेषयामास मां प्रभुः ॥५॥ ब्रह्मांडं वशमानीय त्वं सर्वेशोऽसि सांप्रतम् । देवान् पशुसमानांश्च कृत्वा दैत्यैर्निरंतरम् ॥६॥ अधुना वैरमुत्सृज्य स्नेहं कुरु महामते । देवाः स्वपदगाः संतु ब्राह्मणाः कर्मकारिणः ॥७॥ गजाननस्य वर्तस्व मित्रभावेन दानव । भुंक्ष्व