मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 503, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ४१ पान १०५
भोगान् महाभाग नोचेत्त्वां स हनिष्यति ॥८॥ शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः । जगाद तं तिरस्कृत्य महादेवं मदान्वितः ॥९॥ लोभासुर उवाच । कोऽसौ गजाननः शंभो त्वं भेदकर एव च । मोहयस्यधुना मां किं देवानां पक्षगः पुरः ॥१०॥ अधुना त्वां महादेव हन्मि क्रोधसमन्वितः । किं करोमि च दूतस्त्वं गच्छ देवं गजाननम् ॥११॥ वद वाक्यं मदीयं त्वं हनिष्यामि सदेवकम् । गजाननं न संदेहः पश्य मे पौरुषं महत् ॥१२॥ एवं निर्भर्त्सितः शंभुः क्रोधारुणविलोचनः । जगाद तं महादैत्यं विशेषज्ञः सुदुर्मतिम् ॥१३॥ शिव उवाच । मृत्युयोगेन पापिष्ठ त्वं युतोऽसि न संशयः । गजाननं तेन लोभ निंदसि ब्रह्मनायकम् ॥१४॥ शिवः पुनः सुदुर्बुद्धिमेवमुक्त्वा ययौ प्रभुम् । गजाननं प्रणम्यादौ वृत्तांतं संजगौ पुनः ॥१५॥ तदाकर्ण्य वचः क्रूरं गजाननः प्रतापवान् । क्रोधसंरक्तचक्षुः सन् परशुं त्वक्षिपत्ततः ॥१६॥ अनंतादित्यसंकाशः परशुः कालभीतिदः । आययौ दैत्यपुर्यां वै ज्वालामालाभिरावृतः ॥१७॥ तेजोमयं महास्त्रं तद् दृष्ट्वा दैत्यगणाः परम् । भयभीता ययुस्तं ते हाहाकाररवाकुलाः ॥१८॥ दानवेंद्रैः सभासंस्थं लोभं दृष्ट्वा सुखं वचः । जगुर्दारुणरूपं यत् सर्वेभ्यो भयदायकम् ॥१९॥ नागरा ऊचुः । किं स्थितोऽसि महादैत्य लोभ ज्वालासमाकुलम् । अस्त्रं समागतं क्रूरं दाहयामास दानवान् ॥२०॥ तेषां तद्वचनं श्रुत्वा भयहर्षसमन्वितः । जगाद दानवाधीशान् महाकोपयुतोऽसुरः ॥२१॥ लोभासुर उवाच । गजाननोऽमरैः सार्धं समायातो न संशयः । समर्थो दृश्यते नूनं यस्यास्त्रबलमीदृशम् ॥२२॥ तस्य तद्वचनं श्रुत्वा दानवेंद्रा महाबलाः । ऊचुः प्रांजलयः सर्वे मा भयं कुरु सत्तम ॥२३॥ गजाननं हनिष्यामः पश्यति त्वयि मानद । एवमुक्त्वा ययुः सर्वे दंशिता योद्धुमाहताः ॥२४॥ ततस्तैर्यमसङ्काशैर्दृष्टं तेजोमयं महत् । अस्त्रं ब्रह्मपते क्रूरं प्रलयस्य प्रकाशकम् ॥२५॥ ददाह दानवांस्तत्र सर्वतस्तीक्ष्णतेजसा । हाहाकाररवाः सर्वे पप्लुर्भयविह्वलाः ॥२६॥ दानवेंद्रैस्ततो दक्ष मेघास्त्रं मोचितं महत् । जलौघैः सर्वतो मेघा ववृषुद्दारुणं परम् ॥२७॥ जलं सर्वं महास्त्रं तच्छोषयामास तत्क्षणात् । मेघस्थं ते ततो मेघा निस्तेजस्का बभूविरे ॥२८॥ दैत्येंद्रान् दैत्यमुख्यांश्च ज्वालया परशुस्तदा । ददाह च ततो भीता पप्लुर्यत्र तत्र ते ॥२९॥ तद् दृष्ट्वा परमाश्चर्यं स लोभासुर आययौ । रथारूढो महातेजास्तन्निवृत्त्यर्थमाहतः ॥३०॥ पश्यतो दैत्यराजस्य ज्वालाऽकस्मात् समागता । रथं साश्वं ददाहाऽपि ततः शस्त्राणि सर्वतः ॥३१॥ ततः पपाल दैत्येंद्रः कविं लोभासुरो ययौ । तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥३२॥ लोभासुर उवाच । स्वामिन् गजाननो देव आगतः स महाबलः ।