भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 504, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 504

खं. ४ अ. ४१ पान १०६

दाहयामास शस्त्रेणाऽनिवार्येण रथं स मे ॥३३॥ तन्निवृत्त्यर्थमेवाहं न पश्यामीह किंचन । अतस्ते शरणं नाथ प्राप्तोऽहं रक्ष मां मुने ॥३४॥ मनोवाणीमयं सर्वं तस्मान् मृत्युनं मे भवेत् । नामरूपधरः सोऽपि कथं मां धक्ष्यति प्रभो ॥३५॥ यदि मे मरणं प्राप्तमेवं तर्ह्यस्तु सांप्रतम् । देवानां शरणं नाथ न गमिष्यामि कर्हिचित् ॥३६॥ अतो वद महाभाग उपायं हितदायकम् । त्वदाधारं च योगींद्र जीवनं मे प्रवर्तते ॥३७॥ इति तस्य वचः श्रुत्वा शुक्रः सर्वज्ञमुख्यकः । लोभासुरं भयोद्विग्नं तं जगाद प्रहर्षयन् ॥३८॥ शुक्र उवाच । मा कुरुष्व भयं वत्स शृणु मे वचनं हितम् । तत् समाचर दैत्येंद्र ततः क्षेमं भविष्यति ॥३९॥ गजाननः प्रसन्नात्मा यदिच्छति महासुर । तदेव सत्यरूपं वै भविष्यति न संशयः ॥४०॥ ब्रह्मणां नायकः प्रोक्तो गच्छ तं विनयान्वितः । नाऽयं देवाधिपो दैत्य सुरासुरमयः प्रभुः ॥४१॥ एवं तस्य वचः श्रुत्वा लोभस्तं पुनरब्रवीत् । निःश्वस्य देवपैः सार्धं कथं योद्धुं समाययौ ॥४२॥ मध्यस्थश्चेन् महाभागं तं गच्छामि शरण्यकम् । न लज्जा तेन मे स्वामिन् संशयं छिंधि हृत्स्थितम् ॥४३॥ शुक्र उवाच । देहरूपं महद्ब्रह्म देहात्मा वेदभाषितम् । तयोर्योगे महादैत्य बोधोऽसि पदवाचकः ॥४४॥ बोधनाशे विदेहाख्यं ब्रह्म सौख्यं प्रकीर्तितम् । सुसिद्धिदं तदेव त्वं विजानीहि गजाननम् ॥४५॥ सर्वेषां बीजरूपं यत्तस्य बीजं न विद्यते । तदेव गजशब्दाख्यं ब्रह्म वेदे प्रकीर्तितम् ॥४६॥ गजचिह्नेन गच्छंति योगिनो हि गजाननम् । तेन नाम्ना समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥४७॥ यथा मुखस्य चिह्नेन ज्ञायते मानवादिभिः । गजचिह्नेन तद्ब्रह्म ज्ञायते योगिभिः सदा ॥४८॥ तेनैव स्थापितं विश्वं बोधरूपं महामते । स्वस्वधर्मयुतं पूर्णं तत्राऽयं संस्थितोऽभवत् ॥४९॥ पाताले दानवानां च राज्यं स्वर्गे दिवौकसाम् । पृथिव्यां मानवानां वै त्रिविधं रचितं पुरा ॥५०॥ यदा देवा महाभाग लोभयुक्ता मदान्विताः । पातालस्थान् दैत्यगणाञ्जघ्नुर्मूलविनाशकाः ॥५१॥ तदाऽयं देहधारी च दैत्येभ्यो वरदोऽभवत् । देवानां विघ्नसंदाता गणेशः सर्वभाववित् ॥५२॥ ततो दैत्यगणाः सर्वे बलयुक्ता सुरेंन्द्रकान् । जघ्नुर्वीरश्रिया राजन् विघ्नहीनप्रभावतः ॥५३॥ यदा दैत्या महालोभ लोभयुक्ता विशेषतः । देवानां जीवनाशार्थमभवन् कर्मखंडनात् ॥५४॥ तदा विघ्नेश्वरः साक्षाद्देहं धृत्वा च दानवान् । हत्वा स्वस्थानगान् देवानकरोद्धर्म- पालकः ॥५५॥ सुराऽसुरादयः सर्वे स्वस्वधर्मरता यदा । तदाऽयं ब्रह्मरूपः संश्चित्ते चिंतामणिर्बभौ ॥५६॥ चित्तरूपा स्वयं बुद्धिर्भ्रांतिरूपा महामते । सिद्धिस्ताभ्यां गणाधीशः खेलति ब्रह्मनायकः ॥५७॥ स्वसंवेद्यात् मनस्तस्य दर्शनं जायते यतः ।