मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 505, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ४२ पान १०७ तेनाऽयं गणपः स्वानंदवासी कथ्यते बुधैः ॥५८॥ अतस्तस्यैव दैत्येंद्र शरणं सुखदं भवेत् । अन्यथा सकलं हत्वा मरिष्यसि न संशयः ॥५९॥ गजाननस्य दैत्येश शस्त्रं ब्रह्ममयं ह्यतः । तस्मै कुरु नमो भक्त्या शांतरूपं भविष्यति ॥६०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शुक्नोपदेशवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शुक्रस्य वचनं श्रुत्वा लोभासुरः प्रणम्य तम् । तथेति प्रतिपाद्यैव सकविः शरणं ययौ ॥१॥ नगरप्रांतभागे तच्छस्त्रं गजाननस्य च । समीपसंस्थान् जज्वल दानवादीन् समास्थितम् ॥२॥ तं प्रणम्य महादैत्यो लोभः परशुमुत्तमम् । कृतांजलिः प्रतुष्टाव भयभीतः समंततः ॥३॥ लोभासुर उवाच । नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे । नानाशस्त्राणि शस्त्रेश त्वदाधाराणि ते नमः ॥४॥ प्रलयानलसंकाशं स्वरूपं धरते नमः । अनंतवीर्ययुक्ताय भास्करामिततेजसे ॥५॥ दृश्यादृश्यमयायैव सर्वदर्पहराय ते । धर्मसंस्थापनार्थाय नानारूपधराय च ॥६॥ साक्षाद्गजाननस्यैव यद्वीर्यं नियतात्मकम् । तदेव त्वं महाशस्त्रं किं ते स्तौमि नमो नमः ॥७॥ शरणागतपालाय सदा स्वानंदसंस्थित । रक्ष मां भयभीतं भोः परशो ते नमो नमः ॥८॥ एवं लोभासुरं संस्तुवंतं तं तु महाबलम् । काव्येन शस्त्रराजं तच्छांतिरूपधरं बभौ ॥९॥ गत्वा गजाननस्यैव हस्तगं तद्बभूव ह । लोभासुरः स शुक्रेणाऽऽययौ विघ्नेश्वरं ततः ॥१०॥ समागतं महादैत्यं दृष्ट्वा देवर्षयोऽभवन् । विस्मिता हर्षिताः सर्वे परस्परमुखेक्षणाः ॥११॥ गजाननं प्रणम्यैव लोभासुरः प्रतापवान् । काव्येन पूजयामास भक्तियुक्तो विशेषतः ॥१२॥ प्रणम्य तं पुनर्देत्यः कृत्वा करपुटं प्रभुम् । गजाननं भावसंयुक्तस्तुष्टाव प्रहर्षितः ॥१३॥ लोभासुर उवाच । नमस्ते गजवक्त्राय नानासिद्धिप्रदायिने । बुद्धिचालकवेषाय ब्रह्मणे वै नमो नमः ॥१४॥ हेरंबाय सदा स्वानंदवासिने महात्मने । परात्परतरायैव विघ्नेशाय नमो नमः ॥१५॥ सुरासुरप्रियकर सुरासुरमयाय ते । लोभयुक्तान् विधर्मस्थान्नाशनाय नमो नमः ॥१६॥ देवानां पालकायैव दैत्यानां रक्षकाय ते । सर्वेषां दर्पहंत्रे वै गणेशाय नमो नमः ॥१७॥ लंबोदराय देवेश दैत्येश मूषकध्वज । अनादये च सर्वेषामादिरूपाय ते नमः ॥१८॥ आदिमध्यांत- हीनायादिमध्यांतस्वरूपिणे । ब्रह्मेशाय महेशानां पालकाय नमो नमः ॥१९॥ ब्रह्मभ्यो ब्रह्मदात्रे च सदा शांतिधराय