मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 514, कुल 1023 में से
संदर्भ में पढ़ेंसोऽपि चाददे ॥५॥ आगत्यैव न्यहञ्छंभुं हृदये यमसंनिभः । शूलं पपात तद्धस्ताच्छिवश्च व्याकुलोऽभवत् ॥६॥ ततस्तं गदया विष्णुर्योधयामास दारुणम् । ततस्त्रिशूलघातेन शिरश्चिच्छेद शंकरः ॥७॥ ममार पुरुषस्तत्र श्रुत्वा सा पार्वती पुनः । कोपयुक्ता च कोटीः सा शक्तीस्ता नव निर्ममे ॥८॥ तयाऽऽज्ञप्ता महादेव्यः संहर्तुं सकलं जगत् । प्राप्ता आलोक्य देवास्ते भयभीता बभूविरे ॥९॥ शंकरेण द्विजास्तत्र प्रेषिता नारदायः । अंतरिक्षचराः सर्वे प्रणेमुः पार्वतीं ततः ॥१०॥ रक्ष रक्ष जगत्सर्वं जगदंब त्वदुद्भवम् । तुष्टुवुस्तामथोवाच मुनीन् क्रोधयुता सती ॥११॥ पार्वत्युवाच । मम पुत्रः किमर्थं तैर्हतः सर्वैः सुरेश्वरैः । सजीवं संहरिष्यामि कुरुध्वं चेन्न संशयः ॥१२॥ तथेति प्रतिपाद्यैव गतास्ते शंकरं पुनः । शक्तय- स्तंमिताः सर्वाः शिवः सर्वैः समाययौ ॥१३॥ युद्धे मृतस्य बालस्य मस्तकं त्वप्सरोगणाः । जगृहुस्तत्र तं दृष्ट्वा शिरोहीनं सुदुःखितः ॥१४॥ शिवस्ततो गणान् प्राह यः पूर्वं दृश्यते त्वया । तमानयत हत्वा वै तस्य मस्तकमत्र यत् ॥१५॥ ततो गजासुरः प्राप्तः सहसा नारदेरितः । हंतुं देवगणान् सर्वान् महाबलपराक्रमः ॥१६॥ ततश्च क्षोभिताः सर्वे पलायंत दिशो दश । शूलघातेन शंभुस्तं मारयामास तत्क्षणात् ॥१७॥ तस्य मस्तकयोगेन पुरुषं ते दिवौकसः । योजयित्वा प्रजानाथ सजीवं चक्रिरे नरम् ॥१८॥ सर्वे हतोद्यमा जातास्ततो ब्रह्मा समागतः । जीवयामास तं तत्र सजीवो न बभूव ह ॥१९॥ ततो विष्णुः स्वयं तत्र जीवयामास विद्यया । सजीवो न बभूवाऽपि दुःखितोऽतिततोऽभवत् ॥२०॥ ततः शिवः स्वयं तत्र जीवयुक्तं चकार तम् । सजीवं न ददर्शैव दुःखितोऽतितरां तदा ॥२१॥ ततो विघ्नेश्वरं सर्वे तुष्टुवुः कार्यसिद्धये । अथर्वशिरसा दक्ष शंकराद्याः सुरेश्वराः ॥२२॥ प्रार्थयामासुरत्यंतं निर्विघ्नं कुरु विघ्नप । अधुना विश्वमेवेदमकाले लयमेष्यति ॥२३॥ गणेशस्मरणेन स्म बुद्धिः प्राप्ता दिवौकसाम् । वेदमंत्रेण देवास्ते तारमावाहयंति च ॥२४॥ ओंकारस्तत्र मंत्रेणाऽऽकर्षितः सहसाऽऽगतः । शवं प्रविश्य संतस्थौ ततः सोऽभवदुत्थितः ॥२५॥ ततो ज्ञानयुता देवा जाता विघ्नविहीनकाः । तं दृष्ट्वा गजवक्त्रं वै प्रणवं प्रणवाकृतिम् ॥२६॥ तुष्टुवुर्देवदेवेशं नानास्तोत्रैः प्रजापते । पूपुजुस्तं च सर्वादौ पूज्यं चक्रुः स्वमूलकम् ॥२७॥ दक्ष उवाच । साक्षादोंकाररूपश्च गणेशोऽयं न संशयः । स कथं मलजः शक्तेर्दैत्यमस्तकधारकः ॥२८॥ एनं मे संशयं ब्रह्मञ्छेत्तुमर्हसि सांप्रतम् । श्रुत्वा कथां महारम्यां ज्ञानयुक्तो भवाम्यहम् ॥२९॥ मुद्गल उवाच । सती दक्षगृहे तात दग्धा सा शैलजाऽभवत् । हिमाचले स्वयं शंभुस्तताप तप उत्तमम् ॥३०॥ तत्र सा पार्वती देवी शुश्रूषायां प्रजापते ।