मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
सोऽपि चाददे ॥५॥ आगत्यैव न्यहञ्छंभुं हृदये यमसंनिभः । शूलं पपात तद्धस्ताच्छिवश्च व्याकुलोऽभवत् ॥६॥ ततस्तं गदया विष्णुर्योधयामास दारुणम् । ततस्त्रिशूलघातेन शिरश्चिच्छेद शंकरः ॥७॥ ममार पुरुषस्तत्र श्रुत्वा सा पार्वती पुनः । कोपयुक्ता च कोटीः सा शक्तीस्ता नव निर्ममे ॥८॥ तयाऽऽज्ञप्ता महादेव्यः संहर्तुं सकलं जगत् । प्राप्ता आलोक्य देवास्ते भयभीता बभूविरे ॥९॥ शंकरेण द्विजास्तत्र प्रेषिता नारदायः । अंतरिक्षचराः सर्वे प्रणेमुः पार्वतीं ततः ॥१०॥ रक्ष रक्ष जगत्सर्वं जगदंब त्वदुद्भवम् । तुष्टुवुस्तामथोवाच मुनीन् क्रोधयुता सती ॥११॥ पार्वत्युवाच । मम पुत्रः किमर्थं तैर्हतः सर्वैः सुरेश्वरैः । सजीवं संहरिष्यामि कुरुध्वं चेन्न संशयः ॥१२॥ तथेति प्रतिपाद्यैव गतास्ते शंकरं पुनः । शक्तय- स्तंमिताः सर्वाः शिवः सर्वैः समाययौ ॥१३॥ युद्धे मृतस्य बालस्य मस्तकं त्वप्सरोगणाः । जगृहुस्तत्र तं दृष्ट्वा शिरोहीनं सुदुःखितः ॥१४॥ शिवस्ततो गणान् प्राह यः पूर्वं दृश्यते त्वया । तमानयत हत्वा वै तस्य मस्तकमत्र यत् ॥१५॥ ततो गजासुरः प्राप्तः सहसा नारदेरितः । हंतुं देवगणान् सर्वान् महाबलपराक्रमः ॥१६॥ ततश्च क्षोभिताः सर्वे पलायंत दिशो दश । शूलघातेन शंभुस्तं मारयामास तत्क्षणात् ॥१७॥ तस्य मस्तकयोगेन पुरुषं ते दिवौकसः । योजयित्वा प्रजानाथ सजीवं चक्रिरे नरम् ॥१८॥ सर्वे हतोद्यमा जातास्ततो ब्रह्मा समागतः । जीवयामास तं तत्र सजीवो न बभूव ह ॥१९॥ ततो विष्णुः स्वयं तत्र जीवयामास विद्यया । सजीवो न बभूवाऽपि दुःखितोऽतिततोऽभवत् ॥२०॥ ततः शिवः स्वयं तत्र जीवयुक्तं चकार तम् । सजीवं न ददर्शैव दुःखितोऽतितरां तदा ॥२१॥ ततो विघ्नेश्वरं सर्वे तुष्टुवुः कार्यसिद्धये । अथर्वशिरसा दक्ष शंकराद्याः सुरेश्वराः ॥२२॥ प्रार्थयामासुरत्यंतं निर्विघ्नं कुरु विघ्नप । अधुना विश्वमेवेदमकाले लयमेष्यति ॥२३॥ गणेशस्मरणेन स्म बुद्धिः प्राप्ता दिवौकसाम् । वेदमंत्रेण देवास्ते तारमावाहयंति च ॥२४॥ ओंकारस्तत्र मंत्रेणाऽऽकर्षितः सहसाऽऽगतः । शवं प्रविश्य संतस्थौ ततः सोऽभवदुत्थितः ॥२५॥ ततो ज्ञानयुता देवा जाता विघ्नविहीनकाः । तं दृष्ट्वा गजवक्त्रं वै प्रणवं प्रणवाकृतिम् ॥२६॥ तुष्टुवुर्देवदेवेशं नानास्तोत्रैः प्रजापते । पूपुजुस्तं च सर्वादौ पूज्यं चक्रुः स्वमूलकम् ॥२७॥ दक्ष उवाच । साक्षादोंकाररूपश्च गणेशोऽयं न संशयः । स कथं मलजः शक्तेर्दैत्यमस्तकधारकः ॥२८॥ एनं मे संशयं ब्रह्मञ्छेत्तुमर्हसि सांप्रतम् । श्रुत्वा कथां महारम्यां ज्ञानयुक्तो भवाम्यहम् ॥२९॥ मुद्गल उवाच । सती दक्षगृहे तात दग्धा सा शैलजाऽभवत् । हिमाचले स्वयं शंभुस्तताप तप उत्तमम् ॥३०॥ तत्र सा पार्वती देवी शुश्रूषायां प्रजापते ।
खं. ४ अ. ४७ पान ११७ निरता तां निरीक्ष्यैव शंभुः सस्मार पूर्वगाम् ॥३१॥ ममाज्ञावशगा देवी नेयं दक्षगृहे गता । अतोऽहं न वृणोम्येतां पुनः शैलसुतां कदा ॥३२॥ तारकासुरभीतैर्देवैः कामः प्रार्थितस्ततः । स ययौ शंकरस्थानं मोहितुं मदसंयुक्तः ॥३३॥ तं प्रज्वाल्य महेशानस्त्यक्त्वा हिमगिरिं ययौ । अन्यत्र सा ततो देवी खेदयुक्ता बभूव ह ॥३४॥ मनसि ज्ञानमार्गेण ज्ञात्वा शंभुविचेष्टितम् । तपसा संयुता भूत्वा वनगा शिवमर्चयत् ॥३५॥ गते वर्षशते शंभुः प्रसन्नो न बभूव ह । ततः सा विघ्नराजं च सस्मार ध्यानसंयुता ॥३६॥ वर्षेणैकेन हेरंबः प्रसन्नश्च बभूव ह । शिवबुद्धिप्रभेदं स चकार बुद्धिधारकः ॥३७॥ ततो दयायुतः शंभुस्तां ययौ द्विजरूपधृक् । शंकरं निंदयामास नानावाक्यैः समीपगः ॥३८॥ तच्छ्रुत्वा कंपिता देवी बोधयामास शांभवैः । चेष्टितैस्तं ततः सोऽपि पुननिंदां चकार ह ॥३९॥ स्थानं त्यक्त्वा ततो देवी तं जगाम द्विजं पुनः । तिरस्कृत्य शिवस्तां स्वं दर्शयामास रूपकम् ॥४०॥ ततः सा तं प्रणम्यैव तुष्टाव विविधैः स्तवेः । गणेशं मनसा ध्यात्वा प्रार्थ्य तं सिद्धिदो भव ॥४१॥ ततः प्रसन्नभावेन शंकरः प्रददौ वरम् । विस्मितस्तां निरीक्ष्यैव तपसा कर्शितां प्रभुः ॥४२॥ शिव उवाच । वृणोमि त्वां महादेवि वश्योऽहं ते सदाऽनघे । तपसा भक्तिभावेन न वियोगो भविष्यति ॥४३॥ धूलिधूसरितं तेंडगं शिरोभूच्च जटान्वितम् । अतो मलस्तवांगस्य सर्वपूज्यो भविष्यति ॥४४॥ इत्युक्त्वा शंकरस्तत्रांतर्धानं प्रचकार सः । पार्वती प्रेमसंयुक्ता स्वगृहं वै जगाम ह ॥४५॥ स्वभक्तस्य शिवस्यैव रक्षणार्थं वचो महत् । गौरीमलांगसंभूतो बभूव ह गजाननः ॥४६॥ गणेशात्न परः कोऽपि सर्वपूज्यो महामते । गणेशवरदानेन सत्यवाक्याः शिवादयः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शक्तिमलमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यच्छृणु चरित्रं तु गजमस्तकधारणे । महेश इति विख्यातो राजा धर्मयुतोऽभवत् ॥१॥ तस्य गेहे गुरुः साक्षाज्जगाम कीर्तिमोहितः । राज्ञा संमानितः सोऽपि नृपाय च ददौ वरम् ॥२॥ बृहस्पतिरुवाच । प्रणतस्ते महीपाल मूर्धा मे प्रभविष्यति । सर्वपूज्यो विशेषेण गतोऽभूत् स्वगृहे गुरुः ॥३॥ ततः कदाचिद्राजर्षिर्नारदं मार्गसंस्थितम् । अवमत्य ययौ सोऽपि तं शशाप नृपाधमम् ॥४॥ नारद उवाच । मदेन राजशार्दूल मामनादृत्य गच्छसि ।
खं ४ अ. ४७ पान ११८ अतोऽसुरस्य योनौ त्वं पतिष्यसि न संशयः ॥५॥ काले सोऽपि ममराऽथ गजयोनौ बभूव ह । गजासुर इति ख्यातो नरकुंजरवेषभृत् ॥६॥ गजासुरेण शंभोस्तपः कृतं च विशेषतः । मंत्रं जजाप शैवेनातोषयन्नियमे रतः ॥७॥ सहस्रेषु गतेष्वेव वर्षेषु वरदः शिवः । जगाद वृणु दैत्येश यत्ते मनसि वर्तते ॥८॥ स वव्रे राज्यमुग्रं मे देहि लोकत्रयस्य च । बलं सर्वातिगं शंभो आरोग्यं सर्वपूज्यताम् ॥९॥ अंते मोक्षं च मे देहि तथेति शंकरोऽब्रवीत् । मस्तकः सर्वपूज्यस्ते भविष्यति गजासुर ॥१०॥ अतो गजासुरस्यैव मस्तकं गणपेन तत् । धृतं वचो रक्षणार्थं शंकरस्य बृहस्पतेः ॥११॥ अन्यच्छृणु प्रजानाथ इतिहासं पुरातनम् । कदाचिच्छंकरेणैव पूजितो गणनायकः ॥१२॥ ददौ शिवाय निर्माल्यं मूर्तिसंस्थश्च विघ्नपः । स्वप्ने तस्य स माहात्म्यं कथयामास विस्तरात् ॥१३॥ श्रीगणेश उवाच । एकनिष्ठतया शंभो भक्त्याऽहं पूजितस्त्वया । प्रसन्नोऽहं स्वमूर्तिस्थः शृणु मे वचनं हितम् ॥१४॥ निर्माल्यं मे गृहाण त्वं सर्वसिद्धिप्रदं शिव । येनेदं मस्तके पुष्पं धृतं मान्येन भक्तितः ॥१५॥ सर्वपूज्यः स वै भावी सर्वातिगयशोधरः । ततः सोऽन्तर्दधे ढुंढिः शिवो जागरितोऽभवत् ॥१६॥ हस्ते पुष्पं समालोक्य विस्मितः शंकरोऽभवत् । विचारं स चकारैव किमिदं देवभाषितम् ॥१७॥ सर्वपूज्यो गणाधीशो नान्यो ब्रह्मांडमंडले । अतो मे भक्तिमाहात्म्यं परीक्षार्थं ददौ प्रभुः ॥१८॥ ततः शिवेन निर्माल्यं न धृतं मस्तके स्वके । पूजायां स्थापितं दक्ष महाभक्तेन सर्वदम् ॥१९॥ ततोऽत्रिसंभवस्तत्र दुर्वासाः सहसाऽऽययौ । दर्शनार्थं महेशस्य शिवेन भृशमानितः ॥२०॥ शिवो विचारमकरोदयं योगी सयोगवित् । वर्णाश्रमविहीनश्च मतः साक्षाद्विनायकः ॥२१॥ अतो निर्माल्ययोग्योयं ददौ तस्मै सदाशिवः । निर्माल्यं विघ्नराजस्य कथयित्वा यशो महत् ॥२२॥ तं प्रणम्य महायोगी दुर्वासाः प्रययौ प्रभुम् । यथेच्छं विचरन् मार्गे ददर्श देवनायकम् ॥२३॥ विचारं मनसा योगी चकार स्वहितावह्म् । सर्वपूज्यो गणेशाद्वै नान्यो भवति निश्चितम् ॥२४॥ वयं भक्ता गणेशस्य भजामोऽनन्यचेतसः । अतो निर्माल्य- योग्योऽहं नैव शंकरवत् कदा ॥२५॥ अयं देवपतिः साक्षादिंद्रः सत्त्वगुणान्वितः । योग्योऽयं नैव संदेहस्तं ययौ मुनिसत्तमः ॥२६॥ तं दृष्ट्वा मघवा नत्वा स्थित ऐरावते प्रभुः । आज्ञां कुरु महाभाग मुने दासोऽस्मि ते जगौ ॥२७॥ ततः सोऽपि प्रसन्नात्मा ददौ तस्मै महामुनिः । निर्माल्यं गणनांथस्य माहात्म्यं प्रोच्य सादरः ॥२८॥ इन्द्रो राज्यश्रिया युक्तो गृहीत्वा गजमस्तके । निर्माल्यमिंद्रः संस्थाप्य ययौ मार्गमवस्थितः ॥२९॥ निर्माल्यस्यापमानेन भ्रष्टोऽभूद्देवनायकः । गता सत्त्वमयी
यहाँ दिए गए पृष्ठ का सटीक देवनागरी लिप्यंतरण प्रस्तुत है:
खं. ४ अ. ४७ पान ११९ लक्ष्मीर्गजस्तेजोयुतोऽभवत् ॥३०॥ तिरस्कृत्य महेंद्रं तं गजो हत्वा सुरान् परान् । ययौ वने प्रजानाथ स्वच्छंदश्च बभूव सः ॥३१॥ ततोऽतितापसंयुक्त इन्द्रो हीनः श्रियाऽभवत् । दैत्यराजा बुभुजिरे संगृह्य स्वर्गमागताः ॥३२॥ ततो बहौ गते काले गुरुणा बोधितः सुरः । देवैः सह गणेशानं तोषयामास नित्यदा ॥३३॥ गते वर्षसहस्रे तु गणेशस्तं ययौ तदा । पूजितः संस्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥३४॥ श्रीगणेश उवाच । मा कुरुष्व महेंद्र त्वं मम निर्माल्यदूषणम् । भक्त्यधीनः स्वभावेन प्रसन्नोऽहं कृतस्त्वया ॥३५॥ समुद्रतनया लक्ष्मीर्भविष्यति सुसिद्धिदा । तां प्राप्य पूर्ववद्देवाः श्रिया युक्ता भविष्यथ ॥३६॥ पूजाकृतफलं यच्च निर्माल्ये संस्थितं भवेत् । तस्य वंदनमात्रेण सफलो जायते नरः ॥३७॥ भावेनाऽऽगृह्य निर्माल्यं मस्तके धारितं यदि । पुनस्तच्छुद्धभूमौ वै स्थापयेद्वा जले सुर ॥३८॥ गर्ते यत्र मनुष्यस्य पादस्पर्शो न वै भवेत् । तदा फलयुतः सोऽपि मद्ग्रूपो जायते नरः ॥३९॥ सदा दुःखयुतं त्वाऽहं पुरा कर्तुं समुद्यतः । गुरुणा बोधितं मत्वाऽपराधं ते सहाम्यहम् ॥४०॥ मामेव शरणं देवमागतं संविचिंत्य वै । बहुकालेन देवेश क्रोधहीनोऽहमागतः ॥४१॥ एवमुक्त्वा गणाधीशो गतः स्वानंदके पुरे । इन्द्रो राज्यश्रिया युक्तो बभूवे स प्रजापते ॥४२॥ सदा निर्माल्यभावज्ञो गणेशभजने रतः । निर्विघ्नेन महेंद्रश्चाऽऽस्मरणं राज्यमाकरोत् ॥४३॥ अधुना शृणु वृत्तांतमैरावतगजस्य च । इन्द्रं त्यक्त्वा वने गत्वा चचार स्वेच्छयेरितः ॥४४॥ हस्तिनीभिः सदा मोहयुक्तः परमदुर्जयः । बुभुजे विविधान् भोगान् मदेनैव समन्वितः ॥४५॥ ततः स्वल्पेन कालेन गणेशो जठरे गतः । पार्वत्या वरदानेन तस्य दैत्यः शिरोऽहरत् ॥४६॥ मस्तकेन विहीनश्च बभूव गणनायकः । तादृशोऽवातरत्तत्र विष्णुः शोकपरोऽभवत् ॥४७॥ जनार्दनश्चेष्टितं ज्ञात्वा ध्यानेन ययौ वने । ऐरावतशिरश्छित्वा योजयामास तत्क्षणात् ॥४८॥ तत्रोंकारं समावाह्य मंत्रेण जीवसंयुक्तम् । चकार विघ्नराजं स देवास्ते हर्षिता बभुः ॥४९॥ दैत्येन तच्छिरस्त्यक्तं नर्मदायां प्रजापते । तत्र कुंडं समुत्पन्नं गणेशमहिमान्वितम् ॥५०॥ तत्र या दृषदो रक्ता नर्मदायां समास्थिताः । यत्र तत्र गणेशास्ते बभूवुः सर्वसिद्धिदाः ॥५१॥ दक्ष उवाच । कथं रेवाजले संस्था दृषदो मुनिसत्तम । गणेशास्तन्ममाऽऽचक्ष्व धन्या सा सरितां वरा ॥५२॥ मुद्गल उवाच । ब्रह्मकमंडलूतपन्नाश्चतस्रो नद्य एव च । गंगा च यमुना दक्ष नर्मदा तु सरस्वती ॥५३॥ गंगाया महिमानं तं सर्वत्रातुलमुत्तमम् । ज्ञात्वा सा नर्मदा देवी संतप्ता चेतसाऽभवत् ॥५४॥ ततस्तया तपस्तप्तं शंकरस्य महात्मनः । शतवर्षे गते शंभुः प्रसन्नो वरदोऽभवत् ॥५५॥ तया संपूजितः
खं. ४ अ. ४८ पान १२० शंभुः स्तुतो ज्ञात्वा मनेप्सितम् । तस्या जले शिवाः सर्वे दृषदश्च कृतास्तदा ॥५६॥ ततो गंगासमं तेजो बभूव सरितः प्रभोः । नर्मदायास्तथा सापि न संतोषयुताऽभवत् ॥५७॥ पुनस्तताप तीव्रं सा तपो विघ्नेश्वरे रता । गतेषु वै सहस्त्रेषु वर्षेषु वरदोऽभवत् ॥५८॥ स्तुतः संपूजितः सोऽपि हृदीप्सितवरं ददौ । रक्तवर्णा गणेशाना दृषदो जलगाः कृताः ॥५९॥ ततः साऽतीव माहात्म्ययुता जाता सरिद्वरा । दर्शनेन जनानां वै गंगास्नानफलप्रदा ॥६०॥ यस्यास्तीरे जले संस्था दृषदः शंकरात्मिकाः । रक्ता गणेशरूपास्तत् साम्यगा का भवेन्नदी ॥६१॥ महिमानं वर्णयितुं रेवायाः कः क्षमो भवेत् । गणेशशिवसंयुक्ता यत्र तत्र महानदी ॥६२॥ एतत्ते कथितं सर्वं विस्तराद्गणपस्य वै । चेष्टितं सर्वपापघ्नं सर्वसंशयनाशनम् ॥६३॥ आदौ दक्ष गणेशस्य दैत्यमस्तकधारणम् । ऐरावतस्य तद्वै भक्तमाहात्म्यरक्षणात् ॥६४॥ शिरश्छेदादिकं तस्य चरित्रं तद् बृहस्पतेः । निर्माल्यस्य च रक्षार्थं माहात्म्यं गणपाश्रितम् ॥६५॥ भक्तवचः समाबद्धो गणेशः किं प्रजापते । न करोति महाभाग भक्ताधीनस्ततः स्मृतः ॥६६॥ येन स्वशिरसश्छेदः कृतो भक्तस्य कारणात् । मलजो गजवक्त्रश्च बभूवे भक्तिमोहितः ॥६७॥ एतत्ते कथितं सर्वं चेष्टितं परमाद्भुतम् । प्रकृतं शृणु दक्ष त्वं गजाननचरित्रकम् ॥६८॥ पार्वती प्रेमसंयुक्ता पूजयामास तं सुतम् । देवा हर्षयुताः सर्वे जग्मुः स्वं स्वं निवेशनम् ॥६९॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते गणेशभक्ताधीनत्ववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा नारदो योगी सिंदूरासुरमागमत् । पूजितस्तेन तं विप्रो हर्षयुक्तो जगाद ह ॥१॥ नारद उवाच । कैलासे शंकरस्यैव बभूवे पुत्र उत्तमः । गणेशस्तपसा तुष्टः सिद्धिवुद्धिपतिः स्वयम् ॥२॥ देवैः संप्राथितः सोऽपि त्वां हनिष्यति निश्चितम् । अतो यत्नपरो दैत्य भव गच्छामि मानद ॥३॥ एवमुक्त्वा महायोगी नारदः स्वेच्छया चरन् । गतः सोऽपि भयोद्विग्नो बभूवासुरनायकः ॥४॥ एतस्मिन्नंतरे तत्र प्रधानं सहसाऽऽगतम् । विचार्य तेन दैत्येंद्रो ययौ हंतुं सुरान् पुरा ॥५॥ समागतं विलोक्यैव पलायतेंद्रमुख्यकाः । ब्रह्माणं शरणं सर्वे भयभीता दिवौकसः ॥६॥ सिंदूरः कोपसंयुक्त आययौ तत्र मानद । ब्रह्मा हंसं समारुह्य देवैः पपाल तत्क्षणात् ॥७॥ वैकुंठे स गतो विष्णुं
Here is the line-by-line Sanskrit transcription of the text from the image:
Header: खं. ४ अ. ४८ | पान १२१
Text: दैत्यस्तत्र समागतः । ततो विष्णुः शिवं देवैर्ययौ सत्वर एव च ॥८॥ तत्राऽपि स ययौ दैत्यः शंभुर्देवैर्गणेश्वरम् । तुष्टाव दैत्यनाशार्थं ततः स वरदोऽभवत् ॥९॥ सिंदूरमाययौ तत्र प्रभुः परशुधारकः । गजाननो मूषकारूढको भूत्वा प्रतापवान् ॥१०॥ तं दृष्ट्वा योद्धुमायातं सिंदूरः क्रोधसंयुतः । जगाद स्वमदेनैव युक्तः परमदुर्जयः ॥११॥ सिंदूर उवाच । किमर्थं रणभूमौ त्वमागतोऽसि गजानन । बालभावेन मां मूर्ख न जानासि सुरेरितः ॥१२॥ मच्छ्वासेन चलंति स्म मेरुमंदरकादयः । तलप्रहारवेगेन ब्रह्मांडं शतधा भवेत् ॥१३॥ शिवादयः सुरेशाश्च भयभीताः समागताः । तान् दृष्ट्वाऽपि गणाधीश योद्धुं कथमुपागतः ॥१४॥ बालभावेन संयातं न त्वां हन्मि गजानन । त्वत्प्रेरकान् सुरांश्चाहं हनिष्यामि न संशयः ॥१५॥ क्रोधेनाहं च यं कंचिदालिंगामि गजानन । स भस्मसाद्भवेन्नूनं किं करिष्यसि मां वद ॥१६॥ एवं श्रुत्वा गणाधीशो दैत्येशस्य वचो महत् । स उवाच प्रहस्याऽथ सिंदूरं लोकपीडकम् ॥१७॥ श्रीगजानन उवाच । दैत्याधम महाबाहो मां न वेत्सि प्रभाविणम् । स्वानंदवासिनं पूर्णं ब्रह्मभूतं विशेषतः ॥१८॥ एवमुक्त्वा विराट्पं दधार स गजाननः । हस्ताभ्यां मर्दयित्वा तं मस्तके विभुरालिपत् ॥१९॥ ब्रह्मणो रक्षणार्थं स वचः सिंदूरधारकः । गजाननो बभूवापि भक्तेश्रो भक्तिभावितः ॥२०॥ सिंदूरं मर्दितं दृष्ट्वा देवा हर्षसमन्विताः । तुष्टुवुस्तं प्रपूज्यैव भक्तिनम्रात्मकंधराः ॥२१॥ देवा ऊचुः । गजाननाय पूर्णाय सांख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥२२॥ अमेयाय च हेरंबाय ते परशुधारक । मूषकवाहनायैव विघ्नेशाय नमो नमः ॥२३॥ अनंतविभवायैव परेषां पररूपिणे । गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥२४॥ पार्वती नंदनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥२५॥ स्वानंदवासिने तुभ्यं शिवस्य कुलदैवत । विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥२६॥ योगाकाराय सर्वेषां योगशांतिप्रदाय च । ब्रह्नेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥२७॥ सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने । मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥२८॥ लंबोदराय वै तुभ्यं सर्वोदरगताय च । अमायिने च मायाया आधाराय नमो नमः ॥२९॥ गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप । योगिनस्त्वां प्रजानंति तदाकारा भवंति ते ॥३०॥ तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन । वेदादयो विकुंठाश्च शंकराद्याश्च देवपाः ॥३१॥ शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवंति न । तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥३२॥ गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः । स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥३३॥
खं. ४ अ. ४९ पान १२२
श्रीगजानन उवाच। भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत्। पठते शृण्वते देवा ब्रह्मभूयप्रदायकम् ॥३४॥ वरं वृणुत देवेशास्तुष्टिं स्तोत्रेण चागतः। दास्यामि सकलाभीष्टं भवतां यच्चिकीर्षितम् ॥३५॥ शिवादय ऊचुः। यदि प्रसन्नभावेन वरदोऽसि गजानन। तदा तिष्ठ गृहे शंभोः सर्वदा विघ्ननाशनः ॥३६॥ त्वां दृष्ट्वा विघ्नहीनाश्च भविष्यामो निरंतरम्। प्रत्यक्षं योगरूपं च पश्यामस्तेन सार्थकाः ॥३७॥ मुद्गल उवाच। गजाननस्तानुवाचाऽथ तथेति सुरेश्वरान्। स्वलोकं कल्पयामास तत्रैव शिवपार्श्वगम् ॥३८॥ दशयोजनसाहस्रविस्तारस्तस्य मानद। गणाः कुमुदमुख्याश्च कल्पिता मोदकादयः ॥३९॥ तिष्ठति स्वर्गलोकेषु तदादि गणनायकः। गणेशलोक एवाऽसौ बभूवे भुक्तिमुक्तिदः ॥४०॥ सकामास्तं समागम्य पतंति पृथिवीतले। निष्कामास्तस्य देहे ते अंते लीना भवंति हि ॥४१॥ एतत्ते कथितं सारं गजाननचरित्रकम्। शिवपुत्रत्वभावेन ब्रह्मेशोऽयं बभूव ह ॥४२॥ यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम्। भविष्यति प्रजानाथ तथा नानासुखप्रदम् ॥४३॥
॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते सिन्दूरवधो नामाष्टचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच। निर्माल्यस्य च माहात्म्यं श्रुतं यत् परमाद्भुतम्। विस्तरेण पुनः स्वामिन् वद तस्य चरित्रकम् ॥१॥ मुद्गल उवाच। पराशरगृहे देवो बभूव ह गजाननः। पुत्रभावेन तस्यापि चरितं कथितं पुरा ॥२॥ पराशरेणैव तत्र स्थापिता मूर्तिरादरात्। गजाननस्य भो दक्ष सर्वदाऽभूत् सुसेविता ॥३॥ नित्यं तत्रैव देवेशा ब्रह्मविष्णुशिवादयः। रात्रौ गजाननं ते संपूजयंति सुसिद्धिदम् ॥४॥ गजासुरवधाद्दक्ष प्रारभ्य भक्तिसंयुताः। स्वर्गपुष्पोपहाराद्यैः सुप्रसन्नाननां- बुजाः ॥५॥ कदाचित् तत्र राजर्षिर्मृगयासक्त आययौ। सैन्येन स्वप्रधानैश्च संवृतो वीरभद्रकः ॥६॥ स आगत्य गणेशानं पूजयन् भक्तिसंयुतः। तत्रैव निशि संस्थोऽभूद्वाणपत्यो महायशाः ॥७॥ उषःकाले समागत्य स पुपूज गजाननम्। पुष्पाणि दृष्टवान् सोऽभूत् तत्र स्वर्गोद्भवानि च ॥८॥ सुवासबहुलान्येव मंदाराद्यानि भूमिपः। विस्मितो मानसे भूत्वाऽभवत्तत्रैव संस्थितः ॥९॥ देवालयं पिधायाऽसौ भूपः संस्थाप्य रक्षकान्। सैन्ययुक्तो जगागार देवदर्शनलालसः ॥१०॥
खं. ४ अ. ४९ पान १२३ ततो देवेंद्रमुख्याश्च रात्रौ देवाः समाययुः । तद् दृष्ट्वा गुप्तरूपेण पुपूजुस्तं गजाननम् ॥११॥ पूजयित्वा गताः सर्वे राजा तत्र समागतः । पूजां दृष्ट्वा महाभागो विस्मितोऽभूत् पुनः पुनः ॥१२॥ ततः स्वगुरवे गत्वा पप्रच्छ विनयान्वितः । देवदर्शन- कांक्षी कृतांजलिः स विशेषतः ॥१३॥ वीरभद्र उवाच । स्वामिन् देवगणाः पूजयितुं चात्र गजाननम् । नित्यमायांति तान् द्रष्टुमिच्छामि वद कारणम् ॥१४॥ शिवशर्मोवाच । निर्माल्यसंभवानि त्वं पुष्पाणि यत्र तत्र च । आच्छादय महीपाल तेषां ते दर्शनं भवेत् ॥१५॥ तथेति वीरभद्रेण कृतं देवालये पुनः । देवाः समागता रात्रावज्ञानेनाचरंस्ततः ॥१६॥ निर्माल्यस्पर्श- मात्रेण पुण्यहीना बभूविरे । पूजां कृत्वा पुनर्गंतुमिच्छां चक्रुः सुरेश्वराः ॥१७॥ ततोऽतिवेगहीनैश्र्च देवैर्देवेंद्रसत्तमैः । विचारेण समाज्ञातं कारणं गतिखंडने ॥१८॥ पादस्पर्शः कृतोऽस्माभिर्निर्माल्ये गणपस्य च । अतो गतिविहीनैश्र्च किं कर्तव्यं विशेषतः ॥१९॥ ततो राजा समायातः पूजार्थं देवसन्निधौ । निर्माल्यमार्जनं कृत्वा ददर्श देवमुख्यकान् ॥२०॥ तान् प्रणम्य महाभक्त्या तुष्टाव विविधैः स्तवैः । प्रसन्नास्ते च राजानमूचुः शंम्वादयः सुराः ॥२१॥ शिवादय ऊचुः । राजंस्त्वया कृतं कर्म स्वार्थभावेन दुःखदम् । देवानां तत्र चोपायं कुरु गतिप्रदायकम् ॥२२॥ ततो राजा भयोद्विग्नः स्वगुरुं प्रणिपत्य तम् । पप्रच्छ चलने तेषामुपायं पुण्यदं परम् ॥२३॥ गुरुणा बोधितो राजा हृदि ध्यात्वा गजाननम् । गणेशपूजया जातं पुण्यपुष्पं ददौ तदा ॥२४॥ अगाधपुण्ययोगेन देवा गतियुताः कृताः । विष्ण्वादयो जगुस्तं ते वरं वृणु महीपते ॥२५॥ अमोघं दर्शनं प्रोक्तमस्माकं शास्त्रसंमतम् । अतो मनेप्सितं भूप दास्यामो नात्र संशयः ॥२६॥ ततो राजा च ब्रह्माद्यानुवाच स कृतांजलिः । गणेशे दृढभक्तिर्मेऽस्तु भवत्कृपया परा ॥२७॥ ततस्ते विस्मिताः सर्वे प्रार्थयित्वा गजाननम् । ददुर्भाक्त गणेशानै ब्रह्मभूतपदप्रदाम् ॥२८॥ गताः स्वर्गेषु देवास्ते राजा तत्र समास्थितः । राज्यं पुत्रे विनिक्षिप्य बाले प्रधानसंयुते ॥२९॥ नित्यं गजाननं भक्त्याऽभजदनन्यचेतसा । अंते स्वानंदगो भूत्वा भजते गणनायकम् ॥३०॥ एवं निर्माल्यमाहात्म्यं संक्षेपेण निरूपितम् । पठनाच्छ्रवणात्नृभ्यो भुक्तिमुक्तिफलप्रदम् ॥३१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते गणेशनिर्माल्यमाहात्म्यवर्णनं नामैकोनपंचाशत्तमोऽध्यायः ॥
पान १२४
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पार्श्वेण मुनिना पूर्वं दीपवत्सलया सह । पत्न्या परमसत्या वै तपसाऽऽराधितो विभुः ॥१॥ दशवर्षसहस्रेषु गणेशो वरदोऽभवत् । स्तुतः संपूजितस्तेन नानास्तोत्रैः प्रजापते ॥२॥ ताभ्यां पुत्रो भव स्वामिन् वृतस्तवन्नौ वरो महान् । तथेति गणराजस्तौ कथयित्वा ययौ पुरम् ॥३॥ ततः कदाचिद्देवर्षिर्नारदस्त्विन्द्रमाययौ । पूजितः सुरनाथेन जगाद वचनं हितम् ॥४॥ नारद उवाच । हिमवत्यां हिमप्रांते राजा मदसमन्वितः । अभिनन्दन एवाऽसौ यज्ञं करोति दुर्मतिः ॥५॥ ब्राह्मणान् स समानीय प्रोवाच बलगर्वितः । यज्ञमिन्द्रेण हीनं मे कुरुध्वं यत्नसंयुताः ॥६॥ नो चेत् सर्वान् हनिष्यामि क्रोधयुक्तो महर्षयः । तस्य तद्वचनं श्रुत्वा तथेति ब्राह्मणा जगुः ॥७॥ अद्य श्वो वा करिष्यंति यज्ञं भयसमन्विताः । ब्राह्मणा नात्र संदेहो यथेच्छसि तथा कुरु ॥८॥ एवमुक्त्वा महायोगी नारदः प्रययौ ततः । वैकुंठे स महाविष्णुं ततः स्वच्छंदगोऽभवत् ॥९॥ इंद्रः क्रोधसमाविष्टः सस्मार कालरूपिणम् । भगवंतं महाकायमिंद्रं स प्रययौ प्रभुः ॥१०॥ तं प्रणम्य प्रतुष्टाव कथयामास दुःखदम् । वृत्तांतं प्रार्थयामास यज्ञविध्वंसनाय तम् ॥११॥ कालस्तथेति तं तुष्टः कथयित्वा ययौ धराम् । धारयामास मनसि कालः कलयतां प्रभुः ॥१२॥ कालाधीनं जगत् सर्वं सदा कालेन भुज्यते । कालं योगबलेनैव जयंत्यत्र हि योगिनः ॥१३॥ तत्रादौ कर्मसंशुद्धा योगनिष्ठा भवंति च । अतः कर्मविनाशार्थं यतिष्येऽहं विशेषतः ॥१४॥ कर्महीना नराः सर्वे मलिनाः संभवंति च । नेच्छंति योगमार्ग ते भविष्यंति मदात्मकाः ॥१५॥ जन्ममृत्युयुताः सर्वे मदधीना न संशयः । इंद्रेण प्रेरितस्तत्र च्छद्म नैव करोम्यहम् ॥१६॥ विचार्य काल इति स आसुरं रूपमादधे । विघ्नरूपेण तं भूपं ययौ क्रोधसमन्वितः ॥१७॥ यज्ञं बभंज वेगेन ब्राह्मणांस्ताडयन् पुरा । ततो नानास्थले दुष्टो ह्यगमद्विघ्नरूपधृक् ॥१८॥ कर्मखंडनभावेन चचार बलमोहितः । सर्वत्र कर्मलोपाय विघ्नेनापीड्य मानवान् ॥१९॥ ततः सोऽपि महावेगो जनान् कालेन मोहयन् । भ्रामयामास विप्रान् योगिनो नानास्वरूपधृक् ॥२०॥ प्रातःकालं चकाराऽसौ निशीथं सायमादरात् । मध्याह्नं कारयामास नानाभ्रमकरः सदा ॥२१॥ चकार रात्रिरूपं स दिवसं कर्मखंडकः । रात्रिं दिवसरूपां तां वक्तुं नैव प्रशक्यते ॥२२॥ लोकान् भ्रमयुतान् सर्वान् कर्महीनांश्चकार सः । चंद्रमाच्छाद्य कालस्तु सूर्यं नक्षत्राकादिकान् ॥२३॥ ततोऽतिभयसंयुक्ता देवा भ्रांता बभूविरे । कर्महीनप्रभावेण चोपोषणपरायणाः ॥२४॥ न समर्था बभूवुस्ते कालं चलयितुं प्रभुम् । कालाधीनाः सुराः सर्वे सृष्टिस्थितिलयात्मकाः ॥२५॥ ततो वसिष्ठमुख्याश्च ब्रह्माणं
शरणं ययुः । तेन सार्धं च वैकुंठं जग्मुः कालभयान्विताः ॥२६॥ विष्णुना शंकरं जग्मुर्ब्राह्मणा भयसंकुलाः । स्तुत्वा नानाविधैः स्तोत्रैः शशंसुः कालचेष्टितम् ॥२७॥ शिवेन संयुताः सर्वे विघ्नेशं तुष्टुवुः प्रभुम् । तपसा ध्यानयुक्तेन तोषया- मासुरादरात् ॥२८॥ गते वर्षशते काले परमात्मा गजाननः । वरदस्तान् ययौ देवान् बोधयामास तापसान् ॥२९॥ ततस्तैः संस्तुतो देवः प्रार्थितो विघ्ननाशने । तथेति प्रतिपाद्यैव पार्श्वपुत्रो बभूव सः ॥३०॥ दीपवत्सलया युक्तः पार्श्वः परम- योगवित् । पुरा तताप घोरं स तपो विघ्नेश्वरं स्मरन् ॥३१॥ प्रगतेषु स वर्षेषु सहस्रे गणनायकः । प्रसन्नस्तं ययौ तेन पूजितः संस्तुतोऽभवत् ॥३२॥ स वव्रे मे भव स्वामिन् पुत्रः परमतारकः । संसारे पुत्रवात्सल्याद्भजिष्यामि सह स्त्रिया ॥३३॥ मूर्तौ देवस्वभावेन हृदये योगमार्गतः । भजिष्यामि त्रिधा ढुंढे त्वां सर्वत्र विशेषतः ॥३४॥ नानाकर्मपरोऽहं वै तव देव गजानन । पिता जातश्च तेन त्वं तारको मे भविष्यसि ॥३५॥ तथेति विघ्नराजस्तमुवाचांतर्दधे प्रभुः । विघ्नासुरविनाशाय बभूवे देहधारकः ॥३६॥ दीपवत्सलिकायाः स जठरे संगतो विभुः । स्तनपानादिकं सर्वं स चकारा तितोषितः ॥३७॥ पंचवर्षात्मको बालो बभूव मुनिवेश्मनि । तदा देवर्षयः सर्वे तं ययुर्भक्तिसंयुताः ॥३८॥ शंभ्वाद्यान् स सुरान् वीक्ष्य वसिष्ठादिमुनीश्वरान् । पार्श्वः संभ्रमसंयुक्तस्तान् पुपूज यथाविधि ॥३९॥ उवाच प्रेमसंयुक्तो धन्यं मे जन्म कर्म च । येन देवगणाः सर्वे मुनयो गृहमागताः ॥४०॥ आज्ञां कुरुत देवेशा दासोऽहं भवतां द्विजाः । करिष्यामि न संदेहो भवत्स्मृति- बलेन वै ॥४१॥ देवर्षय ऊचुः । तव भाग्यबलेनैव सुतः स्वानंदगोऽभवत् । गजाननः स्वयं सर्वे प्रार्थयामो हिताय तम् ॥४२॥ विघ्नासुरेण दुष्टेन जगद्भ्रष्टं कृतं मुने । तस्य नाशार्थमेवं त्वं कुरु यत्नं महामते ॥४३॥ श्रुत्वा तेषां वचः क्रूरं मुनिः शोकयुतो- ऽभवत् । एतस्मिन्नंतरे तत्र स गजानन आययौ ॥४४॥ तं दृष्ट्वा सहसोत्थाय नेमुः सर्वे सुरेश्वराः । मुनयस्तुष्टुवुर्देवं प्रार्थयामासुरादरात् ॥४५॥ तेषां हृदि स्थितं ज्ञात्वा शस्त्रहस्तश्चतुर्भुजः । मूषकोपरि संस्थो यो ययौ हंतुं महासुरम् ॥४६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते विघ्नासुराश्रमगमनं नाम पंचाशत्तमोऽध्यायः ॥
पान १२६ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । केनाऽपि विघ्नदैत्यस्य स्थानं न ज्ञायते सदा । कालस्य गणनाथस्तु ययौ तस्याऽश्रमं प्रभुः ॥१॥ गुप्तरूपधरं विघ्नमंकुशेन समानयत् । तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे विसिस्मिरे ॥२॥ ततस्तं स महाकालः प्रावमत्य गजाननम् । अंतर्धाय स्वमात्मानमग्निरूपो बभूव ह ॥३॥ त्रैलोक्यसंस्थितं ज्ञात्वा तेजस्तत्त्वसमाश्रितम् । विघ्नं गजाननः क्रुद्धो वायुः संहारकोऽभवत् ॥४॥ ततः कालः स्वयं दक्षोऽभवदाकाशतत्त्वगः । वायुस्थं गणनाथं स कर्षयामास दारुणः ॥५॥ आकाशस्थं महाकालं ज्ञात्वाऽहंकारधारकः । गजाननश्च तं क्रुद्धोऽकर्षयत् प्रलयं प्रभुः ॥६॥ ततो विघ्नो महत्तत्त्वं समाश्रित्य गजाननम् । ताडयामास संक्रुद्धः कालः कलयतां प्रभुः ॥७॥ ततो गजाननः क्रुद्धः प्रधानरूप- धारकः । महत्तत्त्वस्थमेवं तं कर्षयामास दारुणम् ॥८॥ ततोऽभवत् सोऽपि महत्तत्त्वं त्यक्त्वा गुणेशगः । प्रधानं हंतुमारेभे कालः परमदुर्जयः ॥९॥ ततो गजाननः साक्षाद्विंदुब्रह्मस्थितोऽभवत् । चतुष्पादमयीं शक्तिं हंतुं चिक्षेप सोऽंतकम् ॥१०॥ गुणेशाच्च परः कालस्ततः खंडितविक्रमः । कालो मायां चतुष्पादां निरीक्ष्य त्रासितोऽभवत् ॥११॥ शक्तिं दृष्ट्वा महाघोरां कालगर्वहरां पराम् । शरणं गणराजं स ययौ कालः प्रजापते ॥१२॥ समागतं महाविघ्नं देवा मुनिगणास्ततः । विस्मिताश्चा- ऽभवन् सर्वे जयेति गणपं जगुः ॥१३॥ विघ्नासूरः प्रणम्यादौ पुपूज ह गजाननम् । तद् दर्शनजबोधेन तुष्टाव स कृतांजलिः ॥१४॥ विघ्नासुर उवाच । नमस्ते गणनाथाय गजाननस्वरूपिणे । योगाय योगनाथाय योगिभ्यो योगदायिने ॥१५॥ अनाकाराय साकाररूपाय ते नमो नमः । नानाभेदविहीनाय भेदानां पतये नमः ॥१६॥ विघ्नेशाय परेशाय कालभीति- हराय ते । हेरंबाय परेषां वै परात्पर नमो नमः ॥१७॥ अनादये ह्यनाथाय सर्वेषामादिमूर्तये । भक्तेशाय सदा भक्तवाञ्छित- प्रद ते नमः ॥१८॥ स्वानंदवासिने तुभ्यं मूषकध्वजिने नमः । मूषकोपरिसंस्थाय ढुंढिराजाय ते नमः ॥१९॥ आदिमध्यांत- हीनायादिमध्यांतस्वरूपिणे । गजवक्त्राय वै तुभ्यं सर्वपूज्याय ते नमः ॥२०॥ सिद्धिबुद्धिस्वरूपाय सिद्धिबुद्धिप्रदाय च । सिद्धिबुद्धिपते तुभ्यं महोदर नमो नमः ॥२१॥ अमेयमायातिगमूर्तयेऽपि ते सदा सुशांतिप्रदपूर्णमूर्तये । मनोवचो- हीनमयाय तेजसे मनोवचोयुक्तकलाय ते नमः ॥२२॥ अज्ञानदोषेण कृतोऽपराधो हेरंब तं क्षंतुमिहार्हसि त्वम् । रक्षस्व मां भक्तियुतं दयाब्धे श्रेष्ठं वरं देहि परेशपाल ॥२३॥ अधुना हि मया बुद्धं स्वरूपं ते गजानन । योगाकारमयोऽसि त्वं ततोऽहं निर्जितस्त्वया ॥२४॥ त्वां विना कः समर्थः स्यात् कालं कलयतां प्रभुम् । जेतुं धन्यः कृतो नाथ पादपद्मस्य दर्शनात् ॥२५॥
खं. ४ अ. ५१ पान १२७
एवं स्तुत्वा महाविघ्नः प्रणनाम गजाननम् । तमुत्थाप्य जगादेदं वचनं सर्वदः परः ॥२६॥ श्रीगजानन उवाच । त्वया कृतं मदीयं वै स्तोत्रं सर्वप्रदं भवेत् । कालस्य न भयं तेषां पठतां शृण्वतां सदा ॥२७॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । महायोगप्रदं चास्तु स्तोत्रं मत्प्रीतिवर्धनम् ॥२८॥ हंतुं त्वां क्रोधसंयुक्त आगतोऽहं न संशयः । वाञ्छितं वृणु नो हन्मि अधुना शरणार्थिनम् ॥२९॥ महाकाल उवाच । भक्तिं देहि त्वदीयां मे सुदृढां तां गजानन । दासरूपेण मां नाथ रक्षस्व त्वत्समीपगम् ॥३०॥ ब्रह्मेश कार्यं कथय तत् करिष्यामि यंत्रितः । स्थानं भक्ष्ययुतं देहि तत्र तिष्ठामि नित्यशः ॥३१॥ मन्नामपूर्वकं नाम कुरु त्वं ते गजानन । सर्वसिद्धिकरं नाथ पूर्णयोगप्रदं परम् ॥३२॥ जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् । निर्विकल्पं मनस्तस्य ज्ञात्वा भक्तप्रपालकः ॥३३॥ श्रीगजानन उवाच । मदीया भक्तिरचला भविष्यति तवाऽनघ । यद्यदिच्छसि तत्तत्ते सफलं चास्तु सर्वदा ॥३४॥ मत् समीपे गणो भूत्वा तिष्ठ त्वं बलसंयुतः । महाविघ्नस्वरूपेण नानाविघ्नगणैर्वृतः ॥३५॥ विघ्नराजेति मन्नाम भविष्यति सुसिद्धिदम् । ब्रह्मभूयकरं पूर्णं वाञ्छितार्थप्रदायकम् ॥३६॥ यत्र मे स्मरणं नास्ति कर्मादौ पूजनं तथा । तत् सर्वं भुंक्ष्व विघ्न त्वं अंशयित्वा सुरेंद्रकान् ॥३७॥ शिवविष्णुमुखा देवा अन्ये मुनिमुखा नराः । शेषाद्या नागराजास्ते नानाजंतव एव च ॥३८॥ अहंकोरेण संयुक्ता भवंति यदि तेऽसुर । तदा तान् अंशयित्वा त्वं भुंक्ष्व भोगान् यथेप्सितान् ॥३९॥ मद्भक्तिकारिणः सर्वे त्वया पाल्या विशेषतः । तेषां निर्विघ्नभावेन पुरो भावपरो भव ॥४०॥ एवमुक्त्वांतर्दधेऽसौ गजाननः प्रतापवान् । विघ्नो विघ्नैः समायुक्तः शांतरूपो बभूव ह ॥४१॥ देवा मुनिमुखाः सर्वे स्वस्वस्थानं ययुस्ततः । सपत्नीकस्तत्र पार्श्वो मूर्च्छितोऽभूत् प्रजापते ॥४२॥ तयोर्हृदि गणाधीशः प्रकटो- ऽभूद्वचोऽब्रवीत् । मां चिंतामणिरूपं ते पश्य तात हृदि स्थितम् ॥४३॥ मूतौं पूजनमात्रेण हृदि ध्यानेन मानदौ । संतुष्टौ जनकौ नित्यं संशयो न भविष्यथः ॥४४॥ यदा मे स्मरणं तातौ महाकार्ये करिष्यथः । द्रक्ष्यथो मां न संदेहो योगशांतौ भविष्यथः ॥४५॥ एवमुक्त्वांतर्दधे सोऽपि गणेशो हृदि रूपधृक् । तौ स्वस्थौ मूर्तिमास्थाप्य निरंतरमपूजताम् ॥४६॥ इति ते गणराजस्य कथितं चरितं महत् । अंशा गजाननस्यैते अवतारा विधे स्मृताः ॥४७॥ वरेण्यपुत्रभावेन बभूव ह गजाननः । कस्मिन् काले वधार्थाय सिंदूरस्य न संशयः ॥४८॥ कल्पभेदानुसारेण नानारूपधरः प्रभुः । गजाननो ह्यभूच्चूर्णयितुं वापि
ग. पु. १७
खं. ४ अ. ५२ | पान १२८ न शक्यते ॥४९॥ इत्याद्या बहवो भेदा गजाननस्य सिद्धिदाः । तांश्च ज्ञातुं कोऽर्हति वर्णयितुं वा प्रजापते ॥५०॥ संक्षेपेण मया तुभ्यं कथितं पापनाशनम् । चरितं विघ्नराजस्य मुक्तिमुक्तिफलप्रदम् ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते विघ्नराजावतारवर्णनं नामैकपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गजाननस्य क्षेत्रं मे वद कुत्र प्रतिष्ठितम् । माहात्म्यं तस्य विप्रेश संक्षेपेण सुसिद्धिदम् ॥१॥ मुद्गल उवाच । दिशांते नैर्ऋते कोणे देवैर्मुनिभिरादरात् । स्थापितो गणनायश्च गजवक्त्रावतारधृक् ॥२॥ द्वीपेषु स्वस्वखंडेषु विभुर्नैर्ऋतकोणगः । पूज्यते मानवैः सर्वैर्देवैश्च मुनिभिस्तथा ॥३॥ भाद्रशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः । मध्याह्नसमये दक्ष पुरा सोत्सववर्धिनी ॥४॥ तस्यां यात्रां प्रकुर्वंति जना भक्तिपरायणाः । त्रिलोकस्था विशेषेण नानासिद्धिप्रवृद्धये ॥५॥ दशयोजनविस्तारो विभुः क्षेत्रस्य मध्यगः । मूषकश्चतुरस्रस्य पुरतस्तिष्ठति प्रभोः ॥६॥ सिद्धिस्तस्याऽपि वामांगे दक्षिणांगे च बुद्धिका । अष्टदिक्षु प्रजानाथ सिद्धयोऽष्टौ व्यवस्थिताः ॥७॥ अष्टमातृगणः पश्चात्ततोऽष्टौ भैरवा मताः । दशदिक्षु च दिक्पालाः सशस्त्राः संस्थिताः प्रभोः ॥८॥ शिवविष्णुमुखा देवा वामांगे संस्थिता विभोः । काश्यादिमुख्यक्षेत्राणि गंगाद्याश्च तथोत्तरे ॥९॥ मुनयः शेषकाद्याश्च पृष्ठभागे व्यवस्थिताः । भक्ता मुद्गलमुख्याश्च पुरतः संस्तुवंति तम् ॥१०॥ त्रिलोकेषु च ये मुख्यास्ते सर्वे तत्र संस्थिताः । अंशेन देवसेवार्थं स्वाधिकारेषु मानद ॥११॥ तीर्थेषु स्नानकर्त्तारः समुद्रे भक्तिसंयुताः । स्वस्वनाम्नांकितेष्वेव स्वल्पदेहधरा अपि ॥१२॥ परस्परं बोधयंतो गजाननचरित्रकम् । नृत्यंति ते हसंत्येव देवचेष्टापरायणाः ॥१३॥ गणेशतीर्थं वै तत्र गजाननसुसिद्धिदम् । तत्र स्नानं प्रकुर्वंति ये नरास्ते प्रजापते ॥१४॥ कृतकृत्या न संदेहो मनेप्सितफलप्रदे । तत्र यात्रां प्रकुर्वंति चतुर्विधफलप्रदाम् ॥१५॥ धन्यास्ते पुरुषा लोके कृतकृत्या भवंति वै । वसंति ये यत्र कुत्र गजाननपरायणाः ॥१६॥ ब्रह्मभूताश्च ते प्रोक्ता दर्शनात् पापनाशनाः । अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवंति चेत् ॥१७॥ ते तस्य लोकमासाद्य भोगान् भुंजंति शाश्वतान् । तदंते गणनांथं वै गच्छंति ब्रह्मसिद्धये ॥१८॥ तत्र सिद्धिं गता नाना नरा नार्यश्च भो विधे । तेषां चरित्रकं
खं. ४ अ. ५२ पान १२९ पूर्णं मया वक्तुं न शक्यते ॥१९॥ यात्रामात्रेण तत्रैव चतुर्विधफलं लभेत् । मरणे ब्रह्मभूतश्च नरो भवति निश्चितम् ॥२०॥ संक्षेपेण मया तुभ्यं कथितं क्षेत्रगं महत् । माहात्म्यं विस्तरेणैव कोऽपि नार्हति निश्चितम् ॥२१॥ इदं गजाननस्यापि चरितं सर्वसिद्धिदम् । भविष्यति महाभाग सर्वसौख्यकरं तथा ॥२२॥ नानाख्यानसमायुक्तं कथितं ते प्रजापते । यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम् ॥ भविष्यति महाभाग सर्वसौख्यकरं तथा ॥२३॥ नानेन सदृशं किंचित् पावनं ब्रह्मदायकम् । विद्यते सर्वशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥२४॥ स्वर्णभारसहस्राणि नित्यं यो वै ददाति चेत् । तदस्य श्रवणान् मर्त्यो लभते नात्र संशयः ॥२५॥ गोदानानि नरो यस्तु ददाति भक्तिसंयुक्तः । नित्यं सहस्रशो दक्ष फलं प्राप्नोति शाश्वतम् ॥२६॥ नानादानानि यो दद्याद्ब्राह्मणेभ्यो यथाविधि । तेषां पुण्यफलं भुक्त्वा पतति मानवो भुवि ॥२७॥ अस्य श्रवणमात्रेण भुक्त्वा भोगान् मनेप्सितान् । अंते स्वानंदगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥२८॥ नानायज्ञादिकं कर्म कुरुते मानवः सदा । नास्य श्रवणमात्रेण कलांशमपि तत् फलम् ॥२९॥ जन्ममृत्युप्रदान्येव कर्माणि सकलानि च । इदं सर्वप्रदं प्रोक्तमंते ब्रह्मप्रदायकम् ॥३०॥ संक्षेपेण प्रजानाथ कथितं सुखदं परम् । गजाननस्य माहात्म्यं किं भूयः श्रोतुमिच्छसि ॥३१॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । श्रुत्वा दक्षोऽपि संहृष्टो बभूव मुनिसत्तम ॥३२॥ मयाऽपि कथितं सर्वं माहात्म्यं पूर्णसिद्धिदम् । तुभ्यं विप्रर्षियुक्ताय यथा मुद्गलभाषितम् ॥३३॥ धन्योऽहं कृतकृत्योऽहं भवतां संगमेन वै । गणेशामृतधारायां प्रवृत्तः सर्वभावतः ॥३४॥ गणेशान्न परं किंचित् सर्वादौ तेन स स्मृतः । सर्वपूज्यश्च विप्रर्षे ब्रह्मेशो ब्रह्मदः परः ॥३५॥ श्रुतं त्वया महाभाग ब्राह्मणैः शास्त्रकोविदैः । अधुना किं च ते विप्र इच्छा श्रोतुं वदस्व ताम् ॥३६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चरित्रमाहात्म्यवर्णनं नाम द्विपंचाशत्तमोऽध्यायः ॥ ॥ इति चतुर्थः खंडः समाप्तः ॥
॥ इति श्रीमुद्गलपुराणे चतुर्थः खंडः समाप्तः ॥
॥ अथ श्रीमुद्गलपुराणे पंचमः खंडः प्रारभ्यते ॥
खं. ५ अ. १ | पान १
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । श्रुतं मया महाख्यानं गजाननकथाश्रितम् । सर्वसौख्यकरं तात ब्रह्मभूतपदप्रदम् ॥१॥ तथा तृप्तिं न याम्येव पीत्वा ब्रह्मामृतं परम् । गुणज्ञो गणराजस्य कस्तं मुंचति मानद ॥२॥ धन्या वयं महाभाग त्वदासंग- समाश्रयात् । यत्र योगप्रदा गाथा वर्तते त्वन्मुखे द्विज ॥३॥ लंबोदरस्य माहात्म्यमधुना वद सर्वदम् । कीदृशोऽयं गणेशानः कीदृशं ब्रह्म तस्य च ॥४॥ कति तस्यावताराश्च किंकर्मा सोऽपि विघ्नपः । किमर्थमागतो भूमौ तत् सर्वं वद विस्तरात् ॥५॥ सूत उवाच । एवं दक्षेण संश्रुत्य गजाननचरित्रकम् । पृष्टो योगींद्रमुख्यश्च गाणपत्योऽथ मुद्गलः ॥६॥ दक्ष उवाच । गजाननस्य माहात्म्यं श्रुत्वा संक्षेपतः परम् । न तृप्तोऽहं महाभाग पायं पायं सुधामिव ॥७॥ अतो लंबोदरस्य त्वं चरित्रं वद विस्तरात् । सर्वसिद्धिप्रदं पूर्णं श्रवणात् पठनान्नृणाम् ॥८॥ गणेशस्य कथां योगिन् शृण्वंति च पठंति ये । श्रावयंति प्रपृच्छंति चत्वारः पुण्यभागिनः ॥९॥ धन्या ये पुरुषा लोके सादरा मुनिसत्तम । कथायां कृतकृत्यास्ते योगिनो योगभूषणाः ॥१०॥ सूत उवाच । एवं तस्यादरं दृष्ट्वा हर्षितो मुद्गलो मुनिः । जगाद तं महाभागं प्राजापत्येंद्रमादरात् ॥११॥ मुद्गल उवाच । साक्षाद्ब्रह्मसुतस्त्वं च ब्रह्मतुल्यो न संशयः । तत्र किं गणनाथे वै चित्रं रसयुतः प्रभो ॥१२॥ येषां मुखारविंदेषु गणेशस्मरणं भवेत् । इच्छामि तेषां दासत्वं नित्यं दक्ष प्रजापते ॥१३॥ अधुना शृणु वक्ष्यामि संक्षेपेण चरित्रकम् । लंबोदरस्य विस्तारे कः समर्थो भवेत् प्रभो ॥१४॥ संवादं पूर्णसंभूतमसितस्य महात्मनः । नैध्रुवस्याऽत्र वक्ष्यामि सर्वसिद्धिप्रदायकम् ॥१५॥ प्रणम्य मुनिशार्दूलो नैध्रुवो वत्सरं वनम् । ययौ तपःप्रसिद्ध्यर्थं महाभागो महामुनिम् ॥१६॥ स तताप तपो घोरं दिव्यवर्षसहस्रकम् । तपसा तस्य देवेंद्रो भीताश्च प्रबभूविरे ॥१७॥ किमयं तपसा साध्यं कर्तुमिच्छति वाडवः । न तुल्यं तपसोऽस्यात्र ब्रह्मांड किं भविष्यति ॥१८॥ ततस्तस्याऽऽश्रमेऽकस्मादसितोऽभवदागतः । पितृव्यं मुनिरुत्थाय प्रणनाम कृतांजलिः ॥१९॥ पुपूज भक्तिसंयुक्तः कृतांजलिपुटः स्थितः । तस्याऽऽज्ञया विनीतः स आसने संस्थितोऽभवत् ॥२०॥ तमुवाच महायोगी सोऽसितो हितकारकम् । वचो भावेन संतुष्टो भ्रातृपुत्रं तपोधनम् ॥२१॥ असित उवाच । देहं किं तपसा पुत्राऽतिशोषयसि तापस । देहशोषणरूपं यत्तपो मुख्यं न शाश्वतः ॥२२॥ अतो देहश्रमं त्यक्त्वा तपो मुख्यं समाचर । येन त्वं ब्राह्मणो भूत्वाऽन्ते ब्रह्मणि गमिष्यसि ॥२३॥ मुद्गल उवाच । असितस्य वचः श्रुत्वा नैध्रुवो भक्तिसंयुतः । पुनः प्रपच्छ योगींद्रं संशयेन समन्वितः ॥२४॥ नैध्रुव उवाच । कृच्छ्रचांद्रादिधर्मेण यथाविधि कृतं मुने । तपो ब्रुवंति सर्वज्ञास्तन्न मुख्यं
खं ५ अ. १ पान २ किमप्यहो ॥२५॥ असित उवाच । तपश्च त्रिविधं प्रोक्तं तापदं नात्र संशयः । तच्छृणुष्व विधानेन योगिवंद्यो भविष्यसि ॥२६॥ कृच्छ्रचांद्रायणादीनि तपांसि प्रवदंति च । पंचाग्निसोधनादीनि वायुभक्षात्मकानि च ॥२७॥ इत्यादिभेदा बहवस्तपसो विविधस्य च । तदेव बाह्यभावस्थं पुत्र जानीहि निश्चितम् ॥२८॥ इहामुत्रप्रदं तात तपः फलमयं स्मृतम् । फलं भुक्त्वा पुनः सोऽपि दीनरूपो भवेत् किल ॥२९॥ अन्यच्छृणु महाभाग तपः परमदुश्चरम् । वायुरोधात्मकं देहे प्राणायामेन जायते ॥३०॥ तत्र प्राणस्य संतापो जायते नात्र संशयः । देहस्यापि तथा पुत्र तपस्तेन तदुच्यते ॥३१॥ षट्चक्रभेदने दक्षर्मतर्ध्यान- परायणः । सहस्रारे गतं वायुं रोधयेत्तत्र लालसः ॥३२॥ तपःप्रभावेन तेन क्षुद्रसिद्धियुतो नरः । भवति ज्ञानमार्गज्ञ- स्त्रिकालज्ञानसंयुतः ॥३३॥ दूरश्रवणसामीप्यं कुरुते कामगां गतिम् । जले स्थलं स्थले तोयमाकाशे नगरादिकम् ॥३४॥ अहताज्ञश्च सर्वत्र भवते परमद्युतिः । अपरायुः समायुक्तो ब्रह्माद्यांश्चालयत्यपि ॥३५॥ एककल्पस्य सर्वेषां वृत्तांतं कथयत्यपि । जानाति स तपो योगादंतर्ध्यानपरायणः ॥३६॥ सोऽपि गत्वा विधेर्लोकं भुनक्ति विविधं सुखम् । पुण्यांते पुनरत्रैव दीनो भवति निश्चितम् ॥३७॥ तृतीयं त्वं तपोरूपं शृणु मत्तो सुयोगदम् । द्विविधं च तपो येन साधितं गुरुमार्गतः ॥३८॥ तेनैकाग्रमयं चित्तं भवत्यत्र न संशयः । सर्वत्रात्मस्वरूपं स पश्यति ज्ञानचक्षुषा ॥३९॥ तत्रानुभवमात्रेण शमदम- परायणः । भवते तेन संतापो देहे मनसि जायते ॥४०॥ विषयान्निंदयन् सोऽपि जडोन्मत्तपिशाचवत् । चरति सर्वभावज्ञ आत्मनिष्ठतया सुत ॥४१॥ ततो निरोधयोगेन निवृत्तिषु परायणः । चित्तं संरुध्य सर्वत्र निवृत्तिं लभते स्वयम् ॥४२॥ अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भयं भवेत् । न जगज्जगदात्मा वै मनो वाणीविहीनकः ॥४३॥ स्वत उत्थानभावो नोत्थानं परत एव न । न स्वतः परतस्तत्र उत्थानं वर्जितं भवेत् ॥४४॥ एवं निरोधयोगेन शमी दमपरायणः । संतोषेण स्वयं योगी वर्तते नित्यदा सुत ॥४५॥ तत्र संतोषभावेन स्थितस्य देहचेतसोः । संतापो जायते नित्यं तदेव तप उच्यते ॥४६॥ ततो निरोधभूमिं स त्यक्त्वा शांतिपरायणः । त्यक्त्वा पंचविधं चित्तमेवं ब्रह्मैव जायते ॥४७॥ ततो विधिनिषेधाभ्यां हीनो योगधरः स्वयम् । रसहीनश्चरत्यूत्र प्रारब्धानुभवेन सः ॥४८॥ यथा जलानि सर्वत्र सुत गच्छंति सागरे । यहच्छया तथा सोऽपि भोक्ता भोगेन नित्यदा ॥४९॥ तत्रांतरे शरीरेऽस्य तापः संजायते सदा । शांत्या भोगपरत्वेन तदेव
[खं. ५ अ. २ पान ३]
तप उच्यते ॥५०॥ एतद्योगात्मकं सुज्ञ तपस्ते कथितं मया । तृतीयं ब्रह्मदं पूर्णं तदर्थं यत्नमाचर ॥५१॥ तपोधना महाभागा योगिनस्तत्परायणाः । ब्राह्मणास्तपसा युक्ता ब्रह्मभूता भवंति ते ॥५२॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते असितनैध्रुवसंवादे त्रिविधतपोवर्णनं नाम प्रथमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । असितस्य वचः श्रुत्वा नैध्रुवो विस्मितोऽभवत् । प्रणम्य तं महाभागं जगाद विनयान्वितः ॥१॥ नैध्रुव उवाच । स्वामिन् वद महायोगं योगदं साधनं परम् । तदर्थं कस्य भक्तिर्मे कर्तव्या योगिसत्तम ॥२॥ असित उवाच । शृणु पुत्र प्रवक्ष्यामि लंबोदरकथानकम् । तेन सर्वं महायोगं लभसे नात्र संशयः ॥३॥ एकदाऽहं तथा पुत्र वत्सरस्ते पिता पुरा । तपसा शुद्धभावेन भवावः स्म च निर्मलौ ॥४॥ ततो योगस्य प्राप्त्यर्थं यत्नवंतौ सुसंस्थितौ । अंतर्ज्ञानसमायुक्तौ जडोन्मत्तादिसुप्रियौ ॥५॥ एकाग्रं साधयित्वा वै निरोधे संस्थितौ तथा । सहजावस्थया युक्तौ सुखयुक्तौ भवावहे ॥६॥ तत्रैव मोहहीनत्वं दृष्ट्वा परमविस्मितौ । शांतिहीनौ ततो जातौ गतौ च ब्रह्मणोऽंतिकम् ॥७॥ तत्र स्पर्धा- समायुक्तौ विश्वामित्रवसिष्ठकौ । समायातौ प्रणम्यैनं प्रतिष्ठंतौ मदान्वितौ ॥८॥ क्रोधयुक्तौ विधातारं प्रपृच्छंतौ विशेषतः । कोऽधिको वद धातस्त्वं तपसा योगसेवया ॥९॥ तच्छ्रुत्वा तौ जगादाऽथ ब्रह्मा सर्वपितामहः । येन क्रोधो जितो नूनं तं जानाम्यधिकं मुनिम् ॥१०॥ युवां क्रोधयुतौ पूर्णौ तत्र किं विद्यते तपः । सर्वत्र शांतिदं योगं तं यो जयति सोऽधिकः ॥११॥ ततः प्रणम्य विश्वेशं वदतः स्म तपोधनौ । विनयेन समायुक्तौ तपस्पर्धापरायणौ ॥१२॥ वसिष्ठविश्वामित्रावूचतुः । कीदृशोऽयं प्रजानाथ क्रोधः सर्वभयंकरः । कुत्र तिष्ठति देवेश किंरूपः किंस्वभाववान् ॥१३॥ जयंति केन योगेन तं दुष्टं योगिनः प्रभो । सर्वं वद विभो तस्य तं जेष्यावो न संशयः ॥१४॥ ब्रह्मोवाच । अत्राऽहं कथयिष्यामीतिहासम् सर्वसिद्धिदम् । तेन क्रोधं च कामं चाभिमानं जयति प्रभुः ॥१५॥ शकुनेरभवत् पुत्रः शुक्रं भस्मासुरोऽतपत् । उपसंगम्य संगृह्य विद्यां पंचाक्षरीं पुरा ॥१६॥ दीक्षां गृह्य महादेवमुपासनविधानतः । साधयामास भावेन भस्मोद्धूलितविग्रहः ॥१७॥ सहस्रे प्रगतेष्वेव प्रसुवर्षेषु शंकरः । तं ययौ वरदानार्थं सर्वदेवसमावृतः ॥१८॥ आगतं शंकरं दृष्ट्वा उत्थाय
पान ४ प्रणिपत्य तम् । पूजयित्वा प्रतुष्टाव स्तोत्रैः शैवैर्महासुरः ॥१९॥ जगाद शंकरो दैत्यं संतुष्टो भक्तमुत्तमम् । वरं वरय दास्येऽहं भक्त्या ते तपसाऽसुर ॥२०॥ भस्मासुर उवाच । यस्य शंभो महेशान मस्तकेऽहं धरामि सः । हस्तं सद्यो मृतो भूत्वा ततो भवतु भस्मसात् ॥२१॥ अन्येभ्यः सर्वभूतेभ्यो न भयं मे कदाचन । भवेत् सर्वातिगा शक्तिस्तथा कुरु महेश्वर ॥२२॥ तच्छ्रुत्वा विस्मितः शंभुस्तं जगाद महासुरम् । सर्वं च ते महादैत्य भविष्यति मदाज्ञया ॥२३॥ हस्तस्ते यस्य शिरसि दक्षिणः संपतिष्यति । स वै भस्ममयः सद्यो भविष्यति न संशयः ॥२४॥ ततः शिवो ययौ स्थानं कैलासं गणसंवृतः । दैत्यस्तत्रैव तिष्ठन् स विचारमकरोत् स्वयम् ॥२५॥ अहो शिवस्य वामांगे संस्थिता जगदंबिका । रूपलावण्य- संयुक्ता रत्नभूताऽतिसुंदरी ॥२६॥ एतादृशी मया कुत्र दृष्टा नैव सुरूपिणी । नग्नः शंभुरयं तस्याऽयोग्यो नैव भवेद्रतौ ॥२७॥ अतोऽहं यत्नमास्थाय वरदानप्रभावतः । शंभुं भस्ममयं कृत्वा ग्रहीष्यामि च पार्वतीम् ॥२८॥ एवं विचार्य दैत्येंद्र आययौ शंकरांतिकम् । कैलासे गिरिवर्ये स वेगमास्थाय दारुणः ॥२९॥ दक्षिणं हस्तमूर्ध्वं स कृत्वा शंकरसन्निधौ । आययौ तं विलोक्यैव पपाल गिरिजापतिः ॥३०॥ नमस्कारादिचिह्नैश्च हीनं दृष्ट्वा स्वसन्निधौ । असुरं भावसंयुक्तं भयभीतः समंततः ॥३१॥ ततः सोऽपि महादैत्यः क्रोधयुक्तो विशेषतः । धावयित्वा तमनु वै ग्रहीतुं प्रोद्यतोऽभवत् ॥३२॥ ततो- ऽतिवेगमास्थाय शिवो भीत्या पलायत । अधावत् पृष्ठमास्थाय तं भस्मासुर एव च ॥३३॥ पलंतं शंकरं तत्र ददर्श कमलापतिः । सस्मार गणपं चित्ते किं भविष्यति विह्वलः ॥३४॥ सोऽपि तुष्टाव चाथर्वशिरसा विघ्नायकम् । विष्णुः परमशोकार्तो महादेवस्य कारणात् ॥३५॥ शिवश्च भयसंयुक्तो गणेशं स्वयमस्तवीत् । महासंकटनाशार्थं शरणागतवत्सलम् ॥३६॥ शिव उवाच । किं पश्यसे नाथ विनायकस्त्वं दैत्येन सर्वत्र च मां सुत्रासितम् । दक्षं भुजं मस्तकगं गणेश कृत्वा स मां भस्ममयं करिष्यति ॥३७॥ नानाजनैः सेवितपादपद्म किं विस्मृतो मां भयभंगकारिन् । चिंतामणे चित्तनिवासक त्वं संरक्ष विघ्नेश दयाघनात्र ॥३८॥ त्वदन्यदेवं शरणं गजास्य प्रभुं समर्थं न च यामि नाथ । न कोऽपि हेरंब महानुभाव क्षमो हि मां रक्षितुमीश्वरः कः ॥३९॥ लंबोदरामोघ सुचिंतनं ते स्वानंदवासिंश्च महोदरस्य । रक्षस्व मां मृत्युमुपागतं त्वं त्वत्पादनिष्ठं भयभंजनाशु ॥४०॥ किं सिद्धिबुद्धिप्रविहारकेण सक्तः प्रजातोऽसि विनायक त्वम् । भक्तानुकंपीति तवैव नाम वेदे कथं संकथितं महात्मन् ॥४१॥ किं लक्षलाभप्रभवार्थमेवं संसक्तभावैरसि विस्मरंश्च । मां रक्ष नो चेन्निगमस्य देव