मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 519, कुल 1023 में से
संदर्भ में पढ़ेंHere is the line-by-line Sanskrit transcription of the text from the image:
Header: खं. ४ अ. ४८ | पान १२१
Text: दैत्यस्तत्र समागतः । ततो विष्णुः शिवं देवैर्ययौ सत्वर एव च ॥८॥ तत्राऽपि स ययौ दैत्यः शंभुर्देवैर्गणेश्वरम् । तुष्टाव दैत्यनाशार्थं ततः स वरदोऽभवत् ॥९॥ सिंदूरमाययौ तत्र प्रभुः परशुधारकः । गजाननो मूषकारूढको भूत्वा प्रतापवान् ॥१०॥ तं दृष्ट्वा योद्धुमायातं सिंदूरः क्रोधसंयुतः । जगाद स्वमदेनैव युक्तः परमदुर्जयः ॥११॥ सिंदूर उवाच । किमर्थं रणभूमौ त्वमागतोऽसि गजानन । बालभावेन मां मूर्ख न जानासि सुरेरितः ॥१२॥ मच्छ्वासेन चलंति स्म मेरुमंदरकादयः । तलप्रहारवेगेन ब्रह्मांडं शतधा भवेत् ॥१३॥ शिवादयः सुरेशाश्च भयभीताः समागताः । तान् दृष्ट्वाऽपि गणाधीश योद्धुं कथमुपागतः ॥१४॥ बालभावेन संयातं न त्वां हन्मि गजानन । त्वत्प्रेरकान् सुरांश्चाहं हनिष्यामि न संशयः ॥१५॥ क्रोधेनाहं च यं कंचिदालिंगामि गजानन । स भस्मसाद्भवेन्नूनं किं करिष्यसि मां वद ॥१६॥ एवं श्रुत्वा गणाधीशो दैत्येशस्य वचो महत् । स उवाच प्रहस्याऽथ सिंदूरं लोकपीडकम् ॥१७॥ श्रीगजानन उवाच । दैत्याधम महाबाहो मां न वेत्सि प्रभाविणम् । स्वानंदवासिनं पूर्णं ब्रह्मभूतं विशेषतः ॥१८॥ एवमुक्त्वा विराट्पं दधार स गजाननः । हस्ताभ्यां मर्दयित्वा तं मस्तके विभुरालिपत् ॥१९॥ ब्रह्मणो रक्षणार्थं स वचः सिंदूरधारकः । गजाननो बभूवापि भक्तेश्रो भक्तिभावितः ॥२०॥ सिंदूरं मर्दितं दृष्ट्वा देवा हर्षसमन्विताः । तुष्टुवुस्तं प्रपूज्यैव भक्तिनम्रात्मकंधराः ॥२१॥ देवा ऊचुः । गजाननाय पूर्णाय सांख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥२२॥ अमेयाय च हेरंबाय ते परशुधारक । मूषकवाहनायैव विघ्नेशाय नमो नमः ॥२३॥ अनंतविभवायैव परेषां पररूपिणे । गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥२४॥ पार्वती नंदनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥२५॥ स्वानंदवासिने तुभ्यं शिवस्य कुलदैवत । विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥२६॥ योगाकाराय सर्वेषां योगशांतिप्रदाय च । ब्रह्नेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥२७॥ सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने । मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥२८॥ लंबोदराय वै तुभ्यं सर्वोदरगताय च । अमायिने च मायाया आधाराय नमो नमः ॥२९॥ गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप । योगिनस्त्वां प्रजानंति तदाकारा भवंति ते ॥३०॥ तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन । वेदादयो विकुंठाश्च शंकराद्याश्च देवपाः ॥३१॥ शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवंति न । तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥३२॥ गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः । स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥३३॥