मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
Here is the line-by-line Sanskrit transcription of the text from the image:
Header: खं. ४ अ. ४८ | पान १२१
Text: दैत्यस्तत्र समागतः । ततो विष्णुः शिवं देवैर्ययौ सत्वर एव च ॥८॥ तत्राऽपि स ययौ दैत्यः शंभुर्देवैर्गणेश्वरम् । तुष्टाव दैत्यनाशार्थं ततः स वरदोऽभवत् ॥९॥ सिंदूरमाययौ तत्र प्रभुः परशुधारकः । गजाननो मूषकारूढको भूत्वा प्रतापवान् ॥१०॥ तं दृष्ट्वा योद्धुमायातं सिंदूरः क्रोधसंयुतः । जगाद स्वमदेनैव युक्तः परमदुर्जयः ॥११॥ सिंदूर उवाच । किमर्थं रणभूमौ त्वमागतोऽसि गजानन । बालभावेन मां मूर्ख न जानासि सुरेरितः ॥१२॥ मच्छ्वासेन चलंति स्म मेरुमंदरकादयः । तलप्रहारवेगेन ब्रह्मांडं शतधा भवेत् ॥१३॥ शिवादयः सुरेशाश्च भयभीताः समागताः । तान् दृष्ट्वाऽपि गणाधीश योद्धुं कथमुपागतः ॥१४॥ बालभावेन संयातं न त्वां हन्मि गजानन । त्वत्प्रेरकान् सुरांश्चाहं हनिष्यामि न संशयः ॥१५॥ क्रोधेनाहं च यं कंचिदालिंगामि गजानन । स भस्मसाद्भवेन्नूनं किं करिष्यसि मां वद ॥१६॥ एवं श्रुत्वा गणाधीशो दैत्येशस्य वचो महत् । स उवाच प्रहस्याऽथ सिंदूरं लोकपीडकम् ॥१७॥ श्रीगजानन उवाच । दैत्याधम महाबाहो मां न वेत्सि प्रभाविणम् । स्वानंदवासिनं पूर्णं ब्रह्मभूतं विशेषतः ॥१८॥ एवमुक्त्वा विराट्पं दधार स गजाननः । हस्ताभ्यां मर्दयित्वा तं मस्तके विभुरालिपत् ॥१९॥ ब्रह्मणो रक्षणार्थं स वचः सिंदूरधारकः । गजाननो बभूवापि भक्तेश्रो भक्तिभावितः ॥२०॥ सिंदूरं मर्दितं दृष्ट्वा देवा हर्षसमन्विताः । तुष्टुवुस्तं प्रपूज्यैव भक्तिनम्रात्मकंधराः ॥२१॥ देवा ऊचुः । गजाननाय पूर्णाय सांख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥२२॥ अमेयाय च हेरंबाय ते परशुधारक । मूषकवाहनायैव विघ्नेशाय नमो नमः ॥२३॥ अनंतविभवायैव परेषां पररूपिणे । गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥२४॥ पार्वती नंदनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥२५॥ स्वानंदवासिने तुभ्यं शिवस्य कुलदैवत । विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥२६॥ योगाकाराय सर्वेषां योगशांतिप्रदाय च । ब्रह्नेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥२७॥ सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने । मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥२८॥ लंबोदराय वै तुभ्यं सर्वोदरगताय च । अमायिने च मायाया आधाराय नमो नमः ॥२९॥ गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप । योगिनस्त्वां प्रजानंति तदाकारा भवंति ते ॥३०॥ तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन । वेदादयो विकुंठाश्च शंकराद्याश्च देवपाः ॥३१॥ शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवंति न । तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥३२॥ गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः । स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥३३॥
खं. ४ अ. ४९ पान १२२
श्रीगजानन उवाच। भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत्। पठते शृण्वते देवा ब्रह्मभूयप्रदायकम् ॥३४॥ वरं वृणुत देवेशास्तुष्टिं स्तोत्रेण चागतः। दास्यामि सकलाभीष्टं भवतां यच्चिकीर्षितम् ॥३५॥ शिवादय ऊचुः। यदि प्रसन्नभावेन वरदोऽसि गजानन। तदा तिष्ठ गृहे शंभोः सर्वदा विघ्ननाशनः ॥३६॥ त्वां दृष्ट्वा विघ्नहीनाश्च भविष्यामो निरंतरम्। प्रत्यक्षं योगरूपं च पश्यामस्तेन सार्थकाः ॥३७॥ मुद्गल उवाच। गजाननस्तानुवाचाऽथ तथेति सुरेश्वरान्। स्वलोकं कल्पयामास तत्रैव शिवपार्श्वगम् ॥३८॥ दशयोजनसाहस्रविस्तारस्तस्य मानद। गणाः कुमुदमुख्याश्च कल्पिता मोदकादयः ॥३९॥ तिष्ठति स्वर्गलोकेषु तदादि गणनायकः। गणेशलोक एवाऽसौ बभूवे भुक्तिमुक्तिदः ॥४०॥ सकामास्तं समागम्य पतंति पृथिवीतले। निष्कामास्तस्य देहे ते अंते लीना भवंति हि ॥४१॥ एतत्ते कथितं सारं गजाननचरित्रकम्। शिवपुत्रत्वभावेन ब्रह्मेशोऽयं बभूव ह ॥४२॥ यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम्। भविष्यति प्रजानाथ तथा नानासुखप्रदम् ॥४३॥
॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते सिन्दूरवधो नामाष्टचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच। निर्माल्यस्य च माहात्म्यं श्रुतं यत् परमाद्भुतम्। विस्तरेण पुनः स्वामिन् वद तस्य चरित्रकम् ॥१॥ मुद्गल उवाच। पराशरगृहे देवो बभूव ह गजाननः। पुत्रभावेन तस्यापि चरितं कथितं पुरा ॥२॥ पराशरेणैव तत्र स्थापिता मूर्तिरादरात्। गजाननस्य भो दक्ष सर्वदाऽभूत् सुसेविता ॥३॥ नित्यं तत्रैव देवेशा ब्रह्मविष्णुशिवादयः। रात्रौ गजाननं ते संपूजयंति सुसिद्धिदम् ॥४॥ गजासुरवधाद्दक्ष प्रारभ्य भक्तिसंयुताः। स्वर्गपुष्पोपहाराद्यैः सुप्रसन्नाननां- बुजाः ॥५॥ कदाचित् तत्र राजर्षिर्मृगयासक्त आययौ। सैन्येन स्वप्रधानैश्च संवृतो वीरभद्रकः ॥६॥ स आगत्य गणेशानं पूजयन् भक्तिसंयुतः। तत्रैव निशि संस्थोऽभूद्वाणपत्यो महायशाः ॥७॥ उषःकाले समागत्य स पुपूज गजाननम्। पुष्पाणि दृष्टवान् सोऽभूत् तत्र स्वर्गोद्भवानि च ॥८॥ सुवासबहुलान्येव मंदाराद्यानि भूमिपः। विस्मितो मानसे भूत्वाऽभवत्तत्रैव संस्थितः ॥९॥ देवालयं पिधायाऽसौ भूपः संस्थाप्य रक्षकान्। सैन्ययुक्तो जगागार देवदर्शनलालसः ॥१०॥
खं. ४ अ. ४९ पान १२३ ततो देवेंद्रमुख्याश्च रात्रौ देवाः समाययुः । तद् दृष्ट्वा गुप्तरूपेण पुपूजुस्तं गजाननम् ॥११॥ पूजयित्वा गताः सर्वे राजा तत्र समागतः । पूजां दृष्ट्वा महाभागो विस्मितोऽभूत् पुनः पुनः ॥१२॥ ततः स्वगुरवे गत्वा पप्रच्छ विनयान्वितः । देवदर्शन- कांक्षी कृतांजलिः स विशेषतः ॥१३॥ वीरभद्र उवाच । स्वामिन् देवगणाः पूजयितुं चात्र गजाननम् । नित्यमायांति तान् द्रष्टुमिच्छामि वद कारणम् ॥१४॥ शिवशर्मोवाच । निर्माल्यसंभवानि त्वं पुष्पाणि यत्र तत्र च । आच्छादय महीपाल तेषां ते दर्शनं भवेत् ॥१५॥ तथेति वीरभद्रेण कृतं देवालये पुनः । देवाः समागता रात्रावज्ञानेनाचरंस्ततः ॥१६॥ निर्माल्यस्पर्श- मात्रेण पुण्यहीना बभूविरे । पूजां कृत्वा पुनर्गंतुमिच्छां चक्रुः सुरेश्वराः ॥१७॥ ततोऽतिवेगहीनैश्र्च देवैर्देवेंद्रसत्तमैः । विचारेण समाज्ञातं कारणं गतिखंडने ॥१८॥ पादस्पर्शः कृतोऽस्माभिर्निर्माल्ये गणपस्य च । अतो गतिविहीनैश्र्च किं कर्तव्यं विशेषतः ॥१९॥ ततो राजा समायातः पूजार्थं देवसन्निधौ । निर्माल्यमार्जनं कृत्वा ददर्श देवमुख्यकान् ॥२०॥ तान् प्रणम्य महाभक्त्या तुष्टाव विविधैः स्तवैः । प्रसन्नास्ते च राजानमूचुः शंम्वादयः सुराः ॥२१॥ शिवादय ऊचुः । राजंस्त्वया कृतं कर्म स्वार्थभावेन दुःखदम् । देवानां तत्र चोपायं कुरु गतिप्रदायकम् ॥२२॥ ततो राजा भयोद्विग्नः स्वगुरुं प्रणिपत्य तम् । पप्रच्छ चलने तेषामुपायं पुण्यदं परम् ॥२३॥ गुरुणा बोधितो राजा हृदि ध्यात्वा गजाननम् । गणेशपूजया जातं पुण्यपुष्पं ददौ तदा ॥२४॥ अगाधपुण्ययोगेन देवा गतियुताः कृताः । विष्ण्वादयो जगुस्तं ते वरं वृणु महीपते ॥२५॥ अमोघं दर्शनं प्रोक्तमस्माकं शास्त्रसंमतम् । अतो मनेप्सितं भूप दास्यामो नात्र संशयः ॥२६॥ ततो राजा च ब्रह्माद्यानुवाच स कृतांजलिः । गणेशे दृढभक्तिर्मेऽस्तु भवत्कृपया परा ॥२७॥ ततस्ते विस्मिताः सर्वे प्रार्थयित्वा गजाननम् । ददुर्भाक्त गणेशानै ब्रह्मभूतपदप्रदाम् ॥२८॥ गताः स्वर्गेषु देवास्ते राजा तत्र समास्थितः । राज्यं पुत्रे विनिक्षिप्य बाले प्रधानसंयुते ॥२९॥ नित्यं गजाननं भक्त्याऽभजदनन्यचेतसा । अंते स्वानंदगो भूत्वा भजते गणनायकम् ॥३०॥ एवं निर्माल्यमाहात्म्यं संक्षेपेण निरूपितम् । पठनाच्छ्रवणात्नृभ्यो भुक्तिमुक्तिफलप्रदम् ॥३१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते गणेशनिर्माल्यमाहात्म्यवर्णनं नामैकोनपंचाशत्तमोऽध्यायः ॥
पान १२४
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पार्श्वेण मुनिना पूर्वं दीपवत्सलया सह । पत्न्या परमसत्या वै तपसाऽऽराधितो विभुः ॥१॥ दशवर्षसहस्रेषु गणेशो वरदोऽभवत् । स्तुतः संपूजितस्तेन नानास्तोत्रैः प्रजापते ॥२॥ ताभ्यां पुत्रो भव स्वामिन् वृतस्तवन्नौ वरो महान् । तथेति गणराजस्तौ कथयित्वा ययौ पुरम् ॥३॥ ततः कदाचिद्देवर्षिर्नारदस्त्विन्द्रमाययौ । पूजितः सुरनाथेन जगाद वचनं हितम् ॥४॥ नारद उवाच । हिमवत्यां हिमप्रांते राजा मदसमन्वितः । अभिनन्दन एवाऽसौ यज्ञं करोति दुर्मतिः ॥५॥ ब्राह्मणान् स समानीय प्रोवाच बलगर्वितः । यज्ञमिन्द्रेण हीनं मे कुरुध्वं यत्नसंयुताः ॥६॥ नो चेत् सर्वान् हनिष्यामि क्रोधयुक्तो महर्षयः । तस्य तद्वचनं श्रुत्वा तथेति ब्राह्मणा जगुः ॥७॥ अद्य श्वो वा करिष्यंति यज्ञं भयसमन्विताः । ब्राह्मणा नात्र संदेहो यथेच्छसि तथा कुरु ॥८॥ एवमुक्त्वा महायोगी नारदः प्रययौ ततः । वैकुंठे स महाविष्णुं ततः स्वच्छंदगोऽभवत् ॥९॥ इंद्रः क्रोधसमाविष्टः सस्मार कालरूपिणम् । भगवंतं महाकायमिंद्रं स प्रययौ प्रभुः ॥१०॥ तं प्रणम्य प्रतुष्टाव कथयामास दुःखदम् । वृत्तांतं प्रार्थयामास यज्ञविध्वंसनाय तम् ॥११॥ कालस्तथेति तं तुष्टः कथयित्वा ययौ धराम् । धारयामास मनसि कालः कलयतां प्रभुः ॥१२॥ कालाधीनं जगत् सर्वं सदा कालेन भुज्यते । कालं योगबलेनैव जयंत्यत्र हि योगिनः ॥१३॥ तत्रादौ कर्मसंशुद्धा योगनिष्ठा भवंति च । अतः कर्मविनाशार्थं यतिष्येऽहं विशेषतः ॥१४॥ कर्महीना नराः सर्वे मलिनाः संभवंति च । नेच्छंति योगमार्ग ते भविष्यंति मदात्मकाः ॥१५॥ जन्ममृत्युयुताः सर्वे मदधीना न संशयः । इंद्रेण प्रेरितस्तत्र च्छद्म नैव करोम्यहम् ॥१६॥ विचार्य काल इति स आसुरं रूपमादधे । विघ्नरूपेण तं भूपं ययौ क्रोधसमन्वितः ॥१७॥ यज्ञं बभंज वेगेन ब्राह्मणांस्ताडयन् पुरा । ततो नानास्थले दुष्टो ह्यगमद्विघ्नरूपधृक् ॥१८॥ कर्मखंडनभावेन चचार बलमोहितः । सर्वत्र कर्मलोपाय विघ्नेनापीड्य मानवान् ॥१९॥ ततः सोऽपि महावेगो जनान् कालेन मोहयन् । भ्रामयामास विप्रान् योगिनो नानास्वरूपधृक् ॥२०॥ प्रातःकालं चकाराऽसौ निशीथं सायमादरात् । मध्याह्नं कारयामास नानाभ्रमकरः सदा ॥२१॥ चकार रात्रिरूपं स दिवसं कर्मखंडकः । रात्रिं दिवसरूपां तां वक्तुं नैव प्रशक्यते ॥२२॥ लोकान् भ्रमयुतान् सर्वान् कर्महीनांश्चकार सः । चंद्रमाच्छाद्य कालस्तु सूर्यं नक्षत्राकादिकान् ॥२३॥ ततोऽतिभयसंयुक्ता देवा भ्रांता बभूविरे । कर्महीनप्रभावेण चोपोषणपरायणाः ॥२४॥ न समर्था बभूवुस्ते कालं चलयितुं प्रभुम् । कालाधीनाः सुराः सर्वे सृष्टिस्थितिलयात्मकाः ॥२५॥ ततो वसिष्ठमुख्याश्च ब्रह्माणं
शरणं ययुः । तेन सार्धं च वैकुंठं जग्मुः कालभयान्विताः ॥२६॥ विष्णुना शंकरं जग्मुर्ब्राह्मणा भयसंकुलाः । स्तुत्वा नानाविधैः स्तोत्रैः शशंसुः कालचेष्टितम् ॥२७॥ शिवेन संयुताः सर्वे विघ्नेशं तुष्टुवुः प्रभुम् । तपसा ध्यानयुक्तेन तोषया- मासुरादरात् ॥२८॥ गते वर्षशते काले परमात्मा गजाननः । वरदस्तान् ययौ देवान् बोधयामास तापसान् ॥२९॥ ततस्तैः संस्तुतो देवः प्रार्थितो विघ्ननाशने । तथेति प्रतिपाद्यैव पार्श्वपुत्रो बभूव सः ॥३०॥ दीपवत्सलया युक्तः पार्श्वः परम- योगवित् । पुरा तताप घोरं स तपो विघ्नेश्वरं स्मरन् ॥३१॥ प्रगतेषु स वर्षेषु सहस्रे गणनायकः । प्रसन्नस्तं ययौ तेन पूजितः संस्तुतोऽभवत् ॥३२॥ स वव्रे मे भव स्वामिन् पुत्रः परमतारकः । संसारे पुत्रवात्सल्याद्भजिष्यामि सह स्त्रिया ॥३३॥ मूर्तौ देवस्वभावेन हृदये योगमार्गतः । भजिष्यामि त्रिधा ढुंढे त्वां सर्वत्र विशेषतः ॥३४॥ नानाकर्मपरोऽहं वै तव देव गजानन । पिता जातश्च तेन त्वं तारको मे भविष्यसि ॥३५॥ तथेति विघ्नराजस्तमुवाचांतर्दधे प्रभुः । विघ्नासुरविनाशाय बभूवे देहधारकः ॥३६॥ दीपवत्सलिकायाः स जठरे संगतो विभुः । स्तनपानादिकं सर्वं स चकारा तितोषितः ॥३७॥ पंचवर्षात्मको बालो बभूव मुनिवेश्मनि । तदा देवर्षयः सर्वे तं ययुर्भक्तिसंयुताः ॥३८॥ शंभ्वाद्यान् स सुरान् वीक्ष्य वसिष्ठादिमुनीश्वरान् । पार्श्वः संभ्रमसंयुक्तस्तान् पुपूज यथाविधि ॥३९॥ उवाच प्रेमसंयुक्तो धन्यं मे जन्म कर्म च । येन देवगणाः सर्वे मुनयो गृहमागताः ॥४०॥ आज्ञां कुरुत देवेशा दासोऽहं भवतां द्विजाः । करिष्यामि न संदेहो भवत्स्मृति- बलेन वै ॥४१॥ देवर्षय ऊचुः । तव भाग्यबलेनैव सुतः स्वानंदगोऽभवत् । गजाननः स्वयं सर्वे प्रार्थयामो हिताय तम् ॥४२॥ विघ्नासुरेण दुष्टेन जगद्भ्रष्टं कृतं मुने । तस्य नाशार्थमेवं त्वं कुरु यत्नं महामते ॥४३॥ श्रुत्वा तेषां वचः क्रूरं मुनिः शोकयुतो- ऽभवत् । एतस्मिन्नंतरे तत्र स गजानन आययौ ॥४४॥ तं दृष्ट्वा सहसोत्थाय नेमुः सर्वे सुरेश्वराः । मुनयस्तुष्टुवुर्देवं प्रार्थयामासुरादरात् ॥४५॥ तेषां हृदि स्थितं ज्ञात्वा शस्त्रहस्तश्चतुर्भुजः । मूषकोपरि संस्थो यो ययौ हंतुं महासुरम् ॥४६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते विघ्नासुराश्रमगमनं नाम पंचाशत्तमोऽध्यायः ॥
पान १२६ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । केनाऽपि विघ्नदैत्यस्य स्थानं न ज्ञायते सदा । कालस्य गणनाथस्तु ययौ तस्याऽश्रमं प्रभुः ॥१॥ गुप्तरूपधरं विघ्नमंकुशेन समानयत् । तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे विसिस्मिरे ॥२॥ ततस्तं स महाकालः प्रावमत्य गजाननम् । अंतर्धाय स्वमात्मानमग्निरूपो बभूव ह ॥३॥ त्रैलोक्यसंस्थितं ज्ञात्वा तेजस्तत्त्वसमाश्रितम् । विघ्नं गजाननः क्रुद्धो वायुः संहारकोऽभवत् ॥४॥ ततः कालः स्वयं दक्षोऽभवदाकाशतत्त्वगः । वायुस्थं गणनाथं स कर्षयामास दारुणः ॥५॥ आकाशस्थं महाकालं ज्ञात्वाऽहंकारधारकः । गजाननश्च तं क्रुद्धोऽकर्षयत् प्रलयं प्रभुः ॥६॥ ततो विघ्नो महत्तत्त्वं समाश्रित्य गजाननम् । ताडयामास संक्रुद्धः कालः कलयतां प्रभुः ॥७॥ ततो गजाननः क्रुद्धः प्रधानरूप- धारकः । महत्तत्त्वस्थमेवं तं कर्षयामास दारुणम् ॥८॥ ततोऽभवत् सोऽपि महत्तत्त्वं त्यक्त्वा गुणेशगः । प्रधानं हंतुमारेभे कालः परमदुर्जयः ॥९॥ ततो गजाननः साक्षाद्विंदुब्रह्मस्थितोऽभवत् । चतुष्पादमयीं शक्तिं हंतुं चिक्षेप सोऽंतकम् ॥१०॥ गुणेशाच्च परः कालस्ततः खंडितविक्रमः । कालो मायां चतुष्पादां निरीक्ष्य त्रासितोऽभवत् ॥११॥ शक्तिं दृष्ट्वा महाघोरां कालगर्वहरां पराम् । शरणं गणराजं स ययौ कालः प्रजापते ॥१२॥ समागतं महाविघ्नं देवा मुनिगणास्ततः । विस्मिताश्चा- ऽभवन् सर्वे जयेति गणपं जगुः ॥१३॥ विघ्नासूरः प्रणम्यादौ पुपूज ह गजाननम् । तद् दर्शनजबोधेन तुष्टाव स कृतांजलिः ॥१४॥ विघ्नासुर उवाच । नमस्ते गणनाथाय गजाननस्वरूपिणे । योगाय योगनाथाय योगिभ्यो योगदायिने ॥१५॥ अनाकाराय साकाररूपाय ते नमो नमः । नानाभेदविहीनाय भेदानां पतये नमः ॥१६॥ विघ्नेशाय परेशाय कालभीति- हराय ते । हेरंबाय परेषां वै परात्पर नमो नमः ॥१७॥ अनादये ह्यनाथाय सर्वेषामादिमूर्तये । भक्तेशाय सदा भक्तवाञ्छित- प्रद ते नमः ॥१८॥ स्वानंदवासिने तुभ्यं मूषकध्वजिने नमः । मूषकोपरिसंस्थाय ढुंढिराजाय ते नमः ॥१९॥ आदिमध्यांत- हीनायादिमध्यांतस्वरूपिणे । गजवक्त्राय वै तुभ्यं सर्वपूज्याय ते नमः ॥२०॥ सिद्धिबुद्धिस्वरूपाय सिद्धिबुद्धिप्रदाय च । सिद्धिबुद्धिपते तुभ्यं महोदर नमो नमः ॥२१॥ अमेयमायातिगमूर्तयेऽपि ते सदा सुशांतिप्रदपूर्णमूर्तये । मनोवचो- हीनमयाय तेजसे मनोवचोयुक्तकलाय ते नमः ॥२२॥ अज्ञानदोषेण कृतोऽपराधो हेरंब तं क्षंतुमिहार्हसि त्वम् । रक्षस्व मां भक्तियुतं दयाब्धे श्रेष्ठं वरं देहि परेशपाल ॥२३॥ अधुना हि मया बुद्धं स्वरूपं ते गजानन । योगाकारमयोऽसि त्वं ततोऽहं निर्जितस्त्वया ॥२४॥ त्वां विना कः समर्थः स्यात् कालं कलयतां प्रभुम् । जेतुं धन्यः कृतो नाथ पादपद्मस्य दर्शनात् ॥२५॥
खं. ४ अ. ५१ पान १२७
एवं स्तुत्वा महाविघ्नः प्रणनाम गजाननम् । तमुत्थाप्य जगादेदं वचनं सर्वदः परः ॥२६॥ श्रीगजानन उवाच । त्वया कृतं मदीयं वै स्तोत्रं सर्वप्रदं भवेत् । कालस्य न भयं तेषां पठतां शृण्वतां सदा ॥२७॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । महायोगप्रदं चास्तु स्तोत्रं मत्प्रीतिवर्धनम् ॥२८॥ हंतुं त्वां क्रोधसंयुक्त आगतोऽहं न संशयः । वाञ्छितं वृणु नो हन्मि अधुना शरणार्थिनम् ॥२९॥ महाकाल उवाच । भक्तिं देहि त्वदीयां मे सुदृढां तां गजानन । दासरूपेण मां नाथ रक्षस्व त्वत्समीपगम् ॥३०॥ ब्रह्मेश कार्यं कथय तत् करिष्यामि यंत्रितः । स्थानं भक्ष्ययुतं देहि तत्र तिष्ठामि नित्यशः ॥३१॥ मन्नामपूर्वकं नाम कुरु त्वं ते गजानन । सर्वसिद्धिकरं नाथ पूर्णयोगप्रदं परम् ॥३२॥ जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् । निर्विकल्पं मनस्तस्य ज्ञात्वा भक्तप्रपालकः ॥३३॥ श्रीगजानन उवाच । मदीया भक्तिरचला भविष्यति तवाऽनघ । यद्यदिच्छसि तत्तत्ते सफलं चास्तु सर्वदा ॥३४॥ मत् समीपे गणो भूत्वा तिष्ठ त्वं बलसंयुतः । महाविघ्नस्वरूपेण नानाविघ्नगणैर्वृतः ॥३५॥ विघ्नराजेति मन्नाम भविष्यति सुसिद्धिदम् । ब्रह्मभूयकरं पूर्णं वाञ्छितार्थप्रदायकम् ॥३६॥ यत्र मे स्मरणं नास्ति कर्मादौ पूजनं तथा । तत् सर्वं भुंक्ष्व विघ्न त्वं अंशयित्वा सुरेंद्रकान् ॥३७॥ शिवविष्णुमुखा देवा अन्ये मुनिमुखा नराः । शेषाद्या नागराजास्ते नानाजंतव एव च ॥३८॥ अहंकोरेण संयुक्ता भवंति यदि तेऽसुर । तदा तान् अंशयित्वा त्वं भुंक्ष्व भोगान् यथेप्सितान् ॥३९॥ मद्भक्तिकारिणः सर्वे त्वया पाल्या विशेषतः । तेषां निर्विघ्नभावेन पुरो भावपरो भव ॥४०॥ एवमुक्त्वांतर्दधेऽसौ गजाननः प्रतापवान् । विघ्नो विघ्नैः समायुक्तः शांतरूपो बभूव ह ॥४१॥ देवा मुनिमुखाः सर्वे स्वस्वस्थानं ययुस्ततः । सपत्नीकस्तत्र पार्श्वो मूर्च्छितोऽभूत् प्रजापते ॥४२॥ तयोर्हृदि गणाधीशः प्रकटो- ऽभूद्वचोऽब्रवीत् । मां चिंतामणिरूपं ते पश्य तात हृदि स्थितम् ॥४३॥ मूतौं पूजनमात्रेण हृदि ध्यानेन मानदौ । संतुष्टौ जनकौ नित्यं संशयो न भविष्यथः ॥४४॥ यदा मे स्मरणं तातौ महाकार्ये करिष्यथः । द्रक्ष्यथो मां न संदेहो योगशांतौ भविष्यथः ॥४५॥ एवमुक्त्वांतर्दधे सोऽपि गणेशो हृदि रूपधृक् । तौ स्वस्थौ मूर्तिमास्थाप्य निरंतरमपूजताम् ॥४६॥ इति ते गणराजस्य कथितं चरितं महत् । अंशा गजाननस्यैते अवतारा विधे स्मृताः ॥४७॥ वरेण्यपुत्रभावेन बभूव ह गजाननः । कस्मिन् काले वधार्थाय सिंदूरस्य न संशयः ॥४८॥ कल्पभेदानुसारेण नानारूपधरः प्रभुः । गजाननो ह्यभूच्चूर्णयितुं वापि
ग. पु. १७
खं. ४ अ. ५२ | पान १२८ न शक्यते ॥४९॥ इत्याद्या बहवो भेदा गजाननस्य सिद्धिदाः । तांश्च ज्ञातुं कोऽर्हति वर्णयितुं वा प्रजापते ॥५०॥ संक्षेपेण मया तुभ्यं कथितं पापनाशनम् । चरितं विघ्नराजस्य मुक्तिमुक्तिफलप्रदम् ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते विघ्नराजावतारवर्णनं नामैकपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गजाननस्य क्षेत्रं मे वद कुत्र प्रतिष्ठितम् । माहात्म्यं तस्य विप्रेश संक्षेपेण सुसिद्धिदम् ॥१॥ मुद्गल उवाच । दिशांते नैर्ऋते कोणे देवैर्मुनिभिरादरात् । स्थापितो गणनायश्च गजवक्त्रावतारधृक् ॥२॥ द्वीपेषु स्वस्वखंडेषु विभुर्नैर्ऋतकोणगः । पूज्यते मानवैः सर्वैर्देवैश्च मुनिभिस्तथा ॥३॥ भाद्रशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः । मध्याह्नसमये दक्ष पुरा सोत्सववर्धिनी ॥४॥ तस्यां यात्रां प्रकुर्वंति जना भक्तिपरायणाः । त्रिलोकस्था विशेषेण नानासिद्धिप्रवृद्धये ॥५॥ दशयोजनविस्तारो विभुः क्षेत्रस्य मध्यगः । मूषकश्चतुरस्रस्य पुरतस्तिष्ठति प्रभोः ॥६॥ सिद्धिस्तस्याऽपि वामांगे दक्षिणांगे च बुद्धिका । अष्टदिक्षु प्रजानाथ सिद्धयोऽष्टौ व्यवस्थिताः ॥७॥ अष्टमातृगणः पश्चात्ततोऽष्टौ भैरवा मताः । दशदिक्षु च दिक्पालाः सशस्त्राः संस्थिताः प्रभोः ॥८॥ शिवविष्णुमुखा देवा वामांगे संस्थिता विभोः । काश्यादिमुख्यक्षेत्राणि गंगाद्याश्च तथोत्तरे ॥९॥ मुनयः शेषकाद्याश्च पृष्ठभागे व्यवस्थिताः । भक्ता मुद्गलमुख्याश्च पुरतः संस्तुवंति तम् ॥१०॥ त्रिलोकेषु च ये मुख्यास्ते सर्वे तत्र संस्थिताः । अंशेन देवसेवार्थं स्वाधिकारेषु मानद ॥११॥ तीर्थेषु स्नानकर्त्तारः समुद्रे भक्तिसंयुताः । स्वस्वनाम्नांकितेष्वेव स्वल्पदेहधरा अपि ॥१२॥ परस्परं बोधयंतो गजाननचरित्रकम् । नृत्यंति ते हसंत्येव देवचेष्टापरायणाः ॥१३॥ गणेशतीर्थं वै तत्र गजाननसुसिद्धिदम् । तत्र स्नानं प्रकुर्वंति ये नरास्ते प्रजापते ॥१४॥ कृतकृत्या न संदेहो मनेप्सितफलप्रदे । तत्र यात्रां प्रकुर्वंति चतुर्विधफलप्रदाम् ॥१५॥ धन्यास्ते पुरुषा लोके कृतकृत्या भवंति वै । वसंति ये यत्र कुत्र गजाननपरायणाः ॥१६॥ ब्रह्मभूताश्च ते प्रोक्ता दर्शनात् पापनाशनाः । अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवंति चेत् ॥१७॥ ते तस्य लोकमासाद्य भोगान् भुंजंति शाश्वतान् । तदंते गणनांथं वै गच्छंति ब्रह्मसिद्धये ॥१८॥ तत्र सिद्धिं गता नाना नरा नार्यश्च भो विधे । तेषां चरित्रकं
खं. ४ अ. ५२ पान १२९ पूर्णं मया वक्तुं न शक्यते ॥१९॥ यात्रामात्रेण तत्रैव चतुर्विधफलं लभेत् । मरणे ब्रह्मभूतश्च नरो भवति निश्चितम् ॥२०॥ संक्षेपेण मया तुभ्यं कथितं क्षेत्रगं महत् । माहात्म्यं विस्तरेणैव कोऽपि नार्हति निश्चितम् ॥२१॥ इदं गजाननस्यापि चरितं सर्वसिद्धिदम् । भविष्यति महाभाग सर्वसौख्यकरं तथा ॥२२॥ नानाख्यानसमायुक्तं कथितं ते प्रजापते । यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम् ॥ भविष्यति महाभाग सर्वसौख्यकरं तथा ॥२३॥ नानेन सदृशं किंचित् पावनं ब्रह्मदायकम् । विद्यते सर्वशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥२४॥ स्वर्णभारसहस्राणि नित्यं यो वै ददाति चेत् । तदस्य श्रवणान् मर्त्यो लभते नात्र संशयः ॥२५॥ गोदानानि नरो यस्तु ददाति भक्तिसंयुक्तः । नित्यं सहस्रशो दक्ष फलं प्राप्नोति शाश्वतम् ॥२६॥ नानादानानि यो दद्याद्ब्राह्मणेभ्यो यथाविधि । तेषां पुण्यफलं भुक्त्वा पतति मानवो भुवि ॥२७॥ अस्य श्रवणमात्रेण भुक्त्वा भोगान् मनेप्सितान् । अंते स्वानंदगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥२८॥ नानायज्ञादिकं कर्म कुरुते मानवः सदा । नास्य श्रवणमात्रेण कलांशमपि तत् फलम् ॥२९॥ जन्ममृत्युप्रदान्येव कर्माणि सकलानि च । इदं सर्वप्रदं प्रोक्तमंते ब्रह्मप्रदायकम् ॥३०॥ संक्षेपेण प्रजानाथ कथितं सुखदं परम् । गजाननस्य माहात्म्यं किं भूयः श्रोतुमिच्छसि ॥३१॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । श्रुत्वा दक्षोऽपि संहृष्टो बभूव मुनिसत्तम ॥३२॥ मयाऽपि कथितं सर्वं माहात्म्यं पूर्णसिद्धिदम् । तुभ्यं विप्रर्षियुक्ताय यथा मुद्गलभाषितम् ॥३३॥ धन्योऽहं कृतकृत्योऽहं भवतां संगमेन वै । गणेशामृतधारायां प्रवृत्तः सर्वभावतः ॥३४॥ गणेशान्न परं किंचित् सर्वादौ तेन स स्मृतः । सर्वपूज्यश्च विप्रर्षे ब्रह्मेशो ब्रह्मदः परः ॥३५॥ श्रुतं त्वया महाभाग ब्राह्मणैः शास्त्रकोविदैः । अधुना किं च ते विप्र इच्छा श्रोतुं वदस्व ताम् ॥३६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चरित्रमाहात्म्यवर्णनं नाम द्विपंचाशत्तमोऽध्यायः ॥ ॥ इति चतुर्थः खंडः समाप्तः ॥
॥ इति श्रीमुद्गलपुराणे चतुर्थः खंडः समाप्तः ॥
॥ अथ श्रीमुद्गलपुराणे पंचमः खंडः प्रारभ्यते ॥
खं. ५ अ. १ | पान १
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । श्रुतं मया महाख्यानं गजाननकथाश्रितम् । सर्वसौख्यकरं तात ब्रह्मभूतपदप्रदम् ॥१॥ तथा तृप्तिं न याम्येव पीत्वा ब्रह्मामृतं परम् । गुणज्ञो गणराजस्य कस्तं मुंचति मानद ॥२॥ धन्या वयं महाभाग त्वदासंग- समाश्रयात् । यत्र योगप्रदा गाथा वर्तते त्वन्मुखे द्विज ॥३॥ लंबोदरस्य माहात्म्यमधुना वद सर्वदम् । कीदृशोऽयं गणेशानः कीदृशं ब्रह्म तस्य च ॥४॥ कति तस्यावताराश्च किंकर्मा सोऽपि विघ्नपः । किमर्थमागतो भूमौ तत् सर्वं वद विस्तरात् ॥५॥ सूत उवाच । एवं दक्षेण संश्रुत्य गजाननचरित्रकम् । पृष्टो योगींद्रमुख्यश्च गाणपत्योऽथ मुद्गलः ॥६॥ दक्ष उवाच । गजाननस्य माहात्म्यं श्रुत्वा संक्षेपतः परम् । न तृप्तोऽहं महाभाग पायं पायं सुधामिव ॥७॥ अतो लंबोदरस्य त्वं चरित्रं वद विस्तरात् । सर्वसिद्धिप्रदं पूर्णं श्रवणात् पठनान्नृणाम् ॥८॥ गणेशस्य कथां योगिन् शृण्वंति च पठंति ये । श्रावयंति प्रपृच्छंति चत्वारः पुण्यभागिनः ॥९॥ धन्या ये पुरुषा लोके सादरा मुनिसत्तम । कथायां कृतकृत्यास्ते योगिनो योगभूषणाः ॥१०॥ सूत उवाच । एवं तस्यादरं दृष्ट्वा हर्षितो मुद्गलो मुनिः । जगाद तं महाभागं प्राजापत्येंद्रमादरात् ॥११॥ मुद्गल उवाच । साक्षाद्ब्रह्मसुतस्त्वं च ब्रह्मतुल्यो न संशयः । तत्र किं गणनाथे वै चित्रं रसयुतः प्रभो ॥१२॥ येषां मुखारविंदेषु गणेशस्मरणं भवेत् । इच्छामि तेषां दासत्वं नित्यं दक्ष प्रजापते ॥१३॥ अधुना शृणु वक्ष्यामि संक्षेपेण चरित्रकम् । लंबोदरस्य विस्तारे कः समर्थो भवेत् प्रभो ॥१४॥ संवादं पूर्णसंभूतमसितस्य महात्मनः । नैध्रुवस्याऽत्र वक्ष्यामि सर्वसिद्धिप्रदायकम् ॥१५॥ प्रणम्य मुनिशार्दूलो नैध्रुवो वत्सरं वनम् । ययौ तपःप्रसिद्ध्यर्थं महाभागो महामुनिम् ॥१६॥ स तताप तपो घोरं दिव्यवर्षसहस्रकम् । तपसा तस्य देवेंद्रो भीताश्च प्रबभूविरे ॥१७॥ किमयं तपसा साध्यं कर्तुमिच्छति वाडवः । न तुल्यं तपसोऽस्यात्र ब्रह्मांड किं भविष्यति ॥१८॥ ततस्तस्याऽऽश्रमेऽकस्मादसितोऽभवदागतः । पितृव्यं मुनिरुत्थाय प्रणनाम कृतांजलिः ॥१९॥ पुपूज भक्तिसंयुक्तः कृतांजलिपुटः स्थितः । तस्याऽऽज्ञया विनीतः स आसने संस्थितोऽभवत् ॥२०॥ तमुवाच महायोगी सोऽसितो हितकारकम् । वचो भावेन संतुष्टो भ्रातृपुत्रं तपोधनम् ॥२१॥ असित उवाच । देहं किं तपसा पुत्राऽतिशोषयसि तापस । देहशोषणरूपं यत्तपो मुख्यं न शाश्वतः ॥२२॥ अतो देहश्रमं त्यक्त्वा तपो मुख्यं समाचर । येन त्वं ब्राह्मणो भूत्वाऽन्ते ब्रह्मणि गमिष्यसि ॥२३॥ मुद्गल उवाच । असितस्य वचः श्रुत्वा नैध्रुवो भक्तिसंयुतः । पुनः प्रपच्छ योगींद्रं संशयेन समन्वितः ॥२४॥ नैध्रुव उवाच । कृच्छ्रचांद्रादिधर्मेण यथाविधि कृतं मुने । तपो ब्रुवंति सर्वज्ञास्तन्न मुख्यं
खं ५ अ. १ पान २ किमप्यहो ॥२५॥ असित उवाच । तपश्च त्रिविधं प्रोक्तं तापदं नात्र संशयः । तच्छृणुष्व विधानेन योगिवंद्यो भविष्यसि ॥२६॥ कृच्छ्रचांद्रायणादीनि तपांसि प्रवदंति च । पंचाग्निसोधनादीनि वायुभक्षात्मकानि च ॥२७॥ इत्यादिभेदा बहवस्तपसो विविधस्य च । तदेव बाह्यभावस्थं पुत्र जानीहि निश्चितम् ॥२८॥ इहामुत्रप्रदं तात तपः फलमयं स्मृतम् । फलं भुक्त्वा पुनः सोऽपि दीनरूपो भवेत् किल ॥२९॥ अन्यच्छृणु महाभाग तपः परमदुश्चरम् । वायुरोधात्मकं देहे प्राणायामेन जायते ॥३०॥ तत्र प्राणस्य संतापो जायते नात्र संशयः । देहस्यापि तथा पुत्र तपस्तेन तदुच्यते ॥३१॥ षट्चक्रभेदने दक्षर्मतर्ध्यान- परायणः । सहस्रारे गतं वायुं रोधयेत्तत्र लालसः ॥३२॥ तपःप्रभावेन तेन क्षुद्रसिद्धियुतो नरः । भवति ज्ञानमार्गज्ञ- स्त्रिकालज्ञानसंयुतः ॥३३॥ दूरश्रवणसामीप्यं कुरुते कामगां गतिम् । जले स्थलं स्थले तोयमाकाशे नगरादिकम् ॥३४॥ अहताज्ञश्च सर्वत्र भवते परमद्युतिः । अपरायुः समायुक्तो ब्रह्माद्यांश्चालयत्यपि ॥३५॥ एककल्पस्य सर्वेषां वृत्तांतं कथयत्यपि । जानाति स तपो योगादंतर्ध्यानपरायणः ॥३६॥ सोऽपि गत्वा विधेर्लोकं भुनक्ति विविधं सुखम् । पुण्यांते पुनरत्रैव दीनो भवति निश्चितम् ॥३७॥ तृतीयं त्वं तपोरूपं शृणु मत्तो सुयोगदम् । द्विविधं च तपो येन साधितं गुरुमार्गतः ॥३८॥ तेनैकाग्रमयं चित्तं भवत्यत्र न संशयः । सर्वत्रात्मस्वरूपं स पश्यति ज्ञानचक्षुषा ॥३९॥ तत्रानुभवमात्रेण शमदम- परायणः । भवते तेन संतापो देहे मनसि जायते ॥४०॥ विषयान्निंदयन् सोऽपि जडोन्मत्तपिशाचवत् । चरति सर्वभावज्ञ आत्मनिष्ठतया सुत ॥४१॥ ततो निरोधयोगेन निवृत्तिषु परायणः । चित्तं संरुध्य सर्वत्र निवृत्तिं लभते स्वयम् ॥४२॥ अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भयं भवेत् । न जगज्जगदात्मा वै मनो वाणीविहीनकः ॥४३॥ स्वत उत्थानभावो नोत्थानं परत एव न । न स्वतः परतस्तत्र उत्थानं वर्जितं भवेत् ॥४४॥ एवं निरोधयोगेन शमी दमपरायणः । संतोषेण स्वयं योगी वर्तते नित्यदा सुत ॥४५॥ तत्र संतोषभावेन स्थितस्य देहचेतसोः । संतापो जायते नित्यं तदेव तप उच्यते ॥४६॥ ततो निरोधभूमिं स त्यक्त्वा शांतिपरायणः । त्यक्त्वा पंचविधं चित्तमेवं ब्रह्मैव जायते ॥४७॥ ततो विधिनिषेधाभ्यां हीनो योगधरः स्वयम् । रसहीनश्चरत्यूत्र प्रारब्धानुभवेन सः ॥४८॥ यथा जलानि सर्वत्र सुत गच्छंति सागरे । यहच्छया तथा सोऽपि भोक्ता भोगेन नित्यदा ॥४९॥ तत्रांतरे शरीरेऽस्य तापः संजायते सदा । शांत्या भोगपरत्वेन तदेव
[खं. ५ अ. २ पान ३]
तप उच्यते ॥५०॥ एतद्योगात्मकं सुज्ञ तपस्ते कथितं मया । तृतीयं ब्रह्मदं पूर्णं तदर्थं यत्नमाचर ॥५१॥ तपोधना महाभागा योगिनस्तत्परायणाः । ब्राह्मणास्तपसा युक्ता ब्रह्मभूता भवंति ते ॥५२॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते असितनैध्रुवसंवादे त्रिविधतपोवर्णनं नाम प्रथमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । असितस्य वचः श्रुत्वा नैध्रुवो विस्मितोऽभवत् । प्रणम्य तं महाभागं जगाद विनयान्वितः ॥१॥ नैध्रुव उवाच । स्वामिन् वद महायोगं योगदं साधनं परम् । तदर्थं कस्य भक्तिर्मे कर्तव्या योगिसत्तम ॥२॥ असित उवाच । शृणु पुत्र प्रवक्ष्यामि लंबोदरकथानकम् । तेन सर्वं महायोगं लभसे नात्र संशयः ॥३॥ एकदाऽहं तथा पुत्र वत्सरस्ते पिता पुरा । तपसा शुद्धभावेन भवावः स्म च निर्मलौ ॥४॥ ततो योगस्य प्राप्त्यर्थं यत्नवंतौ सुसंस्थितौ । अंतर्ज्ञानसमायुक्तौ जडोन्मत्तादिसुप्रियौ ॥५॥ एकाग्रं साधयित्वा वै निरोधे संस्थितौ तथा । सहजावस्थया युक्तौ सुखयुक्तौ भवावहे ॥६॥ तत्रैव मोहहीनत्वं दृष्ट्वा परमविस्मितौ । शांतिहीनौ ततो जातौ गतौ च ब्रह्मणोऽंतिकम् ॥७॥ तत्र स्पर्धा- समायुक्तौ विश्वामित्रवसिष्ठकौ । समायातौ प्रणम्यैनं प्रतिष्ठंतौ मदान्वितौ ॥८॥ क्रोधयुक्तौ विधातारं प्रपृच्छंतौ विशेषतः । कोऽधिको वद धातस्त्वं तपसा योगसेवया ॥९॥ तच्छ्रुत्वा तौ जगादाऽथ ब्रह्मा सर्वपितामहः । येन क्रोधो जितो नूनं तं जानाम्यधिकं मुनिम् ॥१०॥ युवां क्रोधयुतौ पूर्णौ तत्र किं विद्यते तपः । सर्वत्र शांतिदं योगं तं यो जयति सोऽधिकः ॥११॥ ततः प्रणम्य विश्वेशं वदतः स्म तपोधनौ । विनयेन समायुक्तौ तपस्पर्धापरायणौ ॥१२॥ वसिष्ठविश्वामित्रावूचतुः । कीदृशोऽयं प्रजानाथ क्रोधः सर्वभयंकरः । कुत्र तिष्ठति देवेश किंरूपः किंस्वभाववान् ॥१३॥ जयंति केन योगेन तं दुष्टं योगिनः प्रभो । सर्वं वद विभो तस्य तं जेष्यावो न संशयः ॥१४॥ ब्रह्मोवाच । अत्राऽहं कथयिष्यामीतिहासम् सर्वसिद्धिदम् । तेन क्रोधं च कामं चाभिमानं जयति प्रभुः ॥१५॥ शकुनेरभवत् पुत्रः शुक्रं भस्मासुरोऽतपत् । उपसंगम्य संगृह्य विद्यां पंचाक्षरीं पुरा ॥१६॥ दीक्षां गृह्य महादेवमुपासनविधानतः । साधयामास भावेन भस्मोद्धूलितविग्रहः ॥१७॥ सहस्रे प्रगतेष्वेव प्रसुवर्षेषु शंकरः । तं ययौ वरदानार्थं सर्वदेवसमावृतः ॥१८॥ आगतं शंकरं दृष्ट्वा उत्थाय
पान ४ प्रणिपत्य तम् । पूजयित्वा प्रतुष्टाव स्तोत्रैः शैवैर्महासुरः ॥१९॥ जगाद शंकरो दैत्यं संतुष्टो भक्तमुत्तमम् । वरं वरय दास्येऽहं भक्त्या ते तपसाऽसुर ॥२०॥ भस्मासुर उवाच । यस्य शंभो महेशान मस्तकेऽहं धरामि सः । हस्तं सद्यो मृतो भूत्वा ततो भवतु भस्मसात् ॥२१॥ अन्येभ्यः सर्वभूतेभ्यो न भयं मे कदाचन । भवेत् सर्वातिगा शक्तिस्तथा कुरु महेश्वर ॥२२॥ तच्छ्रुत्वा विस्मितः शंभुस्तं जगाद महासुरम् । सर्वं च ते महादैत्य भविष्यति मदाज्ञया ॥२३॥ हस्तस्ते यस्य शिरसि दक्षिणः संपतिष्यति । स वै भस्ममयः सद्यो भविष्यति न संशयः ॥२४॥ ततः शिवो ययौ स्थानं कैलासं गणसंवृतः । दैत्यस्तत्रैव तिष्ठन् स विचारमकरोत् स्वयम् ॥२५॥ अहो शिवस्य वामांगे संस्थिता जगदंबिका । रूपलावण्य- संयुक्ता रत्नभूताऽतिसुंदरी ॥२६॥ एतादृशी मया कुत्र दृष्टा नैव सुरूपिणी । नग्नः शंभुरयं तस्याऽयोग्यो नैव भवेद्रतौ ॥२७॥ अतोऽहं यत्नमास्थाय वरदानप्रभावतः । शंभुं भस्ममयं कृत्वा ग्रहीष्यामि च पार्वतीम् ॥२८॥ एवं विचार्य दैत्येंद्र आययौ शंकरांतिकम् । कैलासे गिरिवर्ये स वेगमास्थाय दारुणः ॥२९॥ दक्षिणं हस्तमूर्ध्वं स कृत्वा शंकरसन्निधौ । आययौ तं विलोक्यैव पपाल गिरिजापतिः ॥३०॥ नमस्कारादिचिह्नैश्च हीनं दृष्ट्वा स्वसन्निधौ । असुरं भावसंयुक्तं भयभीतः समंततः ॥३१॥ ततः सोऽपि महादैत्यः क्रोधयुक्तो विशेषतः । धावयित्वा तमनु वै ग्रहीतुं प्रोद्यतोऽभवत् ॥३२॥ ततो- ऽतिवेगमास्थाय शिवो भीत्या पलायत । अधावत् पृष्ठमास्थाय तं भस्मासुर एव च ॥३३॥ पलंतं शंकरं तत्र ददर्श कमलापतिः । सस्मार गणपं चित्ते किं भविष्यति विह्वलः ॥३४॥ सोऽपि तुष्टाव चाथर्वशिरसा विघ्नायकम् । विष्णुः परमशोकार्तो महादेवस्य कारणात् ॥३५॥ शिवश्च भयसंयुक्तो गणेशं स्वयमस्तवीत् । महासंकटनाशार्थं शरणागतवत्सलम् ॥३६॥ शिव उवाच । किं पश्यसे नाथ विनायकस्त्वं दैत्येन सर्वत्र च मां सुत्रासितम् । दक्षं भुजं मस्तकगं गणेश कृत्वा स मां भस्ममयं करिष्यति ॥३७॥ नानाजनैः सेवितपादपद्म किं विस्मृतो मां भयभंगकारिन् । चिंतामणे चित्तनिवासक त्वं संरक्ष विघ्नेश दयाघनात्र ॥३८॥ त्वदन्यदेवं शरणं गजास्य प्रभुं समर्थं न च यामि नाथ । न कोऽपि हेरंब महानुभाव क्षमो हि मां रक्षितुमीश्वरः कः ॥३९॥ लंबोदरामोघ सुचिंतनं ते स्वानंदवासिंश्च महोदरस्य । रक्षस्व मां मृत्युमुपागतं त्वं त्वत्पादनिष्ठं भयभंजनाशु ॥४०॥ किं सिद्धिबुद्धिप्रविहारकेण सक्तः प्रजातोऽसि विनायक त्वम् । भक्तानुकंपीति तवैव नाम वेदे कथं संकथितं महात्मन् ॥४१॥ किं लक्षलाभप्रभवार्थमेवं संसक्तभावैरसि विस्मरंश्च । मां रक्ष नो चेन्निगमस्य देव
खं. ५ अ. ३ | पान ५ व्यर्थं यशः संभविता परात्मन् ॥४२॥ यथा दिनेशः समकालयुक्तः प्रकाशदाता भवतीति नित्यम् । तथा हि ते भक्त- जनानापारान् क्षमोऽसि तान् रक्षितुमंतरं किम् ॥४३॥ किं योगरूपातिविलंबनेन रक्षस्व भीतं मरणे सुसंस्थम् । हेरंब विघ्नेश विनायकाशु रक्षस्व रक्षस्व महेशपुत्र ॥४४॥ एवं स्तुवति शंभौ स विष्णोर्हृदि गजाननः । प्रविश्य बुद्धिसंदाता बभूवे भक्तवत्सलः ॥४५॥ धृत्वा स्त्रीवेषकं विष्णुर्ययौ तं भस्मकारकम् । महासुरो मुमोहाऽसौ तां दृष्ट्वा मोहिनीं स्त्रियम् ॥४६॥ तां समागत्य पप्रच्छ दैत्येंद्रो मोहसंयुतः । कुत्र गच्छसि सुश्रोणि किं ते कार्यमुपस्थितम् ॥४७॥ वद मां तत् करिष्यामि त्वद्दासोऽहं न संशयः । अहं सर्वेश्वरोऽत्रैव न समो मे प्रविद्यते ॥४८॥ भज मां भावसंयुक्ता भजंतं ते च दासकम् । त्वदधीनो भविष्यामि सदा वरांगने मतम् ॥४९॥ तस्य तद्वचनं श्रुत्वा स्मित्वा सा तं जगाद ह । अहं मोहप्रदा नारी मोहिन्यत्र समागता ॥५०॥ मदाज्ञया दैत्य यदि वर्तसे त्वं निरंतरम् । तदा ते गृहगा भूत्वा तिष्ठाम्यत्र न संशयः ॥५१॥ तथेति दैत्यराजस्तां जगाद साऽब्रवीत् पुनः । नृत्यं कुरु मदग्रे त्वं यथा नृत्यामि वै अहम् ॥५२॥ तथेति प्रतिपाद्यैव सा ननर्त कलान्विता । तथा दैत्याधिपस्तत्र ननर्त काममोहितः ॥५३॥ तया दक्षिणहस्तश्च स्थापितः शिरसि स्वके । तथा सोऽपि चकाराशु भ्रांतो विघ्नेशमायया ॥५४॥ भस्मसादभवद्दैत्यो भस्मासुरश्च तत्क्षणात् । ततः सा विस्मिता भूत्वा तुष्टाव गणनायकम् ॥५५॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते भस्मासुरवधो नाम द्वितीयोऽध्यायः ॥
❖ ❖ ❖
॥ श्रीगणेशाय नमः॥ ब्रह्मोवाच । गाणेशैः स्तोत्रमुख्यैः संतुष्टाव विष्टरश्रवाः। गणेशं सिद्धिदं पूर्णं भक्तेभ्यो भक्तवत्सलम् ॥१॥ ततः स मोहिनीरुपमभूत् त्यक्तुं समुद्यतः । एतस्मिन्नंतरे तत्राऽमरैः संबोधितः शिवः ॥२॥ ज्ञात्वा भस्मासुरं शंभुमॄतं विस्मितमानसः । ननर्त भक्तिसंयुक्तो जय विघ्नेश उच्चरन् ॥३॥ ततः सर्वैः समायुक्तो मुकुंदकपुरं ययौ । तत्र नारीस्वरूपस्थमदर्शत् केशवं शिवः ॥४॥ महामोहप्रदं रूपं दृष्ट्वा विष्णोः सुविस्मितः । तदज्ञानो महादेवस्तां ययौ काम- विह्वलः ॥५॥ तं दृष्ट्वा मोहितं विष्णुः पपाल स्त्रीस्वरूपधृक् । तामन्वधावद्देवेशः शंकरो विह्वलो भृशम् ॥६॥ ततस्तत्याज
खं. ५ अ. ३ | पान ६
तद्रूपं विष्णुः स पुरुषोऽभवत् । शिवः खिन्नश्च तत्रैव स्खलितोऽभूत् सुविह्वलः ॥७॥ ततः सर्वे ययुर्देवाः स्वस्वस्थानं मुदा युताः । स्तुत्वा विष्णुं महाभागं शिवः स्वस्थानगोऽभवत् ॥८॥ शिवस्य वीर्यसंपातात्तद्वीर्यप्रभवोऽसुरः । बभूव श्यामवर्णश्च ताम्रचक्षुः प्रतापवान् ॥९॥ स शुक्रमुपसंगम्योवाच तं विनयान्वितः । प्रणम्य तेजसा युक्तः शिष्यं पालय मां मुने ॥१०॥ ततो ध्यानेन स ज्ञात्वा तस्य सर्वं महामुनिः । पुनस्तं प्रजगादैव वचनं हर्षयन्नरम् ॥११॥ शुक्र उवाच । मोहिनीं शंकरो दृष्ट्वा कामबाणप्रपीडितः । पश्चाद्विष्णुं समालोक्य स्वचित्ते क्रोधमादधे ॥१२॥ मनो मे चंचलं पूर्णं तद् ग्रहीष्यामि यत्नतः । मनोग्रहणरूपश्च क्रोधस्तत्र प्रवर्तते ॥१३॥ तस्मिन् काले च वीर्यस्य स्खलनं सहसाऽभवत् । तस्माज्जातोऽसि तेन त्वं क्रोधनामा भविष्यसि ॥१४॥ ततो दानवमुख्यैः स कारयामास विप्रप । मौंज्यंतसर्वसंस्कारान् यथाविधि स शास्त्रवित् ॥१५॥ क्रोधो वेदादिकं सर्वमभ्यस्य गुरुसन्निधौ । शंबरस्य सुतां तुल्यामुपयेमे महासुरः ॥१६॥ प्रीतिनाम्नीं महारूपां सर्वावयव- शालिनीम् । रूपलावण्यसंयुक्तां विषयानां प्रवर्द्धिनीम् ॥१७॥ ततः शुक्रं समागम्य जगाद प्रणिपत्य तम् । कृतांजलिर्महातेजा दैत्येभ्यः सुखदं वचः ॥१८॥ क्रोधासुर उवाच । ब्रह्मांडविजयं स्वामिन् करिष्यामि त्वदाज्ञया । मंत्रं देहि तदर्थं मे सर्व यशोविवर्धनम् ॥१९॥ ब्रह्मोवाच । तस्य तद्वचनं श्रुत्वा काव्यः सर्वज्ञसत्तमः । दैत्यानां प्रहितार्थाय ददौ तस्मै महामनुम् ॥२०॥ सूर्यस्य विधियुक्तं प्रणम्य संगृह्य तं ययौ । वनं व्याघ्रादिसंकीर्णं तपसे कृतनिश्चयः ॥२१॥ एकपादेन तिष्ठन् समजपन् मंत्रमुत्तमम् । चित्ते ध्यायन्नर्कमाणमूर्ध्वदृष्टिर्महासुरः ॥२२॥ निराहारेण देवेशं तोषयामास यत्नतः । शीतोष्णादिभयं त्यक्त्वा काष्ठवत् संस्थितोऽभवत् ॥२३॥ दिव्यवर्षसहस्रेण तुष्टो भानुस्तमाययौ । वरं दातुं महादैत्यमुवाच घननिःस्वनः ॥२४॥ रविरुवाच । वरान् वृणु महाभाग क्रोधाऽहं ते ददामि तान् । संतुष्टस्तपसोग्रेणेप्सितान् हृदि महामते ॥२५॥ श्रुत्वा रवेर्वचो दैत्यो दृष्ट्वा तं पुरतः स्थितम् । प्रणाम महाभक्त्याऽपूजयत्तेजसां निधिम् ॥२६॥ पुनः प्रणम्य तुष्टाव कृतांजलि- पुटोऽसुरः । सौरसूक्तेन देवेशं पुनः संनत आदरात् ॥२७॥ तमुवाचार्यमा दैत्यं वरं वृणु महामते । यं यमिच्छसि तं तं ते दास्याम्यत्र न संशयः ॥२८॥ क्रोधासुर उवाच । उत्पत्तिस्थितिसंहारयुक्ता ये देवनायकाः । तेभ्यो मे मरणं भानो न भवेद्वै कदाचन ॥२९॥ ब्रह्मांडजयने शक्तं मां कुरुष्व विशेषतः । राज्यं चराचरस्यैव देहि मेऽदितिनंदन ॥३०॥ आरोग्यं मनसा यद्यचिंतितं सफलं भवेत् । न मे समो भवेत् कुत्र तथा कुरु दिवस्पते ॥३१॥ श्रुत्वा तस्य वचो रम्यं सर्वेभ्यो भयदायकम् ।
खं. ५ अ. ४ पान ७
विस्मितस्तेजसां नाथस्तं जगाद सुयंत्रितः ॥३२॥ भानुरुवाच । क्रोध त्वया च यत् प्रोक्तं तदेव सफलं भवेत् । तपसा यंत्रिता दैत्य तस्माद्दत्तं मया परम् ॥३३॥ एवमुक्त्वाऽर्यमा लोकमगमद्दुःखसंयुतः । क्रोधो हर्षसमाविष्टः प्रययौ स्वगृहं ततः ॥३४॥ सुहृदो नंदयामासासुरान् सर्वान् महायशाः । काव्यं प्रणम्य स्वस्थाने संस्थितोऽभून् मदान्वितः ॥३५॥ हर्षः शोकश्च पुत्रौ द्वौ प्रीत्यामुत्पाद्य दैत्यपः । नानाभोगान् प्रभुंजानो गर्वितोऽभूत्ततः परम् ॥३६॥ शुक्रं सकलनीतिज्ञं समानाय्य प्रपूज्य तम् । तस्यानुमतमागृह्य नगरं निर्ममेऽसुरः ॥३७॥ आवेशानामकं रम्यं सर्वशोभासमन्वितम् । तत्राजग्मुश्च विप्रर्षे दानवा दैत्यराक्षसाः ॥३८॥ चातुर्वर्ण्यसमायुक्ता निवासं चक्रिरे पुरा । जना हर्षयुतास्तत्र मुमुदुः ससुहृद्गणाः ॥३९॥ ततः काव्यः समागत्य क्रोधं चकार विप्रपैः । अभिषिक्तं स सर्वेषां दानवानां पदे प्रभुम् ॥४०॥ ततः क्रोधस्य तत्पुर्यां प्रधानाः पंच दारुणाः । बभूवुः सर्वनीतिज्ञा महामाया महाबलाः ॥४१॥ बलिर्जृम्भस्तथा राहू रावणो माल्यवान् परः । तैर्युक्तः शुशुभेऽत्यंतं क्रोधः परमदारुणः ॥४२॥ अन्ये प्रहस्तमुख्याश्च राक्षसा दानवास्तथा । निषेविरे भावयुक्ता महाक्रोधं महाबलाः ॥४३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते क्रोधासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । ततः किंचिद्गते काले क्रोधो हर्षसमन्वितः । उवाच बलिमुख्यांश्च दानवान् गर्वपूरितः ॥१॥ क्रोधासुर उवाच । शृणुध्वं दानवाः सर्वे बलिमुख्या महाबलाः । ब्रह्मांडं प्रजयिष्यामि भवद्भिः संयुतो ह्यहम् ॥२॥ तस्य तद्वचनं श्रुत्वा दैत्याः संहर्षिता नृपम् । जगुस्तं भक्तिसंयुक्ता कृत्वा करपुटं वचः ॥३॥ बल्याद्या ऊचुः । सम्यगुक्तं त्वया नाथ प्रजेष्यामः सुराधिपान् । त्वत्प्रसादेन दैत्येश आज्ञापय महासुरान् ॥४॥ पराक्रमतुलां ते न तिष्ठंति ब्रह्मगोलके । निर्भयोऽसि महाराज जय त्वं सर्वदेवपान् ॥५॥ तेषां वचनमाकर्ण्याऽसुरः क्रोधः प्रहर्षितः । शुक्रं नत्वा समानाय्य बभौ तेनानुमोदितः ॥६॥ ततो दैत्यगणान् सर्वानजुहाव नरैः स्वकैः । ते सर्वे हर्षसंयुक्ता आययुस्तं नराधिपम् ॥७॥ ततः सैन्यसमायुक्तो निर्जगाम महासुरः । चतुरंगबलैर्युक्तोऽपरैः सर्वत्र संबभौ ॥८॥ रथस्थश्च स्वयं क्रोधो दैत्यपैः संवृतो बभौ । तत्रादौ
यहाँ पृष्ठ का मूल देवनागरी पाठ (पंक्ति-दर-पंक्ति), श्लोक-विभाजन, अन्वय तथा हिन्दी अनुवाद सहित प्रस्तुत है:
शीर्षक एवं पृष्ठ संख्या
पान ८
मूल देवनागरी पाठ (Line-by-Line Transcription)
पृथिवीं जेतुं ययौ भूमंडले नृपान् ॥९॥ बलिमुख्यैर्महावीरैः स्थितैर्यरत्र च मानदौ । तैर्युद्धं कः पुमान् भूमौ कर्तुं शक्तो भवेत्तदा ॥१०॥ राजानः शरणं जग्मुर्दैत्येंद्रभयपीडिताः । केचिन् मृताश्च तैर्युद्धं कृत्वाऽहंकारसंयुताः ॥११॥ केचिद्राज्यं परित्यज्य सुदारुणवनं ययुः । एवं वसुंधरा जित्वा मुमुदुः सप्तसागराम् ॥१२॥ राज्ञस्ते करदांश्चक्रुर्दैत्याः शरणमागतान् । मृतास्तेषां सुताः सर्वे करदान् स्थाप्य चक्रिरे ॥१३॥ वनेषु ये गतास्तेषु दैत्याः संस्थापिताश्च तैः । बभुः संस्थापिता दैत्याः सर्वत्र नगरेषु वै ॥१४॥ ततः पाताललोकेषु ययुर्दैत्येंद्रमुख्यकाः । क्रोधासुरसमायुक्ता जेतुं नागान् महाबलान् ॥१५॥ दूतमुखेन वृत्तांतं ज्ञात्वा शेष उदारधीः । वरगर्वसमायुक्तं क्रोधं ज्ञात्वा ययौ स्वयम् ॥१६॥ समागतं महानागैः शेषं ज्ञात्वा समावृतम् । क्रोधासुरः प्रसन्नात्मा मान्यं तं सादरोऽभवत् ॥१७॥ करभारं वार्षिकं स वृतः स्वीकृत्य नागपैः । दत्त्वा रत्नादिकं शेषो ययौ स्वस्थानमेव च ॥१८॥ ततः स दैत्यपैः सर्वैर्ययौ शुक्रेण पालितः । देवस्थानेषु सर्वेषु देवोद्याना- न्यभंजयत् ॥१९॥ ततो दूतं महादैत्यः प्रेषयामास हर्षितः । जगाद मघवंतं च स गत्वा चेष्टितं महत् ॥२०॥ बृहस्पतिं च देवेंद्रैस्तत इंद्रः समाययौ । तेन संज्ञापितः सर्वैः प्रपपाल गुहांतरम् ॥२१॥ तज्ज्ञात्वा दैत्यपैः सर्वैर्हर्षितः क्रोधकोऽसुरः । आययावमरावत्यामिंद्रासनस्थितोऽभवत् ॥२२॥ देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् । असुरेभ्यो महादैत्यस्तेषु दैत्याः स्थिता बभुः ॥२३॥ नाना भोगान् प्रभंजाना देवसौख्यकरान् मुनी । अन्योन्यस्नेहसंयुक्ता बभूवुः साहसप्रियाः ॥२४॥ गंधर्वाश्चारणाद्याश्चाप्सरसस्तान् सिषविरे । दुःखयुक्ता विशेषेण देवैर्हीना महामुनी ॥२५॥ ततः कदाचिद्दैत्येंद्रो दैत्यपैः संवृतो ययौ । सत्यलोकं सुविख्यातं ज्ञात्वा ब्रह्मा पपाल ह ॥२६॥ तत्रैव संस्थितो दैत्यः क्रोधः परमदारुणः । बुभुजे सत्यलोकोत्थान् भोगान् दैत्यैर्महाबलैः ॥२७॥ ततो वैकुंठमेवं स जगामासुरसंवृतः । ज्ञात्वा तत्र स्थितो विष्णुः पपाल क्रोधभीर्तितः ॥२८॥ तत्र स्थित्वा वैकुंठस्य भोगान् विष्णुकृतान् स्वयम् । बुभुजे ज्ञातिभिः सार्धं क्रोधः परमदारुणः ॥२९॥ ततः कैलास्कं दैत्यः शंकरं जेतुमाययौ । महादेवः पपालैव क्रोधसंतापतापितः ॥३०॥ तत्रस्थः क्रोधको दैत्यो ननंद हृदि चाद्भुतम् । दैत्यैः समावृतः क्रूरस्तान् जगाद बलान्वितः ॥३१॥ क्रोधासुर उवाच । बले रावणमुख्याश्च शृणुध्वं मे वचो हितम् । अधुना न जितं स्थानं वदताऽहं जयामि तत् ॥३२॥ दैत्येंद्रा ऊचुः । सर्वं जितं त्वया राजन् भानुरेकः सुराधिपः । न जितः स तदर्थं त्वं प्रयतस्वाऽसुराधिप ॥३३॥ जगाद क्रोधको दैत्यस्ततस्तान् हर्षसंयुतः । इष्टदेवं मदीयं तं भानुं त्यजत दैत्यपाः ॥३४॥
श्लोकवार अन्वय एवं हिन्दी अर्थ
श्लोक ९–१४:
पृथिवीं जेतुं ययौ भूमंडले नृपान् ॥९॥ बलिमुख्यैर्महावीरैः स्थितैर्यरत्र च मानदौ । तैर्युद्धं कः पुमान् भूमौ कर्तुं शक्तो भवेत्तदा ॥१०॥ राजानः शरणं जग्मुर्दैत्येंद्रभयपीडिताः । केचिन् मृताश्च तैर्युद्धं कृत्वाऽहंकारसंयुताः ॥११॥ केचिद्राज्यं परित्यज्य सुदारुणवनं ययुः । एवं वसुंधरा जित्वा मुमुदुः सप्तसागराम् ॥१२॥ राज्ञस्ते करदांश्चक्रुर्दैत्याः शरणमागतान् । मृतास्तेषां सुताः सर्वे करदान् स्थाप्य चक्रिरे ॥१३॥ वनेषु ये गतास्तेषु दैत्याः संस्थापिताश्च तैः । बभुः संस्थापिता दैत्याः सर्वत्र नगरेषु वै ॥१४॥
- हिन्दी अनुवाद: क्रोधासुर भूमंडल के राजाओं को जीतने के लिए निकला। जहाँ बलि आदि महापराक्रमी वीर उपस्थित थे, वहाँ पृथ्वी पर उनसे युद्ध करने में कौन समर्थ हो सकता था? दैत्येन्द्र के भय से पीड़ित होकर कई राजा उनकी शरण में आ गए। कुछ अहंकारी राजा युद्ध करके मृत्यु को प्राप्त हुए, तथा कुछ राज्य छोड़कर घने वनों में चले गए। इस प्रकार सातों समुद्रों से घिरी पृथ्वी को जीतकर दैत्य प्रसन्न हुए। जो राजा शरण में आए, उन्हें करदाता (टैक्स देने वाला) बना दिया गया। जो मारे गए, उनके पुत्रों को करदाता के रूप में सिंहासन पर बैठाया गया। जो वन में भाग गए थे, उनके राज्यों व वनों में दैत्य नियुक्त कर दिए गए। इस प्रकार सभी नगरों में दैत्य शासन करने लगे।
श्लोक १५–१८:
ततः पाताललोकेषु ययुर्दैत्येंद्रमुख्यकाः । क्रोधासुरसमायुक्ता जेतुं नागान् महाबलान् ॥१५॥ दूतमुखेन वृत्तांतं ज्ञात्वा शेष उदारधीः । वरगर्वसमायुक्तं क्रोधं ज्ञात्वा ययौ स्वयम् ॥१६॥ समागतं महानागैः शेषं ज्ञात्वा समावृतम् । क्रोधासुरः प्रसन्नात्मा मान्यं तं सादरोऽभवत् ॥१७॥ करभारं वार्षिकं स वृतः स्वीकृत्य नागपैः । दत्त्वा रत्नादिकं शेषो ययौ स्वस्थानमेव च ॥१८॥
- हिन्दी अनुवाद: इसके पश्चात् महाबली नागों को जीतने के लिए क्रोधासुर के नेतृत्व में प्रमुख दैत्य पाताल लोक गए। दूत के मुख से वृत्तांत सुनकर और यह जानकर कि क्रोधासुर वरदान के गर्व से युक्त है, उदारबुद्धि शेषनाग स्वयं उससे मिलने आए। महानागों से घिरे हुए पूज्य शेषजी को आया देखकर क्रोधासुर प्रसन्न हुआ और उसने उनका आदर-सत्कार किया। नागराज शेष ने वार्षिक कर (टैक्स) देना स्वीकार कर लिया तथा रत्न आदि उपहार देकर वे अपने स्थान को लौट गए।
श्लोक १९–२५:
ततः स दैत्यपैः सर्वैर्ययौ शुक्रेण पालितः । देवस्थानेषु सर्वेषु देवोद्यानान्यभंजयत् ॥१९॥ ततो दूतं महादैत्यः प्रेषयामास हर्षितः । जगाद मघवंतं च स गत्वा चेष्टितं महत् ॥२०॥ बृहस्पतिं च देवेंद्रैस्तत इंद्रः समाययौ । तेन संज्ञापितः सर्वैः प्रपपाल गुहांतरम् ॥२१॥ तज्ज्ञात्वा दैत्यपैः सर्वैर्हर्षितः क्रोधकोऽसुरः । आययावमरावत्यामिंद्रासनस्थितोऽभवत् ॥२२॥ देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् । असुरेभ्यो महादैत्यस्तेषु दैत्याः स्थिता बभुः ॥२३॥ नाना भोगान् प्रभंजाना देवसौख्यकरान् मुनी । अन्योन्यस्नेहसंयुक्ता बभूवुः साहसप्रियाः ॥२४॥ गंधर्वाश्चारणाद्याश्चाप्सरसस्तान् सिषविरे । दुःखयुक्ता विशेषेण देवैर्हीना महामुनी ॥२५॥
- हिन्दी अनुवाद: तत्पश्चात् शुक्राचार्य द्वारा रक्षित वह दैत्यों के साथ देवस्थानों में गया और देव-उद्यानों को नष्ट-भ्रष्ट करने लगा। फिर उस महादैत्य ने हर्षित होकर इन्द्र के पास दूत भेजा। दूत ने जाकर इन्द्र को क्रोधासुर की सारी चेष्टाएँ बताईं। तब इन्द्र देवों के साथ बृहस्पतिजी के पास गए और उनकी सलाह पर वे सभी गुफाओं में जाकर छिप गए। यह जानकर क्रोधासुर सभी दैत्यों सहित अमरावती आया और इन्द्रासन पर बैठ गया। उसने सभी देवस्थानों को बाँटकर अपने दैत्यों को दे दिया। दैत्य वहाँ रहकर देवताओं के सुखदायक भोगों का उपभोग करने लगे। देवों से रहित होकर दुःखी हुए गन्धर्व, चारण और अप्सराएँ उनकी सेवा करने लगीं।
श्लोक २६–३१:
ततः कदाचिद्दैत्येंद्रो दैत्यपैः संवृतो ययौ । सत्यलोकं सुविख्यातं ज्ञात्वा ब्रह्मा पपाल ह ॥२६॥ तत्रैव संस्थितो दैत्यः क्रोधः परमदारुणः । बुभुजे सत्यलोकोत्थान् भोगान् दैत्यैर्महाबलैः ॥२७॥ ततो वैकुंठमेवं स जगामासुरसंवृतः । ज्ञात्वा तत्र स्थितो विष्णुः पपाल क्रोधभीर्तितः ॥२८॥ तत्र स्थित्वा वैकुंठस्य भोगान् विष्णुकृतान् स्वयम् । बुभुजे ज्ञातिभिः सार्धं क्रोधः परमदारुणः ॥२९॥ ततः कैलास्कं दैत्यः शंकरं जेतुमाययौ । महादेवः पपालैव क्रोधसंतापतापितः ॥३०॥ तत्रस्थः क्रोधको दैत्यो ननंद हृदि चाद्भुतम् । दैत्यैः समावृतः क्रूरस्तान् जगाद बलान्वितः ॥३१॥
- हिन्दी अनुवाद: इसके बाद वह दैत्यराज सत्यलोक (ब्रह्मलोक) गया। उसके आगमन को जानकर ब्रह्माजी वहाँ से भाग गए। उस परम दारुण क्रोधासुर ने वहीं रहकर महाबली दैत्यों के साथ ब्रह्मलोक के भोगों का उपभोग किया। फिर वह दैत्यों सहित वैकुण्ठ गया। यह जानकर वैकुण्ठ में स्थित भगवान विष्णु भी क्रोधासुर के भय से वहाँ से चले गए। वहाँ रहकर क्रोधासुर ने अपने बंधु-बांधवों के साथ वैकुण्ठ के भोग भोगे। तत्पश्चात् वह शिवजी को जीतने कैलाश पर्वत गया। महादेव भी उसके ताप से संत्रस्त होकर वहाँ से चले गए। कैलाश पर स्थित होकर क्रूर क्रोधासुर मन में अत्यंत प्रसन्न हुआ और दैत्यों से घिरे हुए उस बलवान ने उनसे कहा—
श्लोक ३२–३४:
क्रोधासुर उवाच । बले रावणमुख्याश्च शृणुध्वं मे वचो हितम् । अधुना न जितं स्थानं वदताऽहं जयामि तत् ॥३२॥ दैत्येंद्रा ऊचुः । सर्वं जितं त्वया राजन् भानुरेकः सुराधिपः । न जितः स तदर्थं त्वं प्रयतस्वाऽसुराधिप ॥३३॥ जगाद क्रोधको दैत्यस्ततस्तान् हर्षसंयुतः । इष्टदेवं मदीयं तं भानुं त्यजत दैत्यपाः ॥३४॥
- हिन्दी अनुवाद: क्रोधासुर ने कहा: हे बलि और रावण आदि प्रमुख दैत्यों! मेरी हितकारी बात सुनो। अब जो स्थान मेरे द्वारा नहीं जीता गया है, उसे बताओ, मैं उसे भी जीतूँगा। दैत्यगण बोले: हे राजन्! आपने सब कुछ जीत लिया है, केवल एक देवों के स्वामी सूर्यदेव (भानु) को नहीं जीता है। हे असुराधिप! आप उन्हें जीतने का यत्न करें। तब क्रोधासुर ने हर्षित होकर उनसे कहा: हे दैत्यपतियों! वे सूर्य (भानु) तो मेरे इष्टदेव हैं, अतः उन्हें छोड़ दो (उन पर आक्रमण नहीं करना है)।
तस्य तद्वचनं श्रुत्वा क्षोभयुक्ता महासुराः । जगुस्तं मायया युक्ताः क्रोधं भेदपरायणाः ॥३५॥ अस्माकमिष्टदेवोऽयं सूर्यः स्वामिन्न संशयः । भजिष्यामो विशेषेण तं सदा भक्तिलालसम् ॥३६॥ देवानां पक्षमुत्सृज्येच्छत्यस्माकं हितं यदि । तदा वंद्योऽर्यमा नाथ नान्यथा जयं तं बलात् ॥३७॥ परपक्षाश्रितं देवमस्मत्संहनने रतम् । जयिष्यामो वयमतो हितं राजन् समाचर ॥३८॥ दैत्येशानां वचः श्रुत्वा क्रोधः संहर्षितोऽभवत् । दूतं संप्रेषयामास रावणं गर्वसंयुतम् ॥३९॥ रावणात् सर्ववृत्तांतं ज्ञात्वा भानुः प्रतापवान् । तमुवाच तदा क्रुद्धो भयभीतश्च मानदौ ॥४०॥ रविरुवाच । देवानां पक्षमुत्सृज्य क्रोधासुरपरायणः । न भविष्यामि भो दूत देवोऽहं नात्र संशयः ॥४१॥ उन्मत्तं वरसंयुक्तं क्रोधं वद महामते । त्यक्त्वा राज्यं वने भानुर्गतो राज्यं कुरुष्व च ॥४२॥ एवमुक्त्वा रावणं स सूर्यः सर्वसमन्वितः । पपाल लोकमुत्सृज्य रावणस्तं समाययौ ॥४३॥ ततोऽतिहर्षितो दैत्यः क्रोधो दुष्टैः समावृतः । आययौ सौरलोकं तं मुमुदे प्राप्य दुर्जनः ॥४४॥ आत्मानं कृतकृत्यं स मानयामास दुर्मतिः । ब्रह्मांडविजयी भूत्वा भोगांश्च बुभुजे परान् ॥४५॥ ततः संस्थाप्य दैत्येंद्रान् तेषु स्वर्गेषु दैत्यपः । पृथिव्यां नगरं मुख्यमाययौ प्रीतिसंज्ञकम् ॥४६॥ क्रोधासुरोऽसौ तत्रस्थः प्रशाशास प्रतापवान् । त्रैलोक्यं भोगसंयुक्तः सुहृदानंददायकः ॥४७॥ स्त्रीमांसमदिरासक्तो बभूव विषयप्रियः। न बुबोध गतं कालं यथाकालेन वंचितः ॥४८॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते क्रोधासुरब्रह्मांडविजयो नाम चतुर्थोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । ततोऽतिमदसंयुक्तोऽसुरः क्रोधः प्रतापवान् । दैत्यानाज्ञापयत् क्रूरान् कर्मणः खंडनाय तान् ॥१॥ तस्याज्ञया ययुर्दैत्या यत्र तत्र महीतले । ब्राह्मणांस्ताडयामासुर्वर्णाश्रमप्रवर्तकान् ॥२॥ अन्यान् वर्णांस्तथा गृह्य कर्महीनांश्च चक्रिरे । देवतीर्थादिकं दैत्या बभंजुर्यज्ञवृक्षकान् ॥३॥ सर्वत्र त्रासिता लोकाः कर्महीना बभूविरे । न स्वाहा न स्वधा कुत्र न वषट्कार एव च ॥४॥ ततो विप्रानुवाचाऽथ क्रोधासुरः प्रतापवान् । मदीयनामसंयुक्तं कर्म कुर्वंतु विप्रपाः ॥५॥ जगदीशॊ महाभागा अहं द्विजा न संशयः । भजतां पादयोर्मे नो दुर्लभं किं भविष्यति ॥६॥ ततो द्विजास्तपोनिष्ठा गता वनेषु मानदौ । त्यक्त्वा विषयजं सौख्यं सिंहव्याघ्रयुतेषु ते ॥७॥ केचिद् भ्रष्टास्तदाज्ञायां संस्थिता