मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 534, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. ३ | पान ५ व्यर्थं यशः संभविता परात्मन् ॥४२॥ यथा दिनेशः समकालयुक्तः प्रकाशदाता भवतीति नित्यम् । तथा हि ते भक्त- जनानापारान् क्षमोऽसि तान् रक्षितुमंतरं किम् ॥४३॥ किं योगरूपातिविलंबनेन रक्षस्व भीतं मरणे सुसंस्थम् । हेरंब विघ्नेश विनायकाशु रक्षस्व रक्षस्व महेशपुत्र ॥४४॥ एवं स्तुवति शंभौ स विष्णोर्हृदि गजाननः । प्रविश्य बुद्धिसंदाता बभूवे भक्तवत्सलः ॥४५॥ धृत्वा स्त्रीवेषकं विष्णुर्ययौ तं भस्मकारकम् । महासुरो मुमोहाऽसौ तां दृष्ट्वा मोहिनीं स्त्रियम् ॥४६॥ तां समागत्य पप्रच्छ दैत्येंद्रो मोहसंयुतः । कुत्र गच्छसि सुश्रोणि किं ते कार्यमुपस्थितम् ॥४७॥ वद मां तत् करिष्यामि त्वद्दासोऽहं न संशयः । अहं सर्वेश्वरोऽत्रैव न समो मे प्रविद्यते ॥४८॥ भज मां भावसंयुक्ता भजंतं ते च दासकम् । त्वदधीनो भविष्यामि सदा वरांगने मतम् ॥४९॥ तस्य तद्वचनं श्रुत्वा स्मित्वा सा तं जगाद ह । अहं मोहप्रदा नारी मोहिन्यत्र समागता ॥५०॥ मदाज्ञया दैत्य यदि वर्तसे त्वं निरंतरम् । तदा ते गृहगा भूत्वा तिष्ठाम्यत्र न संशयः ॥५१॥ तथेति दैत्यराजस्तां जगाद साऽब्रवीत् पुनः । नृत्यं कुरु मदग्रे त्वं यथा नृत्यामि वै अहम् ॥५२॥ तथेति प्रतिपाद्यैव सा ननर्त कलान्विता । तथा दैत्याधिपस्तत्र ननर्त काममोहितः ॥५३॥ तया दक्षिणहस्तश्च स्थापितः शिरसि स्वके । तथा सोऽपि चकाराशु भ्रांतो विघ्नेशमायया ॥५४॥ भस्मसादभवद्दैत्यो भस्मासुरश्च तत्क्षणात् । ततः सा विस्मिता भूत्वा तुष्टाव गणनायकम् ॥५५॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते भस्मासुरवधो नाम द्वितीयोऽध्यायः ॥
❖ ❖ ❖
॥ श्रीगणेशाय नमः॥ ब्रह्मोवाच । गाणेशैः स्तोत्रमुख्यैः संतुष्टाव विष्टरश्रवाः। गणेशं सिद्धिदं पूर्णं भक्तेभ्यो भक्तवत्सलम् ॥१॥ ततः स मोहिनीरुपमभूत् त्यक्तुं समुद्यतः । एतस्मिन्नंतरे तत्राऽमरैः संबोधितः शिवः ॥२॥ ज्ञात्वा भस्मासुरं शंभुमॄतं विस्मितमानसः । ननर्त भक्तिसंयुक्तो जय विघ्नेश उच्चरन् ॥३॥ ततः सर्वैः समायुक्तो मुकुंदकपुरं ययौ । तत्र नारीस्वरूपस्थमदर्शत् केशवं शिवः ॥४॥ महामोहप्रदं रूपं दृष्ट्वा विष्णोः सुविस्मितः । तदज्ञानो महादेवस्तां ययौ काम- विह्वलः ॥५॥ तं दृष्ट्वा मोहितं विष्णुः पपाल स्त्रीस्वरूपधृक् । तामन्वधावद्देवेशः शंकरो विह्वलो भृशम् ॥६॥ ततस्तत्याज