भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ५ अ. ३ | पान ५ व्यर्थं यशः संभविता परात्मन् ॥४२॥ यथा दिनेशः समकालयुक्तः प्रकाशदाता भवतीति नित्यम् । तथा हि ते भक्त- जनानापारान् क्षमोऽसि तान् रक्षितुमंतरं किम् ॥४३॥ किं योगरूपातिविलंबनेन रक्षस्व भीतं मरणे सुसंस्थम् । हेरंब विघ्नेश विनायकाशु रक्षस्व रक्षस्व महेशपुत्र ॥४४॥ एवं स्तुवति शंभौ स विष्णोर्हृदि गजाननः । प्रविश्य बुद्धिसंदाता बभूवे भक्तवत्सलः ॥४५॥ धृत्वा स्त्रीवेषकं विष्णुर्ययौ तं भस्मकारकम् । महासुरो मुमोहाऽसौ तां दृष्ट्वा मोहिनीं स्त्रियम् ॥४६॥ तां समागत्य पप्रच्छ दैत्येंद्रो मोहसंयुतः । कुत्र गच्छसि सुश्रोणि किं ते कार्यमुपस्थितम् ॥४७॥ वद मां तत् करिष्यामि त्वद्दासोऽहं न संशयः । अहं सर्वेश्वरोऽत्रैव न समो मे प्रविद्यते ॥४८॥ भज मां भावसंयुक्ता भजंतं ते च दासकम् । त्वदधीनो भविष्यामि सदा वरांगने मतम् ॥४९॥ तस्य तद्वचनं श्रुत्वा स्मित्वा सा तं जगाद ह । अहं मोहप्रदा नारी मोहिन्यत्र समागता ॥५०॥ मदाज्ञया दैत्य यदि वर्तसे त्वं निरंतरम् । तदा ते गृहगा भूत्वा तिष्ठाम्यत्र न संशयः ॥५१॥ तथेति दैत्यराजस्तां जगाद साऽब्रवीत् पुनः । नृत्यं कुरु मदग्रे त्वं यथा नृत्यामि वै अहम् ॥५२॥ तथेति प्रतिपाद्यैव सा ननर्त कलान्विता । तथा दैत्याधिपस्तत्र ननर्त काममोहितः ॥५३॥ तया दक्षिणहस्तश्च स्थापितः शिरसि स्वके । तथा सोऽपि चकाराशु भ्रांतो विघ्नेशमायया ॥५४॥ भस्मसादभवद्दैत्यो भस्मासुरश्च तत्क्षणात् । ततः सा विस्मिता भूत्वा तुष्टाव गणनायकम् ॥५५॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते भस्मासुरवधो नाम द्वितीयोऽध्यायः ॥

❖ ❖ ❖

॥ श्रीगणेशाय नमः॥ ब्रह्मोवाच । गाणेशैः स्तोत्रमुख्यैः संतुष्टाव विष्टरश्रवाः। गणेशं सिद्धिदं पूर्णं भक्तेभ्यो भक्तवत्सलम् ॥१॥ ततः स मोहिनीरुपमभूत् त्यक्तुं समुद्यतः । एतस्मिन्नंतरे तत्राऽमरैः संबोधितः शिवः ॥२॥ ज्ञात्वा भस्मासुरं शंभुमॄतं विस्मितमानसः । ननर्त भक्तिसंयुक्तो जय विघ्नेश उच्चरन् ॥३॥ ततः सर्वैः समायुक्तो मुकुंदकपुरं ययौ । तत्र नारीस्वरूपस्थमदर्शत् केशवं शिवः ॥४॥ महामोहप्रदं रूपं दृष्ट्वा विष्णोः सुविस्मितः । तदज्ञानो महादेवस्तां ययौ काम- विह्वलः ॥५॥ तं दृष्ट्वा मोहितं विष्णुः पपाल स्त्रीस्वरूपधृक् । तामन्वधावद्देवेशः शंकरो विह्वलो भृशम् ॥६॥ ततस्तत्याज

खं. ५ अ. ३ | पान ६


तद्रूपं विष्णुः स पुरुषोऽभवत् । शिवः खिन्नश्च तत्रैव स्खलितोऽभूत् सुविह्वलः ॥७॥ ततः सर्वे ययुर्देवाः स्वस्वस्थानं मुदा युताः । स्तुत्वा विष्णुं महाभागं शिवः स्वस्थानगोऽभवत् ॥८॥ शिवस्य वीर्यसंपातात्तद्वीर्यप्रभवोऽसुरः । बभूव श्यामवर्णश्च ताम्रचक्षुः प्रतापवान् ॥९॥ स शुक्रमुपसंगम्योवाच तं विनयान्वितः । प्रणम्य तेजसा युक्तः शिष्यं पालय मां मुने ॥१०॥ ततो ध्यानेन स ज्ञात्वा तस्य सर्वं महामुनिः । पुनस्तं प्रजगादैव वचनं हर्षयन्नरम् ॥११॥ शुक्र उवाच । मोहिनीं शंकरो दृष्ट्वा कामबाणप्रपीडितः । पश्चाद्विष्णुं समालोक्य स्वचित्ते क्रोधमादधे ॥१२॥ मनो मे चंचलं पूर्णं तद् ग्रहीष्यामि यत्नतः । मनोग्रहणरूपश्च क्रोधस्तत्र प्रवर्तते ॥१३॥ तस्मिन् काले च वीर्यस्य स्खलनं सहसाऽभवत् । तस्माज्जातोऽसि तेन त्वं क्रोधनामा भविष्यसि ॥१४॥ ततो दानवमुख्यैः स कारयामास विप्रप । मौंज्यंतसर्वसंस्कारान् यथाविधि स शास्त्रवित् ॥१५॥ क्रोधो वेदादिकं सर्वमभ्यस्य गुरुसन्निधौ । शंबरस्य सुतां तुल्यामुपयेमे महासुरः ॥१६॥ प्रीतिनाम्नीं महारूपां सर्वावयव- शालिनीम् । रूपलावण्यसंयुक्तां विषयानां प्रवर्द्धिनीम् ॥१७॥ ततः शुक्रं समागम्य जगाद प्रणिपत्य तम् । कृतांजलिर्महातेजा दैत्येभ्यः सुखदं वचः ॥१८॥ क्रोधासुर उवाच । ब्रह्मांडविजयं स्वामिन् करिष्यामि त्वदाज्ञया । मंत्रं देहि तदर्थं मे सर्व यशोविवर्धनम् ॥१९॥ ब्रह्मोवाच । तस्य तद्वचनं श्रुत्वा काव्यः सर्वज्ञसत्तमः । दैत्यानां प्रहितार्थाय ददौ तस्मै महामनुम् ॥२०॥ सूर्यस्य विधियुक्तं प्रणम्य संगृह्य तं ययौ । वनं व्याघ्रादिसंकीर्णं तपसे कृतनिश्चयः ॥२१॥ एकपादेन तिष्ठन् समजपन् मंत्रमुत्तमम् । चित्ते ध्यायन्नर्कमाणमूर्ध्वदृष्टिर्महासुरः ॥२२॥ निराहारेण देवेशं तोषयामास यत्नतः । शीतोष्णादिभयं त्यक्त्वा काष्ठवत् संस्थितोऽभवत् ॥२३॥ दिव्यवर्षसहस्रेण तुष्टो भानुस्तमाययौ । वरं दातुं महादैत्यमुवाच घननिःस्वनः ॥२४॥ रविरुवाच । वरान् वृणु महाभाग क्रोधाऽहं ते ददामि तान् । संतुष्टस्तपसोग्रेणेप्सितान् हृदि महामते ॥२५॥ श्रुत्वा रवेर्वचो दैत्यो दृष्ट्वा तं पुरतः स्थितम् । प्रणाम महाभक्त्याऽपूजयत्तेजसां निधिम् ॥२६॥ पुनः प्रणम्य तुष्टाव कृतांजलि- पुटोऽसुरः । सौरसूक्तेन देवेशं पुनः संनत आदरात् ॥२७॥ तमुवाचार्यमा दैत्यं वरं वृणु महामते । यं यमिच्छसि तं तं ते दास्याम्यत्र न संशयः ॥२८॥ क्रोधासुर उवाच । उत्पत्तिस्थितिसंहारयुक्ता ये देवनायकाः । तेभ्यो मे मरणं भानो न भवेद्वै कदाचन ॥२९॥ ब्रह्मांडजयने शक्तं मां कुरुष्व विशेषतः । राज्यं चराचरस्यैव देहि मेऽदितिनंदन ॥३०॥ आरोग्यं मनसा यद्यचिंतितं सफलं भवेत् । न मे समो भवेत् कुत्र तथा कुरु दिवस्पते ॥३१॥ श्रुत्वा तस्य वचो रम्यं सर्वेभ्यो भयदायकम् ।

खं. ५ अ. ४ पान ७

विस्मितस्तेजसां नाथस्तं जगाद सुयंत्रितः ॥३२॥ भानुरुवाच । क्रोध त्वया च यत् प्रोक्तं तदेव सफलं भवेत् । तपसा यंत्रिता दैत्य तस्माद्दत्तं मया परम् ॥३३॥ एवमुक्त्वाऽर्यमा लोकमगमद्दुःखसंयुतः । क्रोधो हर्षसमाविष्टः प्रययौ स्वगृहं ततः ॥३४॥ सुहृदो नंदयामासासुरान् सर्वान् महायशाः । काव्यं प्रणम्य स्वस्थाने संस्थितोऽभून् मदान्वितः ॥३५॥ हर्षः शोकश्च पुत्रौ द्वौ प्रीत्यामुत्पाद्य दैत्यपः । नानाभोगान् प्रभुंजानो गर्वितोऽभूत्ततः परम् ॥३६॥ शुक्रं सकलनीतिज्ञं समानाय्य प्रपूज्य तम् । तस्यानुमतमागृह्य नगरं निर्ममेऽसुरः ॥३७॥ आवेशानामकं रम्यं सर्वशोभासमन्वितम् । तत्राजग्मुश्च विप्रर्षे दानवा दैत्यराक्षसाः ॥३८॥ चातुर्वर्ण्यसमायुक्ता निवासं चक्रिरे पुरा । जना हर्षयुतास्तत्र मुमुदुः ससुहृद्गणाः ॥३९॥ ततः काव्यः समागत्य क्रोधं चकार विप्रपैः । अभिषिक्तं स सर्वेषां दानवानां पदे प्रभुम् ॥४०॥ ततः क्रोधस्य तत्पुर्यां प्रधानाः पंच दारुणाः । बभूवुः सर्वनीतिज्ञा महामाया महाबलाः ॥४१॥ बलिर्जृम्भस्तथा राहू रावणो माल्यवान् परः । तैर्युक्तः शुशुभेऽत्यंतं क्रोधः परमदारुणः ॥४२॥ अन्ये प्रहस्तमुख्याश्च राक्षसा दानवास्तथा । निषेविरे भावयुक्ता महाक्रोधं महाबलाः ॥४३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते क्रोधासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । ततः किंचिद्गते काले क्रोधो हर्षसमन्वितः । उवाच बलिमुख्यांश्च दानवान् गर्वपूरितः ॥१॥ क्रोधासुर उवाच । शृणुध्वं दानवाः सर्वे बलिमुख्या महाबलाः । ब्रह्मांडं प्रजयिष्यामि भवद्भिः संयुतो ह्यहम् ॥२॥ तस्य तद्वचनं श्रुत्वा दैत्याः संहर्षिता नृपम् । जगुस्तं भक्तिसंयुक्ता कृत्वा करपुटं वचः ॥३॥ बल्याद्या ऊचुः । सम्यगुक्तं त्वया नाथ प्रजेष्यामः सुराधिपान् । त्वत्प्रसादेन दैत्येश आज्ञापय महासुरान् ॥४॥ पराक्रमतुलां ते न तिष्ठंति ब्रह्मगोलके । निर्भयोऽसि महाराज जय त्वं सर्वदेवपान् ॥५॥ तेषां वचनमाकर्ण्याऽसुरः क्रोधः प्रहर्षितः । शुक्रं नत्वा समानाय्य बभौ तेनानुमोदितः ॥६॥ ततो दैत्यगणान् सर्वानजुहाव नरैः स्वकैः । ते सर्वे हर्षसंयुक्ता आययुस्तं नराधिपम् ॥७॥ ततः सैन्यसमायुक्तो निर्जगाम महासुरः । चतुरंगबलैर्युक्तोऽपरैः सर्वत्र संबभौ ॥८॥ रथस्थश्च स्वयं क्रोधो दैत्यपैः संवृतो बभौ । तत्रादौ

यहाँ पृष्ठ का मूल देवनागरी पाठ (पंक्ति-दर-पंक्ति), श्लोक-विभाजन, अन्वय तथा हिन्दी अनुवाद सहित प्रस्तुत है:


शीर्षक एवं पृष्ठ संख्या

पान ८


मूल देवनागरी पाठ (Line-by-Line Transcription)

पृथिवीं जेतुं ययौ भूमंडले नृपान् ॥९॥ बलिमुख्यैर्महावीरैः स्थितैर्यरत्र च मानदौ । तैर्युद्धं कः पुमान् भूमौ कर्तुं शक्तो भवेत्तदा ॥१०॥ राजानः शरणं जग्मुर्दैत्येंद्रभयपीडिताः । केचिन् मृताश्च तैर्युद्धं कृत्वाऽहंकारसंयुताः ॥११॥ केचिद्राज्यं परित्यज्य सुदारुणवनं ययुः । एवं वसुंधरा जित्वा मुमुदुः सप्तसागराम् ॥१२॥ राज्ञस्ते करदांश्चक्रुर्दैत्याः शरणमागतान् । मृतास्तेषां सुताः सर्वे करदान् स्थाप्य चक्रिरे ॥१३॥ वनेषु ये गतास्तेषु दैत्याः संस्थापिताश्च तैः । बभुः संस्थापिता दैत्याः सर्वत्र नगरेषु वै ॥१४॥ ततः पाताललोकेषु ययुर्दैत्येंद्रमुख्यकाः । क्रोधासुरसमायुक्ता जेतुं नागान् महाबलान् ॥१५॥ दूतमुखेन वृत्तांतं ज्ञात्वा शेष उदारधीः । वरगर्वसमायुक्तं क्रोधं ज्ञात्वा ययौ स्वयम् ॥१६॥ समागतं महानागैः शेषं ज्ञात्वा समावृतम् । क्रोधासुरः प्रसन्नात्मा मान्यं तं सादरोऽभवत् ॥१७॥ करभारं वार्षिकं स वृतः स्वीकृत्य नागपैः । दत्त्वा रत्नादिकं शेषो ययौ स्वस्थानमेव च ॥१८॥ ततः स दैत्यपैः सर्वैर्ययौ शुक्रेण पालितः । देवस्थानेषु सर्वेषु देवोद्याना- न्यभंजयत् ॥१९॥ ततो दूतं महादैत्यः प्रेषयामास हर्षितः । जगाद मघवंतं च स गत्वा चेष्टितं महत् ॥२०॥ बृहस्पतिं च देवेंद्रैस्तत इंद्रः समाययौ । तेन संज्ञापितः सर्वैः प्रपपाल गुहांतरम् ॥२१॥ तज्ज्ञात्वा दैत्यपैः सर्वैर्हर्षितः क्रोधकोऽसुरः । आययावमरावत्यामिंद्रासनस्थितोऽभवत् ॥२२॥ देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् । असुरेभ्यो महादैत्यस्तेषु दैत्याः स्थिता बभुः ॥२३॥ नाना भोगान् प्रभंजाना देवसौख्यकरान् मुनी । अन्योन्यस्नेहसंयुक्ता बभूवुः साहसप्रियाः ॥२४॥ गंधर्वाश्चारणाद्याश्चाप्सरसस्तान् सिषविरे । दुःखयुक्ता विशेषेण देवैर्हीना महामुनी ॥२५॥ ततः कदाचिद्दैत्येंद्रो दैत्यपैः संवृतो ययौ । सत्यलोकं सुविख्यातं ज्ञात्वा ब्रह्मा पपाल ह ॥२६॥ तत्रैव संस्थितो दैत्यः क्रोधः परमदारुणः । बुभुजे सत्यलोकोत्थान् भोगान् दैत्यैर्महाबलैः ॥२७॥ ततो वैकुंठमेवं स जगामासुरसंवृतः । ज्ञात्वा तत्र स्थितो विष्णुः पपाल क्रोधभीर्तितः ॥२८॥ तत्र स्थित्वा वैकुंठस्य भोगान् विष्णुकृतान् स्वयम् । बुभुजे ज्ञातिभिः सार्धं क्रोधः परमदारुणः ॥२९॥ ततः कैलास्कं दैत्यः शंकरं जेतुमाययौ । महादेवः पपालैव क्रोधसंतापतापितः ॥३०॥ तत्रस्थः क्रोधको दैत्यो ननंद हृदि चाद्भुतम् । दैत्यैः समावृतः क्रूरस्तान् जगाद बलान्वितः ॥३१॥ क्रोधासुर उवाच । बले रावणमुख्याश्च शृणुध्वं मे वचो हितम् । अधुना न जितं स्थानं वदताऽहं जयामि तत् ॥३२॥ दैत्येंद्रा ऊचुः । सर्वं जितं त्वया राजन् भानुरेकः सुराधिपः । न जितः स तदर्थं त्वं प्रयतस्वाऽसुराधिप ॥३३॥ जगाद क्रोधको दैत्यस्ततस्तान् हर्षसंयुतः । इष्टदेवं मदीयं तं भानुं त्यजत दैत्यपाः ॥३४॥


श्लोकवार अन्वय एवं हिन्दी अर्थ

श्लोक ९–१४:

पृथिवीं जेतुं ययौ भूमंडले नृपान् ॥९॥ बलिमुख्यैर्महावीरैः स्थितैर्यरत्र च मानदौ । तैर्युद्धं कः पुमान् भूमौ कर्तुं शक्तो भवेत्तदा ॥१०॥ राजानः शरणं जग्मुर्दैत्येंद्रभयपीडिताः । केचिन् मृताश्च तैर्युद्धं कृत्वाऽहंकारसंयुताः ॥११॥ केचिद्राज्यं परित्यज्य सुदारुणवनं ययुः । एवं वसुंधरा जित्वा मुमुदुः सप्तसागराम् ॥१२॥ राज्ञस्ते करदांश्चक्रुर्दैत्याः शरणमागतान् । मृतास्तेषां सुताः सर्वे करदान् स्थाप्य चक्रिरे ॥१३॥ वनेषु ये गतास्तेषु दैत्याः संस्थापिताश्च तैः । बभुः संस्थापिता दैत्याः सर्वत्र नगरेषु वै ॥१४॥

  • हिन्दी अनुवाद: क्रोधासुर भूमंडल के राजाओं को जीतने के लिए निकला। जहाँ बलि आदि महापराक्रमी वीर उपस्थित थे, वहाँ पृथ्वी पर उनसे युद्ध करने में कौन समर्थ हो सकता था? दैत्येन्द्र के भय से पीड़ित होकर कई राजा उनकी शरण में आ गए। कुछ अहंकारी राजा युद्ध करके मृत्यु को प्राप्त हुए, तथा कुछ राज्य छोड़कर घने वनों में चले गए। इस प्रकार सातों समुद्रों से घिरी पृथ्वी को जीतकर दैत्य प्रसन्न हुए। जो राजा शरण में आए, उन्हें करदाता (टैक्स देने वाला) बना दिया गया। जो मारे गए, उनके पुत्रों को करदाता के रूप में सिंहासन पर बैठाया गया। जो वन में भाग गए थे, उनके राज्यों व वनों में दैत्य नियुक्त कर दिए गए। इस प्रकार सभी नगरों में दैत्य शासन करने लगे।

श्लोक १५–१८:

ततः पाताललोकेषु ययुर्दैत्येंद्रमुख्यकाः । क्रोधासुरसमायुक्ता जेतुं नागान् महाबलान् ॥१५॥ दूतमुखेन वृत्तांतं ज्ञात्वा शेष उदारधीः । वरगर्वसमायुक्तं क्रोधं ज्ञात्वा ययौ स्वयम् ॥१६॥ समागतं महानागैः शेषं ज्ञात्वा समावृतम् । क्रोधासुरः प्रसन्नात्मा मान्यं तं सादरोऽभवत् ॥१७॥ करभारं वार्षिकं स वृतः स्वीकृत्य नागपैः । दत्त्वा रत्नादिकं शेषो ययौ स्वस्थानमेव च ॥१८॥

  • हिन्दी अनुवाद: इसके पश्चात् महाबली नागों को जीतने के लिए क्रोधासुर के नेतृत्व में प्रमुख दैत्य पाताल लोक गए। दूत के मुख से वृत्तांत सुनकर और यह जानकर कि क्रोधासुर वरदान के गर्व से युक्त है, उदारबुद्धि शेषनाग स्वयं उससे मिलने आए। महानागों से घिरे हुए पूज्य शेषजी को आया देखकर क्रोधासुर प्रसन्न हुआ और उसने उनका आदर-सत्कार किया। नागराज शेष ने वार्षिक कर (टैक्स) देना स्वीकार कर लिया तथा रत्न आदि उपहार देकर वे अपने स्थान को लौट गए।

श्लोक १९–२५:

ततः स दैत्यपैः सर्वैर्ययौ शुक्रेण पालितः । देवस्थानेषु सर्वेषु देवोद्यानान्यभंजयत् ॥१९॥ ततो दूतं महादैत्यः प्रेषयामास हर्षितः । जगाद मघवंतं च स गत्वा चेष्टितं महत् ॥२०॥ बृहस्पतिं च देवेंद्रैस्तत इंद्रः समाययौ । तेन संज्ञापितः सर्वैः प्रपपाल गुहांतरम् ॥२१॥ तज्ज्ञात्वा दैत्यपैः सर्वैर्हर्षितः क्रोधकोऽसुरः । आययावमरावत्यामिंद्रासनस्थितोऽभवत् ॥२२॥ देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् । असुरेभ्यो महादैत्यस्तेषु दैत्याः स्थिता बभुः ॥२३॥ नाना भोगान् प्रभंजाना देवसौख्यकरान् मुनी । अन्योन्यस्नेहसंयुक्ता बभूवुः साहसप्रियाः ॥२४॥ गंधर्वाश्चारणाद्याश्चाप्सरसस्तान् सिषविरे । दुःखयुक्ता विशेषेण देवैर्हीना महामुनी ॥२५॥

  • हिन्दी अनुवाद: तत्पश्चात् शुक्राचार्य द्वारा रक्षित वह दैत्यों के साथ देवस्थानों में गया और देव-उद्यानों को नष्ट-भ्रष्ट करने लगा। फिर उस महादैत्य ने हर्षित होकर इन्द्र के पास दूत भेजा। दूत ने जाकर इन्द्र को क्रोधासुर की सारी चेष्टाएँ बताईं। तब इन्द्र देवों के साथ बृहस्पतिजी के पास गए और उनकी सलाह पर वे सभी गुफाओं में जाकर छिप गए। यह जानकर क्रोधासुर सभी दैत्यों सहित अमरावती आया और इन्द्रासन पर बैठ गया। उसने सभी देवस्थानों को बाँटकर अपने दैत्यों को दे दिया। दैत्य वहाँ रहकर देवताओं के सुखदायक भोगों का उपभोग करने लगे। देवों से रहित होकर दुःखी हुए गन्धर्व, चारण और अप्सराएँ उनकी सेवा करने लगीं।

श्लोक २६–३१:

ततः कदाचिद्दैत्येंद्रो दैत्यपैः संवृतो ययौ । सत्यलोकं सुविख्यातं ज्ञात्वा ब्रह्मा पपाल ह ॥२६॥ तत्रैव संस्थितो दैत्यः क्रोधः परमदारुणः । बुभुजे सत्यलोकोत्थान् भोगान् दैत्यैर्महाबलैः ॥२७॥ ततो वैकुंठमेवं स जगामासुरसंवृतः । ज्ञात्वा तत्र स्थितो विष्णुः पपाल क्रोधभीर्तितः ॥२८॥ तत्र स्थित्वा वैकुंठस्य भोगान् विष्णुकृतान् स्वयम् । बुभुजे ज्ञातिभिः सार्धं क्रोधः परमदारुणः ॥२९॥ ततः कैलास्कं दैत्यः शंकरं जेतुमाययौ । महादेवः पपालैव क्रोधसंतापतापितः ॥३०॥ तत्रस्थः क्रोधको दैत्यो ननंद हृदि चाद्भुतम् । दैत्यैः समावृतः क्रूरस्तान् जगाद बलान्वितः ॥३१॥

  • हिन्दी अनुवाद: इसके बाद वह दैत्यराज सत्यलोक (ब्रह्मलोक) गया। उसके आगमन को जानकर ब्रह्माजी वहाँ से भाग गए। उस परम दारुण क्रोधासुर ने वहीं रहकर महाबली दैत्यों के साथ ब्रह्मलोक के भोगों का उपभोग किया। फिर वह दैत्यों सहित वैकुण्ठ गया। यह जानकर वैकुण्ठ में स्थित भगवान विष्णु भी क्रोधासुर के भय से वहाँ से चले गए। वहाँ रहकर क्रोधासुर ने अपने बंधु-बांधवों के साथ वैकुण्ठ के भोग भोगे। तत्पश्चात् वह शिवजी को जीतने कैलाश पर्वत गया। महादेव भी उसके ताप से संत्रस्त होकर वहाँ से चले गए। कैलाश पर स्थित होकर क्रूर क्रोधासुर मन में अत्यंत प्रसन्न हुआ और दैत्यों से घिरे हुए उस बलवान ने उनसे कहा—

श्लोक ३२–३४:

क्रोधासुर उवाच । बले रावणमुख्याश्च शृणुध्वं मे वचो हितम् । अधुना न जितं स्थानं वदताऽहं जयामि तत् ॥३२॥ दैत्येंद्रा ऊचुः । सर्वं जितं त्वया राजन् भानुरेकः सुराधिपः । न जितः स तदर्थं त्वं प्रयतस्वाऽसुराधिप ॥३३॥ जगाद क्रोधको दैत्यस्ततस्तान् हर्षसंयुतः । इष्टदेवं मदीयं तं भानुं त्यजत दैत्यपाः ॥३४॥

  • हिन्दी अनुवाद: क्रोधासुर ने कहा: हे बलि और रावण आदि प्रमुख दैत्यों! मेरी हितकारी बात सुनो। अब जो स्थान मेरे द्वारा नहीं जीता गया है, उसे बताओ, मैं उसे भी जीतूँगा। दैत्यगण बोले: हे राजन्! आपने सब कुछ जीत लिया है, केवल एक देवों के स्वामी सूर्यदेव (भानु) को नहीं जीता है। हे असुराधिप! आप उन्हें जीतने का यत्न करें। तब क्रोधासुर ने हर्षित होकर उनसे कहा: हे दैत्यपतियों! वे सूर्य (भानु) तो मेरे इष्टदेव हैं, अतः उन्हें छोड़ दो (उन पर आक्रमण नहीं करना है)।

तस्य तद्वचनं श्रुत्वा क्षोभयुक्ता महासुराः । जगुस्तं मायया युक्ताः क्रोधं भेदपरायणाः ॥३५॥ अस्माकमिष्टदेवोऽयं सूर्यः स्वामिन्न संशयः । भजिष्यामो विशेषेण तं सदा भक्तिलालसम् ॥३६॥ देवानां पक्षमुत्सृज्येच्छत्यस्माकं हितं यदि । तदा वंद्योऽर्यमा नाथ नान्यथा जयं तं बलात् ॥३७॥ परपक्षाश्रितं देवमस्मत्संहनने रतम् । जयिष्यामो वयमतो हितं राजन् समाचर ॥३८॥ दैत्येशानां वचः श्रुत्वा क्रोधः संहर्षितोऽभवत् । दूतं संप्रेषयामास रावणं गर्वसंयुतम् ॥३९॥ रावणात् सर्ववृत्तांतं ज्ञात्वा भानुः प्रतापवान् । तमुवाच तदा क्रुद्धो भयभीतश्च मानदौ ॥४०॥ रविरुवाच । देवानां पक्षमुत्सृज्य क्रोधासुरपरायणः । न भविष्यामि भो दूत देवोऽहं नात्र संशयः ॥४१॥ उन्मत्तं वरसंयुक्तं क्रोधं वद महामते । त्यक्त्वा राज्यं वने भानुर्गतो राज्यं कुरुष्व च ॥४२॥ एवमुक्त्वा रावणं स सूर्यः सर्वसमन्वितः । पपाल लोकमुत्सृज्य रावणस्तं समाययौ ॥४३॥ ततोऽतिहर्षितो दैत्यः क्रोधो दुष्टैः समावृतः । आययौ सौरलोकं तं मुमुदे प्राप्य दुर्जनः ॥४४॥ आत्मानं कृतकृत्यं स मानयामास दुर्मतिः । ब्रह्मांडविजयी भूत्वा भोगांश्च बुभुजे परान् ॥४५॥ ततः संस्थाप्य दैत्येंद्रान् तेषु स्वर्गेषु दैत्यपः । पृथिव्यां नगरं मुख्यमाययौ प्रीतिसंज्ञकम् ॥४६॥ क्रोधासुरोऽसौ तत्रस्थः प्रशाशास प्रतापवान् । त्रैलोक्यं भोगसंयुक्तः सुहृदानंददायकः ॥४७॥ स्त्रीमांसमदिरासक्तो बभूव विषयप्रियः। न बुबोध गतं कालं यथाकालेन वंचितः ॥४८॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते क्रोधासुरब्रह्मांडविजयो नाम चतुर्थोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । ततोऽतिमदसंयुक्तोऽसुरः क्रोधः प्रतापवान् । दैत्यानाज्ञापयत् क्रूरान् कर्मणः खंडनाय तान् ॥१॥ तस्याज्ञया ययुर्दैत्या यत्र तत्र महीतले । ब्राह्मणांस्ताडयामासुर्वर्णाश्रमप्रवर्तकान् ॥२॥ अन्यान् वर्णांस्तथा गृह्य कर्महीनांश्च चक्रिरे । देवतीर्थादिकं दैत्या बभंजुर्यज्ञवृक्षकान् ॥३॥ सर्वत्र त्रासिता लोकाः कर्महीना बभूविरे । न स्वाहा न स्वधा कुत्र न वषट्कार एव च ॥४॥ ततो विप्रानुवाचाऽथ क्रोधासुरः प्रतापवान् । मदीयनामसंयुक्तं कर्म कुर्वंतु विप्रपाः ॥५॥ जगदीशॊ महाभागा अहं द्विजा न संशयः । भजतां पादयोर्मे नो दुर्लभं किं भविष्यति ॥६॥ ततो द्विजास्तपोनिष्ठा गता वनेषु मानदौ । त्यक्त्वा विषयजं सौख्यं सिंहव्याघ्रयुतेषु ते ॥७॥ केचिद् भ्रष्टास्तदाज्ञायां संस्थिता

पान १०

दुःखसंयुताः । वर्णाश्रमविहीनाश्च जनाः सर्वे बभूविरे ॥८॥ सर्वत्र क्रोधकस्यैव प्रतिमा स्थापिताऽभवत् । गृहे गृहे तथा तस्याऽसुरैः पूजा प्रवर्तिता ॥९॥ एवं हा हा कृतं सर्वं त्रैलोक्यं तेन वैरिणा । देवाः सर्वे भयोद्विग्ना बभूवुः कर्मखंडनात् ॥१०॥ कर्मखंडनभावेनोपोषणैः संयुताः सुराः । ततस्तस्य विनाशार्थं यत्नवंतो बभूविरे ॥११॥ न प्रापुस्तस्य शांत्यर्थ- मुपायं ते सुरेश्वराः । ततोऽतिखेदसंयुक्ता बभूवुस्त्रासकंपिताः ॥१२॥ एतस्मिन्नंतरे तत्र वसिष्ठो योगिनां वरः । जगाद तान् सुरेशानान्निःश्वस्य हितकारकः ॥१३॥ वसिष्ठ उवाच । उत्पत्तिस्थितिसंहारैर्वयं युक्ता न संशयः । अस्मभ्यो मरणं तस्य न भविष्यति निश्चितम् ॥१४॥ स्वानंदवासकरणं गणेशं ब्रह्मनायकम् । त्रिभिर्हीनं जगुर्वेदास्तं सेवध्वं सुरेश्वराः ॥१५॥ हत्वा क्रोधासुरं सोऽपि स्वपदानि प्रदास्यति । अस्मभ्यं नात्र संदेहं कुर्वंतु प्रयताः सुराः ॥१६॥ वसिष्ठवचनं श्रुत्वा हर्षयुक्ताः सुरर्षयः । साधु साधु मुनिं सर्वे जगुर्ज्ञाननिधिं परम् ॥१७॥ ततस्ते मंत्रराजं वै जेपुर्लंबोदरस्य च । भक्तियुक्तास्तपोनिष्ठा ध्यानसंस्था बभूविरे ॥१८॥ नानानुष्ठानयोगैश्चातोषयंस्ते गजाननम् । उपोषणपराः सर्वे विधियुक्ता महामुनी ॥१९॥ एवं वर्षसहस्रे च प्रगते तोषसंयुतः । लंबोदरः प्रसन्नात्मा तान् ययौ वरदायकः ॥२०॥ समागतं गणेशानं दृष्ट्वा देवर्षयः पुरः । उत्थाय हर्षसंयुक्ताः प्रणेमुर्दंडवद्भुवि ॥२१॥ पुपूजुर्भक्तिसंयुक्ताः प्रभुं नानोपचारकैः । पुनः प्रणम्य संतुष्टास्तुष्टुवुः करसंपुटैः ॥२२॥ देवर्षय ऊचुः । नमस्ते गणनाधाय लंबोदरधराय च । गजवक्त्राय सर्वेषां नमः पूज्याय ते नमः ॥२३॥ स्वानंदपतये तुभ्यं सर्वस्वानंददायिने । अनाधाय च सर्वेषां नायकाय नमो नमः ॥२४॥ नमो विघ्नेश्वरायैव भक्तविघ्नविनाशिने । अभक्तानां महाविघ्नकारकाय नमो नमः ॥२५॥ उत्पत्तिस्थितिसंहारहीनाय सर्वरूपिणे । अनादये परेशाय महोदर नमोऽस्तु ते ॥२६॥ मायिनां मोहकायैव मायाविने परात्मने । सर्वसिद्धिप्रदायैव नानाविद्याकलात्मने ॥२७॥ अपाराननरूपायपारहस्तपदाय च । गुणेशाय गुणानां ते चालकाय नमो नमः ॥२८॥ आदिमध्यांतरूपायादि- मध्यांतस्वरूपिणे । अनाकाराय ते चाकारयुक्ताय नमो नमः ॥२९॥ ज्येष्ठराजाय ज्येष्ठानां पतये सर्वदायिने । आदिपूज्याय चांते ते संस्थिताय नमो नमः ॥३०॥ नानाविधं जगत् सर्वं ब्रह्म नानाविधं प्रभो । संभूतमदुरात्ते वै तेन लंबोदरो भवान् ॥३१॥ तवोदरभवाः सर्वे त्वं न कस्योदरोद्भवः । तेन लंबोदरोऽसि त्वं लंबोदर नमोऽस्तु ते ॥३२॥ सर्वेषामुदराणां त्वं पारं जानासि विघ्नप । उदरस्य न कस्तेऽपि पारं जानाति ते नमः ॥३३॥ एतादृशोऽयमानंदनामानंदप्रदायकः । प्रत्यक्षं

[हेडर] खं. ५ अ ६ पान ११


दृष्टिगो जातोऽस्माकं धन्या वयं ततः ॥३४॥ मनोवाणीविहीनो न मनोवाणीमयो न च । लंबोदरः समायात आश्चर्यं भाति ते नमः ॥३५॥ किं स्तुवीमः गणेशानं यन्न वेदादयः प्रभो । शांतिं प्राप्ता वयं तन्न नः प्रसीद नमो नमः ॥३६॥ एवमुक्त्वा सुराः सर्वे ननृतुर्मुनयस्तथा । तानुवाच गणेशानो मेघगंभीरनिःस्वनः ॥३७॥ लंबोदर उवाच । वरं ब्रूत महाभागा देवेंद्र मुनयोऽमलाः । तपसा मनसाऽभीष्टं भक्त्या तुष्टो ददाम्यहम् ॥३८॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् । पठते शृण्वते चेहामुत्र सौख्यप्रदं परम् ॥३९॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । नानासिद्धिप्रदं चास्तु मम भक्तिविवर्धनम् ॥४०॥ ब्रह्मोवाच । लंबोदरवचः श्रुत्वा हृष्टा देवर्षयोऽभवन् । जगुस्तं प्रणिपत्यैव सर्वेषां भक्तपालकम् ॥४१॥ देवर्षय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा क्रोधासुरं नाथ मारयस्वाधुना प्रभो ॥४२॥ स्थानभ्रष्टा वयं तेन कृताः कर्मविहीनकाः । ऋषयश्च जगत् सर्वं स्वधास्वाहाविवर्जितम् ॥४३॥ अतो लंबोदर स्वामिंस्तवोदरसमुद्भवन् । एकं हत्वा तथा सर्वान् रक्ष स्वभक्तकान् प्रभो ॥४४॥ भक्तिं देहि त्वदीयां नः सर्वक्रोधविनाशिनीम् । तया शांतिसमायुक्ता भजिष्यामो विशेषतः ॥४५॥ तव भक्तिर्यदा प्राप्ता लंबोदर तदा शुभम् । भुनक्ति सर्वदा स्वामिन् ब्रह्मभूतः स वै स्मृतः ॥४६॥ सर्वं मुनीनां देवानां वचः श्रुत्वा महाप्रभुः । लंबोदरश्च तान् प्राह तथेति भक्तियंत्रितः ॥४७॥ ततः सोऽंतर्हितो देवो देवास्तत्रैव संस्थिताः । मुनयश्च भयोद्विग्नाः कालकांक्षां प्रचक्रिरे ॥४८॥ ॥ ओमिति श्रीमदान्त्या पुराणेपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते देवर्षिवरप्रदानं नाम पंचमोऽध्यायः ॥


॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । विश्वामित्रवसिष्ठौ च शृणुतं परमाद्भुतम् । चरितं गणनाथस्य महाशांतिप्रदायकम् ॥१॥ कदाचित् क्रोधको दैत्यः सभासनगतोऽभवत् । तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥२॥ लंबोदरश्च मुनिभिर्देवैः सार्धं वधाय ते । प्रार्थितः स तु हत्वा त्वां जगत् सुखि करिष्यति ॥३॥ तच्छ्रुत्वा मूच्छितं क्रोधं सहसा भयविह्वलम् । तं दैत्येंद्राश्च विप्रर्षी सावधानं प्रचक्रिरे ॥४॥ शोकयुक्ता विशेषेण पप्रच्छुस्तं महासुराः । बल्याद्या भयभीताश्च किं जातं वद मानद ॥५॥ दैत्येशानां वचः श्रुत्वा भययुक्तो महासुरः । जगाद तान् स वृत्तांतमाकाशे वाक्समुद्भवम् ॥६॥ तच्छ्रुत्वा

खं. ५ अ. ६ पान १२ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 कुपिता दैत्यास्तमूचुर्मदसंयुताः । देवान् मुनिगणांश्चाथ हनिष्यामोऽद्य निश्चितम् ॥७॥ अस्माकं शत्रवो देवास्तैः कृतं दारुणं महत् । आज्ञापय महाभाग सर्वान् देवजिघांसया ॥८॥ ततोऽतिहर्षितः क्रोधः स्वयं युद्धाय सज्जितः । दैत्येशैः संवृतः सद्यो ययौ शैलेंद्रमुख्यकम् ॥९॥ समागतं महाक्रोधं दैत्येशैः संवृतं ततः । देवाः सर्वे भयोद्विग्नाः सस्मरुर्गुणनायकम् ॥१०॥ तेषां स्मरणमात्रेण लंबोदरः प्रतापवान् । मूषकारूढ एवासावागतोऽभून् महाप्रभुः ॥११॥ पाशादिशस्त्रसंयुक्तं सिद्धिबुद्धि- समन्वितम् । नाभिशेषं त्रिनेत्रं तं ददृशुश्च सुरर्षयः ॥१२॥ ततस्तं ते प्रणेमुर्वै भयं त्यक्त्वा सुहर्षिताः । स्तुत्वा वृत्तांतमुग्रं तं कथयामासुराहताः ॥१३॥ श्रुत्वा वृत्तांतमुग्रं स तान् जगाद सुराधिपान् । लंबोदरः प्रसन्नात्मा मुनीन् क्रोधयुतः प्रभुः ॥१४॥ लंबोदर उवाच । मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् । स्वधर्मस्थान् जनान् सर्वान् करिष्यामि न संशयः ॥१५॥ ततः क्रोधासुरस्तत्र समीपे समुपागतः । दृष्ट्वा लंबोदरं देवं भयभीतो बभूव ह ॥१६॥ उवाच दैत्यपांस्तत्र सत्या वाक् सा न संशयः । अयं लंबोदरो नूनं देवैः संप्रार्थ्यतेऽसुराः ॥१७॥ तस्य तद्वचनं श्रुत्वा दैत्याः क्रोधारुणेक्षणाः । ऊचुस्तं दैत्यनाथं ते गर्वयुक्ता बलान्विताः ॥१८॥ दैत्येशा ऊचुः । लंबोदरयुतान् देवान् हनिष्यामो न संशयः । मा कुरुष्व वृथा चिंतां रक्ष पृष्ठं महामते ॥१९॥ देहधारी गणाध्यक्ष आगतो नात्र संशयः । उत्पत्तिनाशवान् देहः किं करिष्यति तेऽशुभम् ॥२०॥ काव्यं दैत्यगणास्तत्र सस्मरुर्भक्तिसंयुताः । तेषां स्मरणमात्रेण स चापि ह्यागतोऽभवत् ॥२१॥ तं प्रणम्य गुरुं दैत्या वृत्तांतं सर्वमंजसा । कथयंति स्म तं श्रुत्वा शुक्रस्तान् प्रत्युवाच ह ॥२२॥ शुक्र उवाच । सिद्धिपतिं परित्यज्य सिद्धिमिच्छति दुर्मतिः । तथा त्यक्त्वा बुद्धिपतिं स्फूर्तिमिच्छति मूर्खवत् ॥२३॥ विघ्नराजं सदैकं यं तं त्यक्त्वा विघ्नहीनकाः । कथं भवंति वदत दैत्येंद्रा मां विनिश्चयात् ॥२४॥ अतो युद्धं परित्यज्य शरणं तस्य शोभनम् । भविष्यति न संदेहो नोचेत् क्रोधो मरिष्यति ॥२५॥ शुक्रस्य वचनं श्रुत्वा बलिस्तत्र जगाद तम् । कर्मणा सिद्धिदाताऽयं स्फूर्तिदाता भवत्यहो ॥२६॥ कर्मणा विघ्नहीनत्वं सविघ्नं प्रकरोति च । अतो वयं महायोगिन् कर्मणा तं जयामहे ॥२७॥ तस्य तद्वचनं श्रुत्वा सर्वे दैत्येंद्रकादयः । साधु साध्वब्रुवंस्तत्र संग्रामायोद्यता बभुः ॥२८॥ ततो भावि बलं वीक्ष्य काव्यस्तत्र मुनीश्वरौ । तूष्णींभावं समाधृत्य संस्थितोऽभूत् स योगवित् ॥२९॥ देवाः सर्वे महास्त्रैस्ते युक्ताः क्रोधसमन्विताः । आययू रणभूमिं च दैत्येशाश्च तथा ययुः ॥३०॥ ततः परस्परं युद्धं बभूवे दारुणं महत् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥३१॥ देवा दैत्या युयुधिरे 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐

खं. ५ अ. ७ पान १३ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ कृत्वा मरणनिश्चयम् । शस्त्रास्त्रैर्बलगर्वेण प्रेरिता रणदुर्मदाः ॥३२॥ वीराणामभवन्नादैर्वादित्राणां च वाजिनाम् । बृंहितानां च शंखानां दिशो नादयतास्ततः ॥३३॥ सैन्यपादभवो रेणुश्छादयामास भास्करम् । नाभूत् स्वपरबोधोऽपि जघ्नुस्ते च परस्परम् ॥३४॥ ततो रक्तप्रवाहश्च संभूतः शस्त्रघाततः । रजःकणास्तेन सर्वे मज्जिता अभवन् मृधे ॥३५॥ ततः परस्परं दृष्ट्वा जघ्निरे क्रोधसंयुताः। देवाश्च दानवास्तद्वत् परस्परजये रताः॥३६॥ दिनत्रयमभूद्युद्धं घोरं सर्वभयावहम् । ततो दैत्यगणाः सर्वे पपलुस्त्राससंयुताः ॥३७॥ देवा हर्षयुतास्तत्र जय लंबोदर प्रभो । ऊचुस्तान् हंतुमायाता दैत्येशाः क्रोधसंयुताः ॥३८॥ बलिश्च रावणो जृंभो माल्यवान् कुंभकर्णकः । राहुश्चान्ये महावीराः संख्यातुं न प्रशक्यते ॥३९॥ तैः शस्त्रनिचयैर्देवाः संहताः पपलुस्तदा । हित्वा संग्रामभूमिं ते छिन्नभिन्नाः समंततः ॥४०॥ तत इंद्रश्च संक्रुद्धः शंकरो विष्णुरेव च । सूर्यश्चंद्रश्च देवेंद्रा आययुः क्रोधसंयुताः ॥४१॥ तैरस्त्राणां महावृष्टिः कृता परमदारुणा । तया दैत्यगणाः सर्वे पपलुश्च दिशो दश ॥४२॥ ततोऽतिक्रोधसंयुक्ता रावणाद्याः समाययुः । द्वंद्वयुद्धमभूद्धोरं सर्वेभ्यो भयदायकम् ॥४३॥ जृंभो ययौ महेंद्रेण राहुः सूर्येण संयुगे । बलिश्च विष्णुना क्रुद्धो रावणः शंकरेण च ॥४४॥ कुंभकर्णश्च चंद्रेण नाना दैत्येंद्रकादयः । देवेंद्रैर्वायु- मुख्यैश्च युयुधुर्जयकांक्षिणः ॥४५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते देवासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः ॥ ❧❦❧ ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एकरात्रं महाघोरं युद्धं बभूव दारुणम् । ततो रक्तप्रवाहैश्च नद्यो जाता जलौघवत् ॥१॥ न जयः प्राप्यते देवैर्नासुरैर्यमसन्निभैः । मघवा वज्रपातैस्तांश्चूर्णयामास दानवान् ॥२॥ ततो जृंभोऽतिसंक्रुद्धो गदामादाय दारुणाम् । युयुधे देवराजेन महाबलपराक्रमः ॥३॥ गदया देवराजं स मूर्च्छितं प्रचकार ह । ततो हाहाकृतं सर्वैर्देवसैन्यं पपाल तत् ॥४॥ इंद्रः संज्ञासमायुक्तः पुनः संयुयुधे भृशम् । वज्रेण पातयामास जृंभं तं धरणीतले ॥५॥ त्रिशूलेन हतस्तत्र रावणः पतितो भुवि । शंकरेण ततः सर्वे पपलुर्दानवा मृधे ॥६॥ गदया विष्णुना तत्र बलिः संमूर्च्छितः कृतः । कुंभकर्णश्च चंद्रेण पीडितो मूर्च्छितोऽभवत् ॥७॥ राहुः सूर्येण संग्रामे तेजसा पीडितो भृशम् । पपात मूर्च्छया भूमौ हा हा कृत्वा ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

महामुनी ॥८॥ द्वंदयुद्धं परे ये ये ह्यकुर्वन्नमरैर्बलात् । ते ते सर्वे च देवेंद्रैर्जिताः सर्वे पलायिताः ॥९॥ भक्तवत्सलभावेन शंकरो विष्णुरंजसा । रावणं च बलिं तत्र चक्रतुर्न मृतौ मृधे ॥१०॥ ततोऽतिकोपसंयुक्ता देवेंद्राः शस्त्रवृष्टिभिः । असुरान् मारयामासुः सर्वत्र भयसंयुतान् ॥११॥ प्रलयं मेनिरे तत्र दैत्यास्त्राससमाकुलाः । देवांस्ते शरणं जग्मुः केचित् प्राणपरीप्सया ॥१२॥ जय लंबोदर स्वामिन् जय विघ्नेश देवप । हेरंब वक्रतुंड त्वं जयेत्यूचुः प्रहर्षिताः ॥१३॥ दैत्यानां कदनं दृष्ट्वा क्रोधः परमविस्मितः । निःश्वस्य चिंतया युक्तो बभूवे किं भविष्यति ॥१४॥ पितुः शोकं विदित्वा तौ हर्षः शोकश्च संयुगे । ययतुः शस्त्रवर्षेण ववर्ष तौ घनौ यथा ॥१५॥ तयोर्मोघरूपैश्च शस्त्रैर्देवा हता मृधे । छिन्नांगाः पपतुस्तत्र दैत्यसंत्रासतापिताः ॥१६॥ इंद्रं च सहसाऽऽगत्य शोकः परमदारुणः । चकार मूर्च्छितं सद्यो गदया मूर्ध्नि घाततः ॥१७॥ संगृह्य स्वबले सोऽपि स्थापयामास देवपम् । ततः शुक्रेण दैत्येंद्रा विद्यया नीरुजाः कृताः ॥१८॥ बलिमुख्या ययुः संग्रामं पुनश्च महामुनी । चक्रेण सहसा हर्षश्चंद्रं चक्रे स मूर्च्छितम् ॥१९॥ ततः कोपसमायुक्तः शंकरो युयुधे भृशम् । त्रिशूलेन महादैत्यान् जघान सकलान् प्रभुः ॥२०॥ शंकरस्य बलं वीक्ष्य हर्षस्तत्र समाययौ । युयुधे तेन दैत्येंद्रपुत्रस्तेजस्विनां वरः ॥२१॥ नानाविधं महाघोरं युद्धं बभूव दारुणम् । हर्षस्य शंकरस्यैव परस्परजयैषिणोः ॥२२॥ ततस्त्रिशूलघातेन शंकरस्तं जघान ह । पतितं मूर्च्छितं हर्षं दृष्ट्वा दैत्या भयातुराः ॥२३॥ पतितान् दैत्यपान् दृष्ट्वा काव्यस्तत्र समागतः । हर्षं मूर्च्छाविहीनं वै चकार स्वेन तेजसा ॥२४॥ ततो हर्षसमायुक्ता दैत्येंद्रा युयुधुर्भृशम् । विष्णुस्तेषां बलं वीक्ष्य चक्रं मुमोच दारुणम् ॥२५॥ चक्रेण क्षुरधारेण हता दैत्या अनेकशः । प्रपेतुर्भयसंयुक्ताश्छिन्नभिन्नांगका मृधे ॥२६॥ ततः शोकः समायातः शूलं मुमोच तैजसम् । आगत्य सहसा विष्णोः पपात हृदि विप्रपौ ॥२७॥ ततः संमूर्च्छितस्तत्र पपात च जनार्दनः । दैत्या हर्षयुताः सर्वे नादं चकुर्महारणे ॥२८॥ ततो हर्षो महाक्रोधाद्गदया मृत्युकल्पया । चकार शंकरं तत्र पतितं मूर्च्छया भृशम् ॥२९॥ ततो हा हा रवं कृत्वा देवाः सर्वे पराजिताः । प्रपेतुः सर्वदेवेंद्रा दैत्याभ्यां त्रासिता बलात् ॥३०॥ तद् दृष्ट्वा परमाश्चर्यं लंबोदरः प्रतापवान् । अंकुशं क्रोधसंयुक्तो मुमोच दैत्यमंडले ॥३१॥ तेजोरूपं महास्त्रं तद् दृष्ट्वा दैत्या विसिस्मिरे । यावत्तावच्च दैत्येंद्रौ हतौ हर्षश्च शोककः ॥३२॥ मायया गणनाथश्च शुक्रं गृह्य गुहांतरे । चिक्षेप च ततः सर्वे प्रपेतु राहुमुख्याकाः ॥३३॥ ततोऽतिकोपसंयुक्तः क्रोधः स्वयमुपागतः । पुत्रशोकं हठात् गृह्य बाणवृष्टिं चकार ह ॥३४॥

तद्बाणैरपि तत्रस्था देवाः सर्वे महामुनी । छिन्नांगा अपलन् सद्यो हाहाकाररवा दिशः ॥३५॥ लंबोदरः समाश्वास्य देवेशस्तान् प्रतापवान् । आययौ रणभूमिं स पाशहस्तोऽसिधारकः ॥३६॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते क्रोधासुरसमागमो नाम सप्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । लंबोदरं महादैत्यः समालोक्य रणं गतः । जगाद क्रोधसंयुक्तः क्रोधः सर्वविचारवित् ॥१॥ क्रोधासुर उवाच । लंबोदर महामूर्ख किमर्थं रणमागतः । देवानां हितमिच्छन् सन् मरिष्यसि च मेऽग्रतः ॥२॥ येन ब्रह्मांडगं पूर्णं जितं देवादयः कृताः । पशुतुल्या वने संस्था जेतुमिच्छसि तं मुधा ॥३॥ मम क्रोधो दहेत् सर्वं त्रैलोक्यं सचराचरम् । तत् पुरः कथमायातः संग्रामाय सुयंत्रितः ॥४॥ त्वया मदीयकं सैन्यं हतं पुत्रौ हतौ तथा । अधुना शोक- संयुक्तो हनिष्यामि मदान्वितम् ॥५॥ शरणं याहि मां नो चेन् मरिष्यसि गजानन । उदरं स्फोटयिष्यामि बाणेनैकेन ते महत् ॥६॥ इत्यादि विविधैर्वाक्यैर्लंबोदरं महासुरः । भर्त्सयामास तं देवो जगाद मदसंयुतम् ॥७॥ लंबोदर उवाच । किं मां वदसि दैत्येंद्र हनिष्यामि महाखलम् । त्वां धर्मस्य निहंतारं स्वधर्मस्थापको ह्यहम् ॥८॥ सूर्यदत्ताद् वराद् दुष्ट दुष्कर्मरतो भवान् । अतिपापैश्च तत् सर्वं निष्फलं ते बभूव ह ॥९॥ उत्पत्तिनाशयुक्तेभ्यो मरणं नैव ते भवेत् । नाऽहं जातो न दैत्येंद्र मरिष्यामि कदाचन ॥१०॥ ब्रह्मभूतं च मां विद्धि सदा स्वानंदवासिनम् । कथं जेष्यसि तं दुष्ट मनोवाणीविवर्जितम् ॥११॥ लंबोदरस्य वचनं श्रुत्वा तत्तस्य धीमतः । उवाच विस्मितो भूत्वा तं पुनर्देत्यनायकः ॥१२॥ क्रोधासुर उवाच । न जातोऽसि यदा ब्रह्मन् कथं देहधरोऽसि वै । मनोवाणीविहीनश्चेत् कथं पश्यामि मां वद ॥१३॥ लंबोदर उवाच । इयं मदीय- वामांगे सिद्धिर्भ्रांतिस्वरूपिका । सिद्ध्यर्थं सर्वलोकाश्च भ्रमंति भ्रांतिसंयुताः ॥१४॥ दक्षिणांगे स्वयं बुद्धिः संस्थिता भ्रांति- धारिणी । बुध्या बुध्या पुनस्तत्र भ्रांतो भवति मानवः ॥१५॥ चित्तरूपा स्वयं बुद्धिः पंचधा परिकीर्तिता । पंचभ्रांतिमयी सिद्धिस्तयोः पतिरहं किल ॥१६॥ नाना विश्वं महादैत्य नाना ब्रह्म तथा सदा । मदीयोदरगं विद्धि तेन लंबोदरः स्मृतः ॥१७॥ ममोदरात् समुत्पन्नं मया संपालितं तथा । अंते उदरगं कृत्वा क्रीडयामि निरंतरम् ॥१८॥ अतो मां शरणं गच्छ

खं. ५ अ. ८ पान १६ जीवितुं यदि वाञ्छसि । शुक्रो मां वेत्ति तेन त्वं बोधितोऽपि न बुद्ध्यसे ॥१९॥ नाऽहं दैत्यवधाकांक्षी तथा देववधप्रियः । स्वस्वधर्मयुतान् सर्वान् पालयामि न संशयः ॥२०॥ पाताले दैत्यपाः सर्वे नरा भूमौ सुरा दिवि । संस्थिताश्चेदहं दैत्य स्वानंदस्थो भवामि च ॥२१॥ देवाः क्रोधसमाविष्टा जघ्नुर्दैत्यान् विशेषतः । पातालस्थांस्ततोऽहं वै दैत्येभ्यः सिद्धिदोऽभवम् ॥२२॥ पुनस्तपोयुता दैत्या जित्वा देवान् महाबलान् । कर्मखंडनभावेन हंतुमिच्छां प्रचक्रिरे ॥२३॥ तदाऽहं देवसंघेभ्यः सिद्धिदाताऽभवं पुरा । तेन छिद्रज्ञका देवा जघ्नुः सर्वानसुरान् पुनः ॥२४॥ त्वया सर्वं जितं दैत्य देवमूलनिकृंतनः । सर्वेंद्रस्तेन भवसि त्वां हनिष्यामि निश्चितम् ॥२५॥ तस्य तद्वचनं रम्यं श्रुत्वा क्रोधासुरः पुनः । विस्मितस्तं जगादैव हर्षनिर्भरमानसः ॥२६॥ क्रोधासुर उवाच । नमामि त्वां गणाध्यक्ष सुरासुरमयं परम् । अधुना भक्तिसंयुक्तं पालयस्व शरण्यद ॥२७॥ दर्शय स्वात्मरूपं मे सर्वसंशयनाशनम् । लंबोदरार्थसंयुक्तं ब्रह्माकारं गजाननम् ॥२८॥ लंबोदरस्तस्य वाक्यं समाकर्ण्य सुहर्षितः । भक्तियुक्तं मनस्तस्य ज्ञात्वा रूपमदर्शयत् ॥२९॥ ज्ञानचक्षुश्च संदत्तं तेन दैत्याय तं पुनः । लंबोदरं महाक्रोधोऽपश्यत् परमविस्मितः ॥३०॥ ब्रह्मेशं प्रणनामाऽथ सरोमांचो महासुरः । लंबोदरः पुनस्तत्र पूर्वरूपो बभूव ह ॥३१॥ तत्र क्रोधासुरस्तं वै पूजयन् भक्तिसंयुतः । नत्वा तुष्टाव संहृष्टः साश्रुनेत्रः प्रतापवान् ॥३२॥ क्रोधासुर उवाच । लंबोदर नमस्तुभ्यं शांतियोगस्वरूपिणे । सर्वशांतिप्रदात्रे ते विघ्नेशाय नमो नमः ॥३३॥ असंप्रज्ञातरूपेयं शुंडा ते नात्र संशयः । संप्रज्ञातमयो देहो देहधारिन्नमो नमः ॥३४॥ स्वानंदे योगिभिर्नित्यं दृष्टस्त्वं ब्रह्मनायकः । तेन स्वानंदवासी त्वं नमः संयोगधारिणे ॥३५॥ समुत्पन्नं त्वदुदराज्जगन्नानाविधं प्रभो । ब्रह्म तद्ब्रह्म संदेहो लंबोदर नमोऽस्तु ते ॥३६॥ त्वदीय- कृपया देव मया ज्ञातं महोदर । त्वत्तः परतरं नास्ति परेशाय नमो नमः ॥३७॥ हेरंबाय नमस्तुभ्यं विघ्नहर्त्रे कृपालवे । आदिमध्यांतहीनाय तन्मयाय नमो नमः ॥३८॥ सिद्धिबुद्धिविहारज्ञ सिद्धिबुद्धिपते नमः । सिद्धिबुद्धिप्रदात्रे ते वक्रतुंडाय वै नमः ॥३९॥ सर्वात्मकाय सर्वादिपूज्याय ते नमो नमः । सर्वपूज्याय वै तुभ्यं भक्तसंरक्षकाय च ॥४०॥ अतः प्रसीद विघ्नेश दासोऽहं ते गजानन । लंबोदराय नित्यं नमो नमस्ते महात्मने ॥४१॥ स्वत उत्थानपरत उत्थाने ब्रह्म धारयन् । तवोदरात् समुत्पन्नं तं किं स्तौमि परात्परम् ॥४२॥ इति स्तुत्वा महादैत्यः प्रणनाम गजाननम् । तमुवाच गणाध्यक्षो भक्तं भक्तजनप्रियः ॥४३॥ लंबोदर उवाच । वरं वृणु महाभाग क्रोधासुर हृदीप्सितम् । दास्यामि भक्तिभावेन स्तोत्रेणाऽहं

[Header] खं. ५ अ. ९ | पान १७


हि तोषितः ॥४४॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठिष्यति तस्यैव क्रोधजं न भयं भवेत् ॥४५॥ शृणुयात्तस्य तद्वच्च भविष्यति न संशयः । यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ॥४६॥ क्रोधासुर उवाच । यदि लंबोदर त्वं मे प्रसन्नो वरदोऽसि भोः । तदा त्वत्पादपद्मे च भक्तिं देहि दृढां प्रभो ॥४७॥ आज्ञां कुरु महाभाग सेवार्थं तां करोम्यहम् । स्थानं वृत्तिं च मे देहि देहपोषणकारिणीम् ॥४८॥ ब्रह्मोवाच । क्रोधासुरस्य वाक्यं तच्छ्रुत्वा हर्षसमन्वितः । लंबोदरस्तं जगाद स पुनर्दैत्यनायकम् ॥४९॥ लंबोदर उवाच । मदीया सुदृढा भक्तिः प्रभविष्यति तेऽनघ । वस त्वं भयहीनश्च स्थाने ते नात्र संशयः ॥५०॥ यत्रारंभे महादैत्य मदीयं स्मरणं न हि । तत्र त्वं दैत्यभावेन कुरु राज्यं महामते ॥५१॥ तदीयपुण्यजं सर्वं भुंक्ष्व नित्यं सुकर्मजम् । ज्ञानादिसकलं तद्वत् त्वदीयं नात्र संशयः ॥५२॥ मद्भक्ता ये महादैत्य तान् रक्षस्व यथासुखम् । गाणपत्यप्रियस्त्वं वै भविष्यसि न संशयः ॥५३॥ एवमुक्तो महादैत्यः क्रोधः परमहर्षितः । लंबोदरं प्रणम्यैव ययौ स्वस्थानमुत्तमम् ॥५४॥ दैत्या राहुमुखाः सर्वे तं त्यक्त्वा भयसंयुताः । पातालं विविशुर्विप्रौ शुक्रः संहर्षितोऽभवत् ॥५५॥ एवं क्रोधासुरं शांतं चकार गणनायकः । क्रोधो गणेशभक्तिं वै कुर्वन् सन् संस्थितोऽभवत् ॥५६॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते क्रोधासुरशांतिवर्णनं नामाऽष्टमोऽध्यायः ॥


॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एवं क्रोधासुरं शांतं दृष्ट्वा देवर्षयोऽमलाः । हर्षयुक्ता विशेषेण पुपूजुर्गणनायकम् ॥१॥ पूजयित्वा विधानेन नेमुलँबोदरं पुनः । ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकंधराः ॥२॥ देवर्षय ऊचुः । श्रेष्ठं प्रधानं सकलादिभूतं सर्वांतगं पूर्णमनंतभावम् । नित्यं निजात्मानमचिंत्यसंस्थं लंबोदरं तं च वयं नताः स्मः ॥३॥ बोधेन हीनं स्वसुखे निमग्नं बीजात्मकं सांख्यमनंतवेद्यम् । वैदेहयोगेन च लभ्यमेवं लंबोदरं तं च वयं नताः स्मः ॥४॥ जीवं परानंदमयं परेशं बोधस्वरूपं प्रकृतेर्लयस्थम् । देहैर्विहीनं च तदात्महीनं लंबोदरं तं च वयं नताः स्मः ॥५॥ सोऽहं सदाभेदविवर्जितं वै देहात्मयोगं सकलावभासम् । नित्यं पुराणं पुरुषं गणेशं लंबोदरं तं च वयं नताः स्मः ॥६॥ बिंदुस्वरूपं मनसाऽथ गम्यं पादैर्विहीनं च चतुष्पदं यम् । नानात्मभेदाश्रितमेकदंतं लंबोदरं तं च वयं नताः स्मः ॥७॥ नादस्वरूपं च गुणेशमेकं

ख. ५ अ. ९ पान १८

सर्वत्र चक्षुः श्रुतितुंडभूतम् । सर्वत्र हस्तोदरपादपद्मं लम्बोदरं तं च वयं नताः स्मः ॥८॥ संस्थं सुषुप्तौ समभावदं वै द्वंद्वज्ञमाद्यं द्विविधावभासम् । आनंदकंदं तमसा विभातं लम्बोदरं तं च वयं नताः स्मः ॥९॥ सूक्ष्मस्वरूपं च तथान्तरस्थं सर्वज्ञमाद्यं गणनायकं यम् । विज्ञानकोशस्थविहारकारं लम्बोदरं तं च वयं नताः स्मः ॥१०॥ स्थूलस्वरूपं सकलाभिमानं श्रेष्ठं रजोयुक्तमनंतमाद्यम् । अन्नात्मभोगेषु विहारसिद्धं लम्बोदरं तं च वयं नताः स्मः ॥११॥ अध्यात्मरूपं तमसा चरंतं द्रव्यप्रकाशं परमार्थभूतम् । देहेंद्रियज्ञानमयं च ढुंढिं लम्बोदरं तं च वयं नताः स्मः ॥१२॥ नित्यं रजोदेहविकारगं वै कर्मस्वरूपं विविधेंद्रियस्थम् । तज्जाधिभूतात्मकमप्रमेयं लम्बोदरं तं च वयं नताः स्मः ॥१३॥ ज्ञानस्वरूपं सकलामरस्थं सर्वेंद्रियज्ञानकरं प्रभुं वै । तज्जाधिदैवप्रचुरं महांत्तं लम्बोदरं तं च वयं नताः स्मः ॥१४॥ आकाशरूपं सकलावभासं नादप्रचुरं सकलादिभूतम् । भूतैः सदा खेलकमादिनाथं लम्बोदरं तं च वयं नताः स्मः ॥१५॥ वायुस्वरूपं जगदेकचालं प्राणादिसंस्थं स्वविभागदं यम् । देहप्रचारं दश नामभिश्च लम्बोदरं तं च वयं नताः स्मः ॥१६॥ तेजःस्वरूपं सकलावभासं द्वंद्वप्रचारं जठरे सुसंस्थम् । संधौ सदा व्याप्य विभागकारं लम्बोदरं तं च वयं नताः स्मः ॥१७॥ जलस्वरूपं रसयुक्तमेव पुष्टिप्रदं षड्रसगं परेशम् । नित्यार्द्रभावस्य प्रकाशदं यं लम्बोदरं तं च वयं नताः स्मः ॥१८॥ पृथ्वीस्वरूपं च धराधरेशं सर्वान्नमूलं विविधौषधिस्थम् । आकाररूपं च गजाननं वै लम्बोदरं तं च वयं नताः स्मः ॥१९॥ विराट्स्वरूपस्थमनंतपारं सर्वत्रनेत्रं च सहस्रशीर्षम् । सर्वत्र हस्ताननपादकादिं लम्बोदरं तं च वयं नताः स्मः ॥२०॥ रजोयुतं सृष्टिकारं द्विजेशमादि- स्वरूपं प्रपितामहं यम् । समानभावेन सुरासुरस्थं लम्बोदरं तं च वयं नताः स्मः ॥२१॥ सत्त्वप्रचारं हरिरूपधारं यं तामसं शंकरवेषसंस्थम् । सूर्यप्रचारं जगदंबिकागं लम्बोदरं तं च वयं नताः स्मः ॥२२॥ इत्यादिभेदैः सुविराजमानं सर्वैर्विहीनं तु कथं स्तुवीमः । देवाः शिवाद्याश्च विकुंठिता वै लम्बोदरं तं च वयं नताः ॥२३॥ ब्रह्मोवाच । स्तुत्वा देवर्षयस्त्वेवं प्रणेमुस्ते गजाननम् । लम्बोदरस्तानुवाच महाभागान् सुसिद्धिदः ॥२४॥ भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । पठतां शृण्वतां सद्यः सर्वसिद्धिप्रदायकम् ॥२५॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदं परम् । भविष्यति सदा मान्यं सर्वकार्येषु सर्वदा ॥२६॥ मारणोच्चाटनादीनि स्तोत्रेणैव सुरर्षयः । भविष्यति न संदेहः परकृत्यविनाशनम् ॥२७॥ पुत्रपौत्रादिकं सर्वं लभते स्तोत्र- पाठतः । धनधान्यकलत्रादि सुखं विंदति मानवः ॥२८॥ कारागृहगतं सद्यो मोचयेत् स्तोत्रपाठतः । हृदीप्सितं लभेत् सर्व-

खं. ५ अ. ९ पान १९


मेकविंशतिवारतः ॥२९॥ एकविंशतिपाठांश्च स्तोत्रस्यास्य करिष्यति । स सद्यो हि फलं भुंक्त एकविंशदिनावधि ॥३०॥ प्रसन्नोऽहं प्रदास्यामि स्तोत्रेण मुनयोऽमराः। वरं ब्रूत महाभागा यद्यपि स्यात् सुदुर्लभम् ॥३१॥ लंबोदरवचो देवर्षयः श्रुत्वा प्रणम्य तम् । जगुः प्रहृष्टचित्तास्ते साश्रुनेत्राः सुयंत्रिताः ॥३२॥ देवर्षय ऊचुः । लंबोदर प्रसन्नोऽसि वरदोऽसि महाप्रभो । तव भक्तिं सुसंपूर्णां देहि क्रोधविवर्जिताम् ॥३३॥ क्रोधासुरस्त्वया नाथ कृतः सुशांतिधारकः। तेन विश्वं गणाधीश वरयुक्तं कृतं प्रभो ॥३४॥ स्वस्वकर्मरताः सर्वे भविष्यंति सुधर्मिणः । वयं च स्वाधिकारेषु स्थास्यामस्त्वत्प्रसादतः ॥३५॥ मुनयो भयहीनास्ते यथाऽऽचारकराः प्रभो । भविष्यंति गणाधीश कं वरं तु वृणीमहे ॥३६॥ एवमुक्त्वा प्रणेमुस्ते लंबोदरं सुखप्रदम् । ननृतुस्तत्पुरः सर्वे हर्षनिर्भरमानसाः ॥३७॥ लंबोदरस्तानुवाच तथेत्येव प्रतापवान् । अंतर्धानं चकाराऽसौ पश्यता- ममर्षीणाम् ॥३८॥ ततो देवा द्विजास्तत्र मूर्तिं कृत्वा सुशोभनाम् । चतुर्भुजां गणेशस्य स्थापयामासुरादरात् ॥३९॥ पश्चिमे सागरे तीरे पुपूजुस्तां विशेषतः । तदादि तत् समुद्भूतं क्षेत्रं लंबोदरस्य च ॥४०॥ अंशेन स्वाधिकारेषु स्थिता देवर्षयो- ऽमलाः । पूर्णभावेन तत्रैव भक्तिं कुर्वंति नित्यदा ॥४१॥ एतल्लंबोदरस्यैव कथितं सुचरित्रकम् । विश्वामित्रवसिष्ठौ च संश्रुतं क्रोधनाशनम् ॥४२॥ असङ्गब्रह्ममयो लंबोदरश्चायं गणेश्वरः । स्वतः परत उत्थानं करोति लीलया प्रभुः ॥४३॥ तस्य रूपं परं केन वक्तुं नैव प्रशक्यते । सर्वसंयोगयोगेन लभ्यते योगसेवया ॥४४॥ अयं लंबोदरश्चैव पूर्णयोगप्रवाचकः । संयोगायोगयोर्योगे लभ्यते योगसेवया ॥४५॥ उदरात्तस्य संभूतौ संयोगायोगरूपकौ । तेन लंबोदरश्चायं कथ्यते वेदवादिभिः ॥४६॥ असित उवाच । एवमुक्त्वा स्वयं ब्रह्मा विरराम महामते । वसिष्ठस्तं प्रणम्यैव गतः स्वाश्रममंडले ॥४७॥ विश्वामित्रश्च मेधावी निःश्वस्य स्वस्थलं गतः । एवं गते मया तत्र पृष्टः सोऽपि पितामहः ॥४८॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे गजाननचरिते लंबोदरदेवर्षिकृतस्तुतिवर्णनं नाम नवमोऽध्यायः ॥

ख. ५ अ. १० | पान २०

॥ श्रीगणेशाय नमः॥ नैध्रुव उवाच। श्रुत्वा कथां महाभाग क्रोधशांतिकरीं प्रभो। न तृप्यामि पुनः स्वामिन् वद विघ्नेश- चेष्टितम् ॥१॥ त्वया पृष्टः कथं ब्रह्मा स जगाद किमप्यहो। तद्वदस्व दयासिंधो तात योगप्रदं हि चेत् ॥२॥ मुद्गल उवाच। एवं पृष्टो महातेजा नैध्रुवेण पितृव्यकः। कथांतरमुवाचेदं महायोगप्रदं महत् ॥३॥ असित उवाच। शृणु पुत्र प्रवक्ष्यामि योगशांतिपदप्रदम्। गणेशानस्य माहात्म्यं ब्रह्मेशस्य विचक्षण ॥४॥ ब्रह्माणं च प्रणम्यादावपृच्छं विनयान्वितः। वद तात महायोगं शांतिदं सर्वतारक ॥५॥ सहजे च महायोगिन् स्वाधीनत्वं प्रदृश्यते। स्वेच्छामयं कथं नाथ भवति ब्रह्म ते नमः ॥६॥ अतः शांतिविहीनौ त्वां समागतौ न संशयः। शांत्यर्थं वद किं सेव्यं करिष्यावस्त्वदाज्ञया ॥७॥ असित उवाच। वत्सरेण मया तात पृष्टः सर्वविदां वरः। उवाच प्रेमसंयुक्तो गाणपत्यः पितामहः ॥८॥ ब्रह्मोवाच। कर्मज्ञानं समं ब्रह्म सहजं तु चतुर्थकम्। तेषां संयोगाभावे वै स्वानंदो मौनधारकः ॥९॥ तत्र स्वाधीनगं ब्रह्म पराधीनं कुतस्त्रिधा। स्वसंवेद्यमयेनैव सुतो योगेन लभ्यते ॥१०॥ संयोगो मायया युक्तः सर्वसंयोगभावतः। अयोगे सर्वसंयोगो नश्यति व्यतिरेकतः ॥११॥ निवृत्त्या स्वधिया ब्रह्म प्राप्यते नान्यथा कचित्। स्वकीयाऽभेदतस्तत्र निवृत्तिर्योगिभिर्धृता ॥१२॥ संयोगायोगयोर्योगे योगः शांतिप्रदायकः। शांत्या स एव लभ्यश्च सुतौ भवति नान्यथा ॥१३॥ शांतिरूपधरं पूर्णं गणेशं संवदंति च। वेदास्तं भावसंयुक्तो मुनी यदि भजिष्यथः ॥१४॥ तदा शांतियुतौ योगी भवंतौ योगिसंमतौ। भविष्यथो महाभागौ नान्यथा मे वचोऽनृतम् ॥१५॥ संप्रज्ञातमयो देहोऽसंप्रज्ञातमयं शिरः। गजाकारं तयोर्योगे गणेशो देहधारकः ॥१६॥ गणाः समूहरूपाश्च समूहा ब्रह्मवाचकाः। तेषां स्वामी न संदेहो गणेशो नामधारकः ॥१७॥ चित्तरूपा महाबुद्धि- श्चित्तमोहकरी मता। सिद्धिस्तयोः पतिः साक्षाद्गणेशो वेदवादतः ॥१८॥ चित्तं मोहयुतं त्यक्त्वा चिंतामणिं भजिष्यथः। योगशांत्या महाभागौ नित्यं तं योगरूपकम् ॥१९॥ असित उवाच। एवमुक्त्वा विधाता वां विरराम महामते। वत्सरेण समायुक्तस्तं प्रणम्य वनेऽगमम् ॥२०॥ आवाभ्यां साधितं पुत्र यथोद्दिष्टं च वेधसा। शमदमयुताभ्यां वै शांतिः प्राप्ता सुनिश्चला ॥२१॥ तथापि गणराजस्य भजने निरतौ पुरा। गते वर्षे गणाध्यक्ष आययौ वरदायकः ॥२२॥ तं दृष्ट्वा प्रणतौ देवं पुनः पूज्य यथाविधि। गणेशानं तुष्टुविव भक्त्या नम्रात्मकंधरौ ॥२३॥ असितवत्सरावूचतुः। लंबोदर नमस्तुभ्यं सततं योगरूपिणे। योगाकारशरीराय योगशांतिप्रदायिने ॥२४॥ विघ्नेशाय महाभक्तानां विघ्नहरणाय च। अभक्तानां

महाविघ्नकारिणे ते नमो नमः ॥२५॥ स्वानंदवासिने तुभ्यं सदा स्वानंददायिने । मूषकवाहनायैव मूषकध्वज वै नमः ॥२६॥ अनाथाय गणेशाय सर्वेषां नाथरूपिणे । नाथानां नाथरूपाय विनायक नमोऽस्तु ते ॥२७॥ हेरंबाय च सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठ ते नमः ॥२८॥ अमेयायाऽप्रेमयायाऽनंतखेलकराय ते । अनंतानंतरूपाया- नंतदाय नमो नमः ॥२९॥ सिद्धिबुद्धिपते नाथ भक्तसंरक्षकाय च । नानाशक्तिप्रपालायानंतमायाविहारिणे ॥३०॥ गजवक्त्राय सर्वेषामादिपूज्याय ते नमः । सर्वपूज्याय सर्वेषां सिद्धिदाय नमो नमः ॥३१॥ वक्रतुंडाय वीराय चैकदंताय ते नमः । महोदराय देवाय देवदेवेश ते नमः ॥३२॥ असुराणां सहायाय नानावरप्रदाय च । असुराणां निहंत्रे त आसुराय नमो नमः ॥३३॥ ब्रह्मणां पतये तुभ्यं ब्रह्मणां ब्रह्मवादिने । ब्रह्माकाराय वै ढुंढे वेदवेद्याय ते नमः ॥३४॥ मनोवाणी- विहीनाय मनोवाणीमयाय च । योगेशाय परेशाय सर्वामयविवर्जित ॥३५॥ किं स्तुवस्त्वां गणाधीश यत्र शांतिं समागताः । वेदा योगींद्रमुख्याश्चास्तुवन्तं प्रणमावहे ॥३६॥ एवं स्तुतो गणाधीशस्तौ जगाद महामुनी । वरं संवृणुतं विप्रौ दास्यामि भक्तियंत्रितः ॥३७॥ भवद्भ्यां यत् कृतं स्तोत्रं तदेव मे प्रियं भवेत् । सर्वसिद्धिप्रदं पूर्णं तथा मद्भक्तिदायकम् ॥३८॥ एवमुक्तौ महायोगिनावूचतुर्गजाननम् । भक्तिं देहि गणाध्यक्ष त्वत्पदे सुदृढां पराम् ॥३९॥ गाणपत्यप्रियत्वं नौ देहि नाथ नमोऽस्तु ते । नान्यं वरं गणाधीश वृणुवः सुखदं कदा ॥४०॥ तथेति तावुवाचाथ गणेशोऽतर्दधे स्वयम् । आवां भक्तिसमायुक्तौ भजावो गणनायकम् ॥४१॥ इति ते कथितं वत्स ज्ञानं गणपतेर्मया । शमदमपरो भूत्वा भज तं गणनायकम् ॥४२॥ एवमुक्त्वाऽसितस्तं वै नैध्रुवं गणपस्य सः । मंत्रं ददौ प्रजानाथ तस्मा एकाक्षरं पुनः ॥४३॥ ततश्चांतर्हितो योगी सोऽसितः परमार्थवित् । गणेशं नैध्रुवस्तेपे तपः संपूज्य यत्नतः ॥४४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते वत्सराऽसितशांतिवर्णनं नाम दशमोऽध्यायः ॥

खं ५ अ. ११ पान २२

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नैध्रुवो योगमार्गेण शमदमपरायणः । शांतिं प्राप्तः क्रमेणैव योगिवंद्यो बभूव ह ॥१॥ ततः सोऽपि गणाधीशं न सुमोच तताप सः । तपः सेवापरो भूत्वा गाणपत्यप्रियार्थतः ॥२॥ एवं तस्य तपो ज्ञात्वा तं ययौ स गजाननः । तं दृष्ट्वा सहसोत्थाय प्रणनाम कृतांजलिः ॥३॥ पुपूज भक्तिसंयुक्तः साश्रुनेत्रो महायशाः । सरोमांचः प्रतुष्टाव सूक्तैर्गाणेशकैः प्रभुम् ॥४॥ ततस्तुष्टो गणाधीशस्तस्मै भक्तिं ददौ दृढाम् । गाणपत्यप्रियं कृत्वाऽन्तर्धानं स चकार वै ॥५॥ तदादि नैध्रुवो योगी गाणपत्यो बभूव ह । भजते गणनाथं सोऽधुना सर्वत्र संमतः ॥६॥ इति ते कथितं दक्ष चरित्रं सर्वदं परम् । लंबोदरस्य माहात्म्यं सर्वशांतिप्रदं प्रभो ॥७॥ क्रोधासुरचरित्रं तत्तथा ते कथितं मया । न संशयो भवेत्तस्मै श्रवणात् क्रोधशांतिदम् ॥८॥ स्वस्वखंडेषु सर्वत्र पश्चिमांतदिगंतरे । मुनिभिः स्थापितो लंबोदरश्चैव गजाननः ॥९॥ तस्य दर्शनमात्रेण यथेप्सितफलं लभेत् । समुद्रतीरसंस्थस्य मूषकारूढकस्य वै ॥१०॥ एवं लंबोदरस्यांशा अनंता विविधाः स्मृताः । स्वस्वधर्मप्ररक्षार्थं जनेभ्यः सर्वदाः प्रभो ॥११॥ तेषां चरित्रकोट्यंशो वक्तुं नैव प्रशक्यते । ब्रह्मा- दिभिर्महाभाग तत्र कोऽहं नराकृतिः ॥१२॥ जगद्ब्रह्मक्रियार्थं स याचितस्तैः पुरा प्रभो । शक्तिरूपावतारं च धृत्वा सर्वार्थदोऽभवत् ॥१३॥ महिषासुरनाशार्थं याचितो मायया पुरा । विघ्नराजः स्वयं सोऽपि बभूवे धर्मपालकः ॥१४॥ मायाकरविनाशाय शेषपुत्रो बभूव ह । लंबोदरः स्वयं साक्षात् स वै मूषकगः स्मृतः ॥१५॥ सावर्णिमनुना चैवाऽऽराधितो गणनायकः । बभूव वै तत्र लंबोदरः शक्तिविनायकः ॥१६॥ ब्रह्म नानाविधं वेदे कथितं तु प्रजापते । जगत्तेषां तथा भिन्नं विहारार्थं बभूव ह ॥१७॥ तेषु स्वानंदभावेन स्थितोऽयं ब्रह्मधारकः । संयोगाभेदयोगेन स वै लंबोदरः स्मृतः ॥१८॥ संयोगाभेदयोगेन समाधिना प्रजापते । नानाविधं जगद्ब्रह्म भवन्नश्यति तद्गतम् ॥१९॥ तेषां भेदा गणेशेन तथा सृष्टाश्च पालिताः। हृतास्तेन समाख्यातो वेदे स ब्रह्मवाचकः ॥२०॥ भेदा असत्यरूपाश्च तेषां ब्रह्म प्रकथ्यते । शक्तिर्जानीहि तां लंबोदरमेव गजाननम् ॥२१॥ समुत्पन्नास्तदुदरादंते तत्र गता बभुः । भेदा लंबोदरस्तेन समाख्यातो ह्यसन्मयः ॥२२॥ इदं लंबोदराऽऽख्यानं कथितं ते प्रजापते । श्रवणात् पठनात् सर्वदायकं सर्वसंमतम् ॥२३॥ श्रोतुमिच्छसि किं भूयस्तद्वदस्व प्रजापते । कथयिष्यामि ते भावं प्रभो ज्ञात्वा गणेश्वरे ॥२४॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते लंबोदरब्रह्मवर्णनं नाम एकादशोऽध्यायः ॥

खं. ५ अ. १२ पान २३ ॥ श्रीगणेशाय नमः॥ शौनक उवाच। लंबोदरस्य माहात्म्यं त्वं जानासि सुखप्रदम् । मुखांबुजात् स्रवति च यस्यैवं शांतिदामृतम् ॥१॥ लंबोदरस्य माहात्म्यं श्रुतं क्रोधहरं परम्। श्रोतुमिच्छा तथा मेऽपि वर्धते भावसंयुता ॥२॥ अतो वद महाभाग पुनर्विग्नेश- सत्कथाम् । दक्षेण संश्रुतां पुण्यां मुद्गलाद्योगसागरात् ॥३॥ सूत उवाच । मुने शौनक धन्यस्त्वं महच्छृणु कथामृतम् । दक्षेण संश्रुतं पूर्णं मुद्गलेन प्रभाषितम् ॥४॥ लंबोदरकथां श्रुत्वा हृष्टरोमा प्रजापतिः । प्रणम्य मुद्गलं विप्रमुवाच वचनं हितम् ॥५॥ दक्ष उवाच । धन्योऽसि योगिवर्योऽसि मुद्गल त्वं न संशयः । कथां वदसि कल्याणदायिनीं हर्षवर्धिनीम् ॥६॥ श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृतसन्निभाम् । अधुना वद योगींद्र पुनर्गणपतेः कथाम् ॥७॥ लंबोदरः कथं चायं शक्तिरूपो बभूव ह । तस्य मुख्यं चरित्रं मे वद सर्वार्थदायकम् ॥८॥ शक्त्या संराधितो देवो महिषस्य वधाय च । कथं प्रकटरूपोऽसौ बभूवे तद्वदस्व मे ॥९॥ शेषपुत्रः कथं साक्षाद्बभूव गणनायकः । मायाकरविनाशाय कथं मूषकगः स्मृतः ॥१०॥ सावर्णिमनुना चैव कथमाराधितोऽभवत् । कथं शक्तिगणेशानोऽवतारः प्रबभूव ह ॥११॥ एतत्सर्वं सुविस्तीर्य वद मे करुणानिधे । लंबोदरावताराश्च सुखदाः श्रवणात् प्रभो ॥१२॥ अन्यत्त्वं वद योगींद्र गाणपत्यस्वरूपकम् । दीक्षायुक्तं विशेषेण कीदृशो गणपः स्मृतः ॥१३॥ पूजा गणपतेश्चैव कीदृशी क्रियते जनैः । मंत्रः केन प्रकारेण गृह्यते गुरुवक्त्रतः ॥१४॥ विधियुक्तं गाणपत्यमार्गं मे वद विस्तरात् । येनाहं गाणपत्यश्च भविष्यामि सुदीक्षया ॥१५॥ गाणपत्यांश्च योगींद्र प्रभो ज्ञास्यामि दृष्टिगान् । तदर्थं वद विप्रर्षे सर्वज्ञोऽसि न संशयः ॥१६॥ महाभाग्येन ते विप्र दर्शनं मेऽभवत् किल । तव पादस्य वैचित्र्यं सर्वसंतोषकारकम् ॥१७॥ सूत उवाच । एवं पृष्टो महायोगी दक्षेण गणपप्रियः । जगाद तं प्रजानाथं पुनर्भावेन तोषितः ॥१८॥ मुद्गल उवाच । धन्योऽसि कृतकृत्योऽसि दक्ष त्वं नात्र संशयः । येन प्रीतिर्गणपतावद्भुता ते प्रजापते ॥१९॥ पृष्टः श्रोतुश्च वक्तुर्वै पावनीं सर्वदां पराम् । गणेशं कथयिष्यामि भक्तिं दृष्ट्वा सुतोषतः ॥२०॥ आदौ ब्रह्म च यत् प्रोक्तं तदेव ब्रह्मणि स्थितम् । स्वेच्छा तत्र समुत्पन्ना माया तस्य प्रजायते ॥२१॥ स्वेच्छया द्विविधं जातं तदेवात्र न संशयः । स्वतः परत उत्थानात्तच्छृणुष्व सुयोगदम् ॥२२॥ सदा स्वसुखनिष्ठं वै नानामायाविवर्जितम् । तद्वै परत उत्थानवाचकं कथितं मया ॥२३॥ मायाखेलकरं यच्च ब्रह्म स्वेच्छामयं प्रभो । स्वत उत्थानकं प्रोक्तं पश्य वेदेषु मानद ॥२४॥ स्वत उत्थानकं ब्रह्म विकल्पं प्रचकार ह । विकल्पात्तत् द्विधा भूतमेकानेकमयत्वतः ॥२५॥ एकं देहिस्वरूपं तद्बहुरूपं शरीरकम् । ताभ्यां चतुर्विधं सृष्टं

जगदेतच्चराचरम् ॥२६॥ एते ब्रह्मगणाः सर्वे क्रियासामर्थ्यहीनतः । न शक्ताः स्वस्वकार्येषु तपोयुक्तास्ततोऽभवन् ॥२७॥ स्वस्वरूपं च सर्वेषां भवेत्तु किल यादृशम् । तादृशाय नमस्तुभ्यं मंत्रं जेपुः परेश्वराः ॥२८॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । नरकुंजररूपः स प्रकटोऽभूत् हृदि प्रभुः ॥२९॥ तं दृष्ट्वा ज्ञानसंपन्ना जाता ब्रह्मगणाः परम् । ततस्ते ध्यानशी- लाश्च पुपूजुर्हृदि संस्थितम् ॥३०॥ तेषां पुरः स्वयं साक्षात् प्रकटोऽभूत् प्रजापते । शक्तिरूपधरो भूत्वा प्रसन्नो वरदायकः ॥३१॥ चतुर्बाहुधरा देवी सर्वावयवसंयुता । स्तनभारभराक्रांता शुशुभे परमात्मिका ॥३२॥ तां दृष्ट्वा विस्मिताः सर्वे पप्रच्छुः स्वहिते रताम् । का त्वं कस्मादिहायाता वद नः सकलं परे ॥३३॥ श्रीदेव्युवाच । गणेशोऽहं महाभागा यं ध्यायथ तपोन्विताः । तपसा तुष्टभावेन वरदाता समागतः ॥३४॥ एवमुक्त्वा स्वयं तत्र शक्तिः सा परमाद्भुता । गजवक्त्रयुतं रूपं दधे तेषां प्रपश्यताम् ॥३५॥ लंबोदरं समालोक्य पुनर्विस्मितचेतसा । स्तोत्रं तैर्वै समारब्धं तावत् स्त्रीरूपमादधे ॥३६॥ दृष्ट्वा ब्रह्मगणास्तां ते विस्मिता गणपे रताः । गणेशकृपया सर्वे ज्ञानयुक्ता बभूविरे ॥३७॥ ततस्तैश्चेष्टितं तस्य ज्ञातं भक्त्या प्रजापते । लंबोदरः स्वयं शक्तिरूपोऽयं नात्र संशयः ॥३८॥ या शक्तिः स गणेशानो गणेशः शक्तिरुच्यते । लंबोदरात्मिका साक्षात् सर्वेषां जननी परा ॥३९॥ ततस्तां ते प्रणम्यादौ तुष्टुवुः करसंपुटैः । प्रजानाथ ब्रह्मगणाः सरोमांचा विशेषतः ॥४०॥ ब्रह्मगणा ऊचुः । नमस्ते शक्तिरूपायै सर्वेषां च क्रियात्मने । सर्वसत्ताप्रदात्र्यै ते जगदंब नमोऽस्तु ते ॥४१॥ अपारायै च सर्वेभ्यः सर्वदायै नमो नमः । भक्त्या स्वाधीनरूपायै महामाये नमोऽस्तु ते ॥४२॥ सदा स्वानंदसंस्थायै जगद्ब्रह्म- प्रचालिके । नानाभेदधरायै ते विघ्नेशायै नमो नमः ॥४३॥ अमेयायै नमस्तुभ्यं भक्तसंरक्षरूपिणि । कर्त्र्यै पात्र्यै च संहर्त्र्यै गणेशायै नमो नमः ॥४४॥ समुत्पन्नं त्वदुदरात् जगद्ब्रह्म न संशयः । तदेव सृष्टिरूपं त उदरं ते नमो नमः ॥४५॥ स्तनपानेन देवेशि पोषणं कुरुषे सदा । स्थितिरूपं तदेवांगे स्तनौ ते वै नमो नमः ॥४६॥ अंते प्रलयकालज्ञे त्वया ग्रस्तं मुखेन च । संहारकं तदेवांगे मुखं ते वै नमो नमः ॥४७॥ मनोवाणीविहीना त्वं भक्तवत्सलभावतः । स्वयं देहधरा जाता भक्तेशायै नमो नमः ॥४८॥ किं स्तुमस्त्वां महामाये शक्तिनामधरे परे । सर्वत्र शक्तभावेषु संस्थितायै नमो नमः ॥४९॥ वेदानां योगिनां चैव शक्तत्वं तत्त्वदीयकम् । त्वां स्तोतुं कः समर्थः स्यादतस्ते प्रणमामहे ॥५०॥ इति स्तुता जगन्माता ब्रह्मणां जननी प्रभो । प्रसन्ना तानुवाचाऽथ भक्तिभावेन तोषिता ॥५१॥ शक्तिरुवाच । वरान् ब्रह्माणो वृणुत येषां ये