मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 553, कुल 1023 में से
संदर्भ में पढ़ेंजगदेतच्चराचरम् ॥२६॥ एते ब्रह्मगणाः सर्वे क्रियासामर्थ्यहीनतः । न शक्ताः स्वस्वकार्येषु तपोयुक्तास्ततोऽभवन् ॥२७॥ स्वस्वरूपं च सर्वेषां भवेत्तु किल यादृशम् । तादृशाय नमस्तुभ्यं मंत्रं जेपुः परेश्वराः ॥२८॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । नरकुंजररूपः स प्रकटोऽभूत् हृदि प्रभुः ॥२९॥ तं दृष्ट्वा ज्ञानसंपन्ना जाता ब्रह्मगणाः परम् । ततस्ते ध्यानशी- लाश्च पुपूजुर्हृदि संस्थितम् ॥३०॥ तेषां पुरः स्वयं साक्षात् प्रकटोऽभूत् प्रजापते । शक्तिरूपधरो भूत्वा प्रसन्नो वरदायकः ॥३१॥ चतुर्बाहुधरा देवी सर्वावयवसंयुता । स्तनभारभराक्रांता शुशुभे परमात्मिका ॥३२॥ तां दृष्ट्वा विस्मिताः सर्वे पप्रच्छुः स्वहिते रताम् । का त्वं कस्मादिहायाता वद नः सकलं परे ॥३३॥ श्रीदेव्युवाच । गणेशोऽहं महाभागा यं ध्यायथ तपोन्विताः । तपसा तुष्टभावेन वरदाता समागतः ॥३४॥ एवमुक्त्वा स्वयं तत्र शक्तिः सा परमाद्भुता । गजवक्त्रयुतं रूपं दधे तेषां प्रपश्यताम् ॥३५॥ लंबोदरं समालोक्य पुनर्विस्मितचेतसा । स्तोत्रं तैर्वै समारब्धं तावत् स्त्रीरूपमादधे ॥३६॥ दृष्ट्वा ब्रह्मगणास्तां ते विस्मिता गणपे रताः । गणेशकृपया सर्वे ज्ञानयुक्ता बभूविरे ॥३७॥ ततस्तैश्चेष्टितं तस्य ज्ञातं भक्त्या प्रजापते । लंबोदरः स्वयं शक्तिरूपोऽयं नात्र संशयः ॥३८॥ या शक्तिः स गणेशानो गणेशः शक्तिरुच्यते । लंबोदरात्मिका साक्षात् सर्वेषां जननी परा ॥३९॥ ततस्तां ते प्रणम्यादौ तुष्टुवुः करसंपुटैः । प्रजानाथ ब्रह्मगणाः सरोमांचा विशेषतः ॥४०॥ ब्रह्मगणा ऊचुः । नमस्ते शक्तिरूपायै सर्वेषां च क्रियात्मने । सर्वसत्ताप्रदात्र्यै ते जगदंब नमोऽस्तु ते ॥४१॥ अपारायै च सर्वेभ्यः सर्वदायै नमो नमः । भक्त्या स्वाधीनरूपायै महामाये नमोऽस्तु ते ॥४२॥ सदा स्वानंदसंस्थायै जगद्ब्रह्म- प्रचालिके । नानाभेदधरायै ते विघ्नेशायै नमो नमः ॥४३॥ अमेयायै नमस्तुभ्यं भक्तसंरक्षरूपिणि । कर्त्र्यै पात्र्यै च संहर्त्र्यै गणेशायै नमो नमः ॥४४॥ समुत्पन्नं त्वदुदरात् जगद्ब्रह्म न संशयः । तदेव सृष्टिरूपं त उदरं ते नमो नमः ॥४५॥ स्तनपानेन देवेशि पोषणं कुरुषे सदा । स्थितिरूपं तदेवांगे स्तनौ ते वै नमो नमः ॥४६॥ अंते प्रलयकालज्ञे त्वया ग्रस्तं मुखेन च । संहारकं तदेवांगे मुखं ते वै नमो नमः ॥४७॥ मनोवाणीविहीना त्वं भक्तवत्सलभावतः । स्वयं देहधरा जाता भक्तेशायै नमो नमः ॥४८॥ किं स्तुमस्त्वां महामाये शक्तिनामधरे परे । सर्वत्र शक्तभावेषु संस्थितायै नमो नमः ॥४९॥ वेदानां योगिनां चैव शक्तत्वं तत्त्वदीयकम् । त्वां स्तोतुं कः समर्थः स्यादतस्ते प्रणमामहे ॥५०॥ इति स्तुता जगन्माता ब्रह्मणां जननी प्रभो । प्रसन्ना तानुवाचाऽथ भक्तिभावेन तोषिता ॥५१॥ शक्तिरुवाच । वरान् ब्रह्माणो वृणुत येषां ये