मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 538, कुल 1023 में से
संदर्भ में पढ़ेंतस्य तद्वचनं श्रुत्वा क्षोभयुक्ता महासुराः । जगुस्तं मायया युक्ताः क्रोधं भेदपरायणाः ॥३५॥ अस्माकमिष्टदेवोऽयं सूर्यः स्वामिन्न संशयः । भजिष्यामो विशेषेण तं सदा भक्तिलालसम् ॥३६॥ देवानां पक्षमुत्सृज्येच्छत्यस्माकं हितं यदि । तदा वंद्योऽर्यमा नाथ नान्यथा जयं तं बलात् ॥३७॥ परपक्षाश्रितं देवमस्मत्संहनने रतम् । जयिष्यामो वयमतो हितं राजन् समाचर ॥३८॥ दैत्येशानां वचः श्रुत्वा क्रोधः संहर्षितोऽभवत् । दूतं संप्रेषयामास रावणं गर्वसंयुतम् ॥३९॥ रावणात् सर्ववृत्तांतं ज्ञात्वा भानुः प्रतापवान् । तमुवाच तदा क्रुद्धो भयभीतश्च मानदौ ॥४०॥ रविरुवाच । देवानां पक्षमुत्सृज्य क्रोधासुरपरायणः । न भविष्यामि भो दूत देवोऽहं नात्र संशयः ॥४१॥ उन्मत्तं वरसंयुक्तं क्रोधं वद महामते । त्यक्त्वा राज्यं वने भानुर्गतो राज्यं कुरुष्व च ॥४२॥ एवमुक्त्वा रावणं स सूर्यः सर्वसमन्वितः । पपाल लोकमुत्सृज्य रावणस्तं समाययौ ॥४३॥ ततोऽतिहर्षितो दैत्यः क्रोधो दुष्टैः समावृतः । आययौ सौरलोकं तं मुमुदे प्राप्य दुर्जनः ॥४४॥ आत्मानं कृतकृत्यं स मानयामास दुर्मतिः । ब्रह्मांडविजयी भूत्वा भोगांश्च बुभुजे परान् ॥४५॥ ततः संस्थाप्य दैत्येंद्रान् तेषु स्वर्गेषु दैत्यपः । पृथिव्यां नगरं मुख्यमाययौ प्रीतिसंज्ञकम् ॥४६॥ क्रोधासुरोऽसौ तत्रस्थः प्रशाशास प्रतापवान् । त्रैलोक्यं भोगसंयुक्तः सुहृदानंददायकः ॥४७॥ स्त्रीमांसमदिरासक्तो बभूव विषयप्रियः। न बुबोध गतं कालं यथाकालेन वंचितः ॥४८॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते क्रोधासुरब्रह्मांडविजयो नाम चतुर्थोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । ततोऽतिमदसंयुक्तोऽसुरः क्रोधः प्रतापवान् । दैत्यानाज्ञापयत् क्रूरान् कर्मणः खंडनाय तान् ॥१॥ तस्याज्ञया ययुर्दैत्या यत्र तत्र महीतले । ब्राह्मणांस्ताडयामासुर्वर्णाश्रमप्रवर्तकान् ॥२॥ अन्यान् वर्णांस्तथा गृह्य कर्महीनांश्च चक्रिरे । देवतीर्थादिकं दैत्या बभंजुर्यज्ञवृक्षकान् ॥३॥ सर्वत्र त्रासिता लोकाः कर्महीना बभूविरे । न स्वाहा न स्वधा कुत्र न वषट्कार एव च ॥४॥ ततो विप्रानुवाचाऽथ क्रोधासुरः प्रतापवान् । मदीयनामसंयुक्तं कर्म कुर्वंतु विप्रपाः ॥५॥ जगदीशॊ महाभागा अहं द्विजा न संशयः । भजतां पादयोर्मे नो दुर्लभं किं भविष्यति ॥६॥ ततो द्विजास्तपोनिष्ठा गता वनेषु मानदौ । त्यक्त्वा विषयजं सौख्यं सिंहव्याघ्रयुतेषु ते ॥७॥ केचिद् भ्रष्टास्तदाज्ञायां संस्थिता