भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 543, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 543

महामुनी ॥८॥ द्वंदयुद्धं परे ये ये ह्यकुर्वन्नमरैर्बलात् । ते ते सर्वे च देवेंद्रैर्जिताः सर्वे पलायिताः ॥९॥ भक्तवत्सलभावेन शंकरो विष्णुरंजसा । रावणं च बलिं तत्र चक्रतुर्न मृतौ मृधे ॥१०॥ ततोऽतिकोपसंयुक्ता देवेंद्राः शस्त्रवृष्टिभिः । असुरान् मारयामासुः सर्वत्र भयसंयुतान् ॥११॥ प्रलयं मेनिरे तत्र दैत्यास्त्राससमाकुलाः । देवांस्ते शरणं जग्मुः केचित् प्राणपरीप्सया ॥१२॥ जय लंबोदर स्वामिन् जय विघ्नेश देवप । हेरंब वक्रतुंड त्वं जयेत्यूचुः प्रहर्षिताः ॥१३॥ दैत्यानां कदनं दृष्ट्वा क्रोधः परमविस्मितः । निःश्वस्य चिंतया युक्तो बभूवे किं भविष्यति ॥१४॥ पितुः शोकं विदित्वा तौ हर्षः शोकश्च संयुगे । ययतुः शस्त्रवर्षेण ववर्ष तौ घनौ यथा ॥१५॥ तयोर्मोघरूपैश्च शस्त्रैर्देवा हता मृधे । छिन्नांगाः पपतुस्तत्र दैत्यसंत्रासतापिताः ॥१६॥ इंद्रं च सहसाऽऽगत्य शोकः परमदारुणः । चकार मूर्च्छितं सद्यो गदया मूर्ध्नि घाततः ॥१७॥ संगृह्य स्वबले सोऽपि स्थापयामास देवपम् । ततः शुक्रेण दैत्येंद्रा विद्यया नीरुजाः कृताः ॥१८॥ बलिमुख्या ययुः संग्रामं पुनश्च महामुनी । चक्रेण सहसा हर्षश्चंद्रं चक्रे स मूर्च्छितम् ॥१९॥ ततः कोपसमायुक्तः शंकरो युयुधे भृशम् । त्रिशूलेन महादैत्यान् जघान सकलान् प्रभुः ॥२०॥ शंकरस्य बलं वीक्ष्य हर्षस्तत्र समाययौ । युयुधे तेन दैत्येंद्रपुत्रस्तेजस्विनां वरः ॥२१॥ नानाविधं महाघोरं युद्धं बभूव दारुणम् । हर्षस्य शंकरस्यैव परस्परजयैषिणोः ॥२२॥ ततस्त्रिशूलघातेन शंकरस्तं जघान ह । पतितं मूर्च्छितं हर्षं दृष्ट्वा दैत्या भयातुराः ॥२३॥ पतितान् दैत्यपान् दृष्ट्वा काव्यस्तत्र समागतः । हर्षं मूर्च्छाविहीनं वै चकार स्वेन तेजसा ॥२४॥ ततो हर्षसमायुक्ता दैत्येंद्रा युयुधुर्भृशम् । विष्णुस्तेषां बलं वीक्ष्य चक्रं मुमोच दारुणम् ॥२५॥ चक्रेण क्षुरधारेण हता दैत्या अनेकशः । प्रपेतुर्भयसंयुक्ताश्छिन्नभिन्नांगका मृधे ॥२६॥ ततः शोकः समायातः शूलं मुमोच तैजसम् । आगत्य सहसा विष्णोः पपात हृदि विप्रपौ ॥२७॥ ततः संमूर्च्छितस्तत्र पपात च जनार्दनः । दैत्या हर्षयुताः सर्वे नादं चकुर्महारणे ॥२८॥ ततो हर्षो महाक्रोधाद्गदया मृत्युकल्पया । चकार शंकरं तत्र पतितं मूर्च्छया भृशम् ॥२९॥ ततो हा हा रवं कृत्वा देवाः सर्वे पराजिताः । प्रपेतुः सर्वदेवेंद्रा दैत्याभ्यां त्रासिता बलात् ॥३०॥ तद् दृष्ट्वा परमाश्चर्यं लंबोदरः प्रतापवान् । अंकुशं क्रोधसंयुक्तो मुमोच दैत्यमंडले ॥३१॥ तेजोरूपं महास्त्रं तद् दृष्ट्वा दैत्या विसिस्मिरे । यावत्तावच्च दैत्येंद्रौ हतौ हर्षश्च शोककः ॥३२॥ मायया गणनाथश्च शुक्रं गृह्य गुहांतरे । चिक्षेप च ततः सर्वे प्रपेतु राहुमुख्याकाः ॥३३॥ ततोऽतिकोपसंयुक्तः क्रोधः स्वयमुपागतः । पुत्रशोकं हठात् गृह्य बाणवृष्टिं चकार ह ॥३४॥