मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 542, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. ७ पान १३ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ कृत्वा मरणनिश्चयम् । शस्त्रास्त्रैर्बलगर्वेण प्रेरिता रणदुर्मदाः ॥३२॥ वीराणामभवन्नादैर्वादित्राणां च वाजिनाम् । बृंहितानां च शंखानां दिशो नादयतास्ततः ॥३३॥ सैन्यपादभवो रेणुश्छादयामास भास्करम् । नाभूत् स्वपरबोधोऽपि जघ्नुस्ते च परस्परम् ॥३४॥ ततो रक्तप्रवाहश्च संभूतः शस्त्रघाततः । रजःकणास्तेन सर्वे मज्जिता अभवन् मृधे ॥३५॥ ततः परस्परं दृष्ट्वा जघ्निरे क्रोधसंयुताः। देवाश्च दानवास्तद्वत् परस्परजये रताः॥३६॥ दिनत्रयमभूद्युद्धं घोरं सर्वभयावहम् । ततो दैत्यगणाः सर्वे पपलुस्त्राससंयुताः ॥३७॥ देवा हर्षयुतास्तत्र जय लंबोदर प्रभो । ऊचुस्तान् हंतुमायाता दैत्येशाः क्रोधसंयुताः ॥३८॥ बलिश्च रावणो जृंभो माल्यवान् कुंभकर्णकः । राहुश्चान्ये महावीराः संख्यातुं न प्रशक्यते ॥३९॥ तैः शस्त्रनिचयैर्देवाः संहताः पपलुस्तदा । हित्वा संग्रामभूमिं ते छिन्नभिन्नाः समंततः ॥४०॥ तत इंद्रश्च संक्रुद्धः शंकरो विष्णुरेव च । सूर्यश्चंद्रश्च देवेंद्रा आययुः क्रोधसंयुताः ॥४१॥ तैरस्त्राणां महावृष्टिः कृता परमदारुणा । तया दैत्यगणाः सर्वे पपलुश्च दिशो दश ॥४२॥ ततोऽतिक्रोधसंयुक्ता रावणाद्याः समाययुः । द्वंद्वयुद्धमभूद्धोरं सर्वेभ्यो भयदायकम् ॥४३॥ जृंभो ययौ महेंद्रेण राहुः सूर्येण संयुगे । बलिश्च विष्णुना क्रुद्धो रावणः शंकरेण च ॥४४॥ कुंभकर्णश्च चंद्रेण नाना दैत्येंद्रकादयः । देवेंद्रैर्वायु- मुख्यैश्च युयुधुर्जयकांक्षिणः ॥४५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते देवासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः ॥ ❧❦❧ ॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । एकरात्रं महाघोरं युद्धं बभूव दारुणम् । ततो रक्तप्रवाहैश्च नद्यो जाता जलौघवत् ॥१॥ न जयः प्राप्यते देवैर्नासुरैर्यमसन्निभैः । मघवा वज्रपातैस्तांश्चूर्णयामास दानवान् ॥२॥ ततो जृंभोऽतिसंक्रुद्धो गदामादाय दारुणाम् । युयुधे देवराजेन महाबलपराक्रमः ॥३॥ गदया देवराजं स मूर्च्छितं प्रचकार ह । ततो हाहाकृतं सर्वैर्देवसैन्यं पपाल तत् ॥४॥ इंद्रः संज्ञासमायुक्तः पुनः संयुयुधे भृशम् । वज्रेण पातयामास जृंभं तं धरणीतले ॥५॥ त्रिशूलेन हतस्तत्र रावणः पतितो भुवि । शंकरेण ततः सर्वे पपलुर्दानवा मृधे ॥६॥ गदया विष्णुना तत्र बलिः संमूर्च्छितः कृतः । कुंभकर्णश्च चंद्रेण पीडितो मूर्च्छितोऽभवत् ॥७॥ राहुः सूर्येण संग्रामे तेजसा पीडितो भृशम् । पपात मूर्च्छया भूमौ हा हा कृत्वा ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖