मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 541, कुल 1023 में से
संदर्भ में पढ़ेंखं. ५ अ. ६ पान १२ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 कुपिता दैत्यास्तमूचुर्मदसंयुताः । देवान् मुनिगणांश्चाथ हनिष्यामोऽद्य निश्चितम् ॥७॥ अस्माकं शत्रवो देवास्तैः कृतं दारुणं महत् । आज्ञापय महाभाग सर्वान् देवजिघांसया ॥८॥ ततोऽतिहर्षितः क्रोधः स्वयं युद्धाय सज्जितः । दैत्येशैः संवृतः सद्यो ययौ शैलेंद्रमुख्यकम् ॥९॥ समागतं महाक्रोधं दैत्येशैः संवृतं ततः । देवाः सर्वे भयोद्विग्नाः सस्मरुर्गुणनायकम् ॥१०॥ तेषां स्मरणमात्रेण लंबोदरः प्रतापवान् । मूषकारूढ एवासावागतोऽभून् महाप्रभुः ॥११॥ पाशादिशस्त्रसंयुक्तं सिद्धिबुद्धि- समन्वितम् । नाभिशेषं त्रिनेत्रं तं ददृशुश्च सुरर्षयः ॥१२॥ ततस्तं ते प्रणेमुर्वै भयं त्यक्त्वा सुहर्षिताः । स्तुत्वा वृत्तांतमुग्रं तं कथयामासुराहताः ॥१३॥ श्रुत्वा वृत्तांतमुग्रं स तान् जगाद सुराधिपान् । लंबोदरः प्रसन्नात्मा मुनीन् क्रोधयुतः प्रभुः ॥१४॥ लंबोदर उवाच । मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् । स्वधर्मस्थान् जनान् सर्वान् करिष्यामि न संशयः ॥१५॥ ततः क्रोधासुरस्तत्र समीपे समुपागतः । दृष्ट्वा लंबोदरं देवं भयभीतो बभूव ह ॥१६॥ उवाच दैत्यपांस्तत्र सत्या वाक् सा न संशयः । अयं लंबोदरो नूनं देवैः संप्रार्थ्यतेऽसुराः ॥१७॥ तस्य तद्वचनं श्रुत्वा दैत्याः क्रोधारुणेक्षणाः । ऊचुस्तं दैत्यनाथं ते गर्वयुक्ता बलान्विताः ॥१८॥ दैत्येशा ऊचुः । लंबोदरयुतान् देवान् हनिष्यामो न संशयः । मा कुरुष्व वृथा चिंतां रक्ष पृष्ठं महामते ॥१९॥ देहधारी गणाध्यक्ष आगतो नात्र संशयः । उत्पत्तिनाशवान् देहः किं करिष्यति तेऽशुभम् ॥२०॥ काव्यं दैत्यगणास्तत्र सस्मरुर्भक्तिसंयुताः । तेषां स्मरणमात्रेण स चापि ह्यागतोऽभवत् ॥२१॥ तं प्रणम्य गुरुं दैत्या वृत्तांतं सर्वमंजसा । कथयंति स्म तं श्रुत्वा शुक्रस्तान् प्रत्युवाच ह ॥२२॥ शुक्र उवाच । सिद्धिपतिं परित्यज्य सिद्धिमिच्छति दुर्मतिः । तथा त्यक्त्वा बुद्धिपतिं स्फूर्तिमिच्छति मूर्खवत् ॥२३॥ विघ्नराजं सदैकं यं तं त्यक्त्वा विघ्नहीनकाः । कथं भवंति वदत दैत्येंद्रा मां विनिश्चयात् ॥२४॥ अतो युद्धं परित्यज्य शरणं तस्य शोभनम् । भविष्यति न संदेहो नोचेत् क्रोधो मरिष्यति ॥२५॥ शुक्रस्य वचनं श्रुत्वा बलिस्तत्र जगाद तम् । कर्मणा सिद्धिदाताऽयं स्फूर्तिदाता भवत्यहो ॥२६॥ कर्मणा विघ्नहीनत्वं सविघ्नं प्रकरोति च । अतो वयं महायोगिन् कर्मणा तं जयामहे ॥२७॥ तस्य तद्वचनं श्रुत्वा सर्वे दैत्येंद्रकादयः । साधु साध्वब्रुवंस्तत्र संग्रामायोद्यता बभुः ॥२८॥ ततो भावि बलं वीक्ष्य काव्यस्तत्र मुनीश्वरौ । तूष्णींभावं समाधृत्य संस्थितोऽभूत् स योगवित् ॥२९॥ देवाः सर्वे महास्त्रैस्ते युक्ताः क्रोधसमन्विताः । आययू रणभूमिं च दैत्येशाश्च तथा ययुः ॥३०॥ ततः परस्परं युद्धं बभूवे दारुणं महत् । दैत्यानां चैव देवानां परस्परविनाशनम् ॥३१॥ देवा दैत्या युयुधिरे 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐