मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 533, कुल 1023 में से
संदर्भ में पढ़ेंपान ४ प्रणिपत्य तम् । पूजयित्वा प्रतुष्टाव स्तोत्रैः शैवैर्महासुरः ॥१९॥ जगाद शंकरो दैत्यं संतुष्टो भक्तमुत्तमम् । वरं वरय दास्येऽहं भक्त्या ते तपसाऽसुर ॥२०॥ भस्मासुर उवाच । यस्य शंभो महेशान मस्तकेऽहं धरामि सः । हस्तं सद्यो मृतो भूत्वा ततो भवतु भस्मसात् ॥२१॥ अन्येभ्यः सर्वभूतेभ्यो न भयं मे कदाचन । भवेत् सर्वातिगा शक्तिस्तथा कुरु महेश्वर ॥२२॥ तच्छ्रुत्वा विस्मितः शंभुस्तं जगाद महासुरम् । सर्वं च ते महादैत्य भविष्यति मदाज्ञया ॥२३॥ हस्तस्ते यस्य शिरसि दक्षिणः संपतिष्यति । स वै भस्ममयः सद्यो भविष्यति न संशयः ॥२४॥ ततः शिवो ययौ स्थानं कैलासं गणसंवृतः । दैत्यस्तत्रैव तिष्ठन् स विचारमकरोत् स्वयम् ॥२५॥ अहो शिवस्य वामांगे संस्थिता जगदंबिका । रूपलावण्य- संयुक्ता रत्नभूताऽतिसुंदरी ॥२६॥ एतादृशी मया कुत्र दृष्टा नैव सुरूपिणी । नग्नः शंभुरयं तस्याऽयोग्यो नैव भवेद्रतौ ॥२७॥ अतोऽहं यत्नमास्थाय वरदानप्रभावतः । शंभुं भस्ममयं कृत्वा ग्रहीष्यामि च पार्वतीम् ॥२८॥ एवं विचार्य दैत्येंद्र आययौ शंकरांतिकम् । कैलासे गिरिवर्ये स वेगमास्थाय दारुणः ॥२९॥ दक्षिणं हस्तमूर्ध्वं स कृत्वा शंकरसन्निधौ । आययौ तं विलोक्यैव पपाल गिरिजापतिः ॥३०॥ नमस्कारादिचिह्नैश्च हीनं दृष्ट्वा स्वसन्निधौ । असुरं भावसंयुक्तं भयभीतः समंततः ॥३१॥ ततः सोऽपि महादैत्यः क्रोधयुक्तो विशेषतः । धावयित्वा तमनु वै ग्रहीतुं प्रोद्यतोऽभवत् ॥३२॥ ततो- ऽतिवेगमास्थाय शिवो भीत्या पलायत । अधावत् पृष्ठमास्थाय तं भस्मासुर एव च ॥३३॥ पलंतं शंकरं तत्र ददर्श कमलापतिः । सस्मार गणपं चित्ते किं भविष्यति विह्वलः ॥३४॥ सोऽपि तुष्टाव चाथर्वशिरसा विघ्नायकम् । विष्णुः परमशोकार्तो महादेवस्य कारणात् ॥३५॥ शिवश्च भयसंयुक्तो गणेशं स्वयमस्तवीत् । महासंकटनाशार्थं शरणागतवत्सलम् ॥३६॥ शिव उवाच । किं पश्यसे नाथ विनायकस्त्वं दैत्येन सर्वत्र च मां सुत्रासितम् । दक्षं भुजं मस्तकगं गणेश कृत्वा स मां भस्ममयं करिष्यति ॥३७॥ नानाजनैः सेवितपादपद्म किं विस्मृतो मां भयभंगकारिन् । चिंतामणे चित्तनिवासक त्वं संरक्ष विघ्नेश दयाघनात्र ॥३८॥ त्वदन्यदेवं शरणं गजास्य प्रभुं समर्थं न च यामि नाथ । न कोऽपि हेरंब महानुभाव क्षमो हि मां रक्षितुमीश्वरः कः ॥३९॥ लंबोदरामोघ सुचिंतनं ते स्वानंदवासिंश्च महोदरस्य । रक्षस्व मां मृत्युमुपागतं त्वं त्वत्पादनिष्ठं भयभंजनाशु ॥४०॥ किं सिद्धिबुद्धिप्रविहारकेण सक्तः प्रजातोऽसि विनायक त्वम् । भक्तानुकंपीति तवैव नाम वेदे कथं संकथितं महात्मन् ॥४१॥ किं लक्षलाभप्रभवार्थमेवं संसक्तभावैरसि विस्मरंश्च । मां रक्ष नो चेन्निगमस्य देव