मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 521, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ४९ पान १२३ ततो देवेंद्रमुख्याश्च रात्रौ देवाः समाययुः । तद् दृष्ट्वा गुप्तरूपेण पुपूजुस्तं गजाननम् ॥११॥ पूजयित्वा गताः सर्वे राजा तत्र समागतः । पूजां दृष्ट्वा महाभागो विस्मितोऽभूत् पुनः पुनः ॥१२॥ ततः स्वगुरवे गत्वा पप्रच्छ विनयान्वितः । देवदर्शन- कांक्षी कृतांजलिः स विशेषतः ॥१३॥ वीरभद्र उवाच । स्वामिन् देवगणाः पूजयितुं चात्र गजाननम् । नित्यमायांति तान् द्रष्टुमिच्छामि वद कारणम् ॥१४॥ शिवशर्मोवाच । निर्माल्यसंभवानि त्वं पुष्पाणि यत्र तत्र च । आच्छादय महीपाल तेषां ते दर्शनं भवेत् ॥१५॥ तथेति वीरभद्रेण कृतं देवालये पुनः । देवाः समागता रात्रावज्ञानेनाचरंस्ततः ॥१६॥ निर्माल्यस्पर्श- मात्रेण पुण्यहीना बभूविरे । पूजां कृत्वा पुनर्गंतुमिच्छां चक्रुः सुरेश्वराः ॥१७॥ ततोऽतिवेगहीनैश्र्च देवैर्देवेंद्रसत्तमैः । विचारेण समाज्ञातं कारणं गतिखंडने ॥१८॥ पादस्पर्शः कृतोऽस्माभिर्निर्माल्ये गणपस्य च । अतो गतिविहीनैश्र्च किं कर्तव्यं विशेषतः ॥१९॥ ततो राजा समायातः पूजार्थं देवसन्निधौ । निर्माल्यमार्जनं कृत्वा ददर्श देवमुख्यकान् ॥२०॥ तान् प्रणम्य महाभक्त्या तुष्टाव विविधैः स्तवैः । प्रसन्नास्ते च राजानमूचुः शंम्वादयः सुराः ॥२१॥ शिवादय ऊचुः । राजंस्त्वया कृतं कर्म स्वार्थभावेन दुःखदम् । देवानां तत्र चोपायं कुरु गतिप्रदायकम् ॥२२॥ ततो राजा भयोद्विग्नः स्वगुरुं प्रणिपत्य तम् । पप्रच्छ चलने तेषामुपायं पुण्यदं परम् ॥२३॥ गुरुणा बोधितो राजा हृदि ध्यात्वा गजाननम् । गणेशपूजया जातं पुण्यपुष्पं ददौ तदा ॥२४॥ अगाधपुण्ययोगेन देवा गतियुताः कृताः । विष्ण्वादयो जगुस्तं ते वरं वृणु महीपते ॥२५॥ अमोघं दर्शनं प्रोक्तमस्माकं शास्त्रसंमतम् । अतो मनेप्सितं भूप दास्यामो नात्र संशयः ॥२६॥ ततो राजा च ब्रह्माद्यानुवाच स कृतांजलिः । गणेशे दृढभक्तिर्मेऽस्तु भवत्कृपया परा ॥२७॥ ततस्ते विस्मिताः सर्वे प्रार्थयित्वा गजाननम् । ददुर्भाक्त गणेशानै ब्रह्मभूतपदप्रदाम् ॥२८॥ गताः स्वर्गेषु देवास्ते राजा तत्र समास्थितः । राज्यं पुत्रे विनिक्षिप्य बाले प्रधानसंयुते ॥२९॥ नित्यं गजाननं भक्त्याऽभजदनन्यचेतसा । अंते स्वानंदगो भूत्वा भजते गणनायकम् ॥३०॥ एवं निर्माल्यमाहात्म्यं संक्षेपेण निरूपितम् । पठनाच्छ्रवणात्नृभ्यो भुक्तिमुक्तिफलप्रदम् ॥३१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते गणेशनिर्माल्यमाहात्म्यवर्णनं नामैकोनपंचाशत्तमोऽध्यायः ॥