मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 522, कुल 1023 में से
संदर्भ में पढ़ेंपान १२४
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पार्श्वेण मुनिना पूर्वं दीपवत्सलया सह । पत्न्या परमसत्या वै तपसाऽऽराधितो विभुः ॥१॥ दशवर्षसहस्रेषु गणेशो वरदोऽभवत् । स्तुतः संपूजितस्तेन नानास्तोत्रैः प्रजापते ॥२॥ ताभ्यां पुत्रो भव स्वामिन् वृतस्तवन्नौ वरो महान् । तथेति गणराजस्तौ कथयित्वा ययौ पुरम् ॥३॥ ततः कदाचिद्देवर्षिर्नारदस्त्विन्द्रमाययौ । पूजितः सुरनाथेन जगाद वचनं हितम् ॥४॥ नारद उवाच । हिमवत्यां हिमप्रांते राजा मदसमन्वितः । अभिनन्दन एवाऽसौ यज्ञं करोति दुर्मतिः ॥५॥ ब्राह्मणान् स समानीय प्रोवाच बलगर्वितः । यज्ञमिन्द्रेण हीनं मे कुरुध्वं यत्नसंयुताः ॥६॥ नो चेत् सर्वान् हनिष्यामि क्रोधयुक्तो महर्षयः । तस्य तद्वचनं श्रुत्वा तथेति ब्राह्मणा जगुः ॥७॥ अद्य श्वो वा करिष्यंति यज्ञं भयसमन्विताः । ब्राह्मणा नात्र संदेहो यथेच्छसि तथा कुरु ॥८॥ एवमुक्त्वा महायोगी नारदः प्रययौ ततः । वैकुंठे स महाविष्णुं ततः स्वच्छंदगोऽभवत् ॥९॥ इंद्रः क्रोधसमाविष्टः सस्मार कालरूपिणम् । भगवंतं महाकायमिंद्रं स प्रययौ प्रभुः ॥१०॥ तं प्रणम्य प्रतुष्टाव कथयामास दुःखदम् । वृत्तांतं प्रार्थयामास यज्ञविध्वंसनाय तम् ॥११॥ कालस्तथेति तं तुष्टः कथयित्वा ययौ धराम् । धारयामास मनसि कालः कलयतां प्रभुः ॥१२॥ कालाधीनं जगत् सर्वं सदा कालेन भुज्यते । कालं योगबलेनैव जयंत्यत्र हि योगिनः ॥१३॥ तत्रादौ कर्मसंशुद्धा योगनिष्ठा भवंति च । अतः कर्मविनाशार्थं यतिष्येऽहं विशेषतः ॥१४॥ कर्महीना नराः सर्वे मलिनाः संभवंति च । नेच्छंति योगमार्ग ते भविष्यंति मदात्मकाः ॥१५॥ जन्ममृत्युयुताः सर्वे मदधीना न संशयः । इंद्रेण प्रेरितस्तत्र च्छद्म नैव करोम्यहम् ॥१६॥ विचार्य काल इति स आसुरं रूपमादधे । विघ्नरूपेण तं भूपं ययौ क्रोधसमन्वितः ॥१७॥ यज्ञं बभंज वेगेन ब्राह्मणांस्ताडयन् पुरा । ततो नानास्थले दुष्टो ह्यगमद्विघ्नरूपधृक् ॥१८॥ कर्मखंडनभावेन चचार बलमोहितः । सर्वत्र कर्मलोपाय विघ्नेनापीड्य मानवान् ॥१९॥ ततः सोऽपि महावेगो जनान् कालेन मोहयन् । भ्रामयामास विप्रान् योगिनो नानास्वरूपधृक् ॥२०॥ प्रातःकालं चकाराऽसौ निशीथं सायमादरात् । मध्याह्नं कारयामास नानाभ्रमकरः सदा ॥२१॥ चकार रात्रिरूपं स दिवसं कर्मखंडकः । रात्रिं दिवसरूपां तां वक्तुं नैव प्रशक्यते ॥२२॥ लोकान् भ्रमयुतान् सर्वान् कर्महीनांश्चकार सः । चंद्रमाच्छाद्य कालस्तु सूर्यं नक्षत्राकादिकान् ॥२३॥ ततोऽतिभयसंयुक्ता देवा भ्रांता बभूविरे । कर्महीनप्रभावेण चोपोषणपरायणाः ॥२४॥ न समर्था बभूवुस्ते कालं चलयितुं प्रभुम् । कालाधीनाः सुराः सर्वे सृष्टिस्थितिलयात्मकाः ॥२५॥ ततो वसिष्ठमुख्याश्च ब्रह्माणं