मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 527, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ५२ पान १२९ पूर्णं मया वक्तुं न शक्यते ॥१९॥ यात्रामात्रेण तत्रैव चतुर्विधफलं लभेत् । मरणे ब्रह्मभूतश्च नरो भवति निश्चितम् ॥२०॥ संक्षेपेण मया तुभ्यं कथितं क्षेत्रगं महत् । माहात्म्यं विस्तरेणैव कोऽपि नार्हति निश्चितम् ॥२१॥ इदं गजाननस्यापि चरितं सर्वसिद्धिदम् । भविष्यति महाभाग सर्वसौख्यकरं तथा ॥२२॥ नानाख्यानसमायुक्तं कथितं ते प्रजापते । यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम् ॥ भविष्यति महाभाग सर्वसौख्यकरं तथा ॥२३॥ नानेन सदृशं किंचित् पावनं ब्रह्मदायकम् । विद्यते सर्वशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥२४॥ स्वर्णभारसहस्राणि नित्यं यो वै ददाति चेत् । तदस्य श्रवणान् मर्त्यो लभते नात्र संशयः ॥२५॥ गोदानानि नरो यस्तु ददाति भक्तिसंयुक्तः । नित्यं सहस्रशो दक्ष फलं प्राप्नोति शाश्वतम् ॥२६॥ नानादानानि यो दद्याद्ब्राह्मणेभ्यो यथाविधि । तेषां पुण्यफलं भुक्त्वा पतति मानवो भुवि ॥२७॥ अस्य श्रवणमात्रेण भुक्त्वा भोगान् मनेप्सितान् । अंते स्वानंदगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥२८॥ नानायज्ञादिकं कर्म कुरुते मानवः सदा । नास्य श्रवणमात्रेण कलांशमपि तत् फलम् ॥२९॥ जन्ममृत्युप्रदान्येव कर्माणि सकलानि च । इदं सर्वप्रदं प्रोक्तमंते ब्रह्मप्रदायकम् ॥३०॥ संक्षेपेण प्रजानाथ कथितं सुखदं परम् । गजाननस्य माहात्म्यं किं भूयः श्रोतुमिच्छसि ॥३१॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । श्रुत्वा दक्षोऽपि संहृष्टो बभूव मुनिसत्तम ॥३२॥ मयाऽपि कथितं सर्वं माहात्म्यं पूर्णसिद्धिदम् । तुभ्यं विप्रर्षियुक्ताय यथा मुद्गलभाषितम् ॥३३॥ धन्योऽहं कृतकृत्योऽहं भवतां संगमेन वै । गणेशामृतधारायां प्रवृत्तः सर्वभावतः ॥३४॥ गणेशान्न परं किंचित् सर्वादौ तेन स स्मृतः । सर्वपूज्यश्च विप्रर्षे ब्रह्मेशो ब्रह्मदः परः ॥३५॥ श्रुतं त्वया महाभाग ब्राह्मणैः शास्त्रकोविदैः । अधुना किं च ते विप्र इच्छा श्रोतुं वदस्व ताम् ॥३६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चरित्रमाहात्म्यवर्णनं नाम द्विपंचाशत्तमोऽध्यायः ॥ ॥ इति चतुर्थः खंडः समाप्तः ॥