मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 526, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ५२ | पान १२८ न शक्यते ॥४९॥ इत्याद्या बहवो भेदा गजाननस्य सिद्धिदाः । तांश्च ज्ञातुं कोऽर्हति वर्णयितुं वा प्रजापते ॥५०॥ संक्षेपेण मया तुभ्यं कथितं पापनाशनम् । चरितं विघ्नराजस्य मुक्तिमुक्तिफलप्रदम् ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते विघ्नराजावतारवर्णनं नामैकपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गजाननस्य क्षेत्रं मे वद कुत्र प्रतिष्ठितम् । माहात्म्यं तस्य विप्रेश संक्षेपेण सुसिद्धिदम् ॥१॥ मुद्गल उवाच । दिशांते नैर्ऋते कोणे देवैर्मुनिभिरादरात् । स्थापितो गणनायश्च गजवक्त्रावतारधृक् ॥२॥ द्वीपेषु स्वस्वखंडेषु विभुर्नैर्ऋतकोणगः । पूज्यते मानवैः सर्वैर्देवैश्च मुनिभिस्तथा ॥३॥ भाद्रशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः । मध्याह्नसमये दक्ष पुरा सोत्सववर्धिनी ॥४॥ तस्यां यात्रां प्रकुर्वंति जना भक्तिपरायणाः । त्रिलोकस्था विशेषेण नानासिद्धिप्रवृद्धये ॥५॥ दशयोजनविस्तारो विभुः क्षेत्रस्य मध्यगः । मूषकश्चतुरस्रस्य पुरतस्तिष्ठति प्रभोः ॥६॥ सिद्धिस्तस्याऽपि वामांगे दक्षिणांगे च बुद्धिका । अष्टदिक्षु प्रजानाथ सिद्धयोऽष्टौ व्यवस्थिताः ॥७॥ अष्टमातृगणः पश्चात्ततोऽष्टौ भैरवा मताः । दशदिक्षु च दिक्पालाः सशस्त्राः संस्थिताः प्रभोः ॥८॥ शिवविष्णुमुखा देवा वामांगे संस्थिता विभोः । काश्यादिमुख्यक्षेत्राणि गंगाद्याश्च तथोत्तरे ॥९॥ मुनयः शेषकाद्याश्च पृष्ठभागे व्यवस्थिताः । भक्ता मुद्गलमुख्याश्च पुरतः संस्तुवंति तम् ॥१०॥ त्रिलोकेषु च ये मुख्यास्ते सर्वे तत्र संस्थिताः । अंशेन देवसेवार्थं स्वाधिकारेषु मानद ॥११॥ तीर्थेषु स्नानकर्त्तारः समुद्रे भक्तिसंयुताः । स्वस्वनाम्नांकितेष्वेव स्वल्पदेहधरा अपि ॥१२॥ परस्परं बोधयंतो गजाननचरित्रकम् । नृत्यंति ते हसंत्येव देवचेष्टापरायणाः ॥१३॥ गणेशतीर्थं वै तत्र गजाननसुसिद्धिदम् । तत्र स्नानं प्रकुर्वंति ये नरास्ते प्रजापते ॥१४॥ कृतकृत्या न संदेहो मनेप्सितफलप्रदे । तत्र यात्रां प्रकुर्वंति चतुर्विधफलप्रदाम् ॥१५॥ धन्यास्ते पुरुषा लोके कृतकृत्या भवंति वै । वसंति ये यत्र कुत्र गजाननपरायणाः ॥१६॥ ब्रह्मभूताश्च ते प्रोक्ता दर्शनात् पापनाशनाः । अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवंति चेत् ॥१७॥ ते तस्य लोकमासाद्य भोगान् भुंजंति शाश्वतान् । तदंते गणनांथं वै गच्छंति ब्रह्मसिद्धये ॥१८॥ तत्र सिद्धिं गता नाना नरा नार्यश्च भो विधे । तेषां चरित्रकं