मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 525, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ५१ पान १२७
एवं स्तुत्वा महाविघ्नः प्रणनाम गजाननम् । तमुत्थाप्य जगादेदं वचनं सर्वदः परः ॥२६॥ श्रीगजानन उवाच । त्वया कृतं मदीयं वै स्तोत्रं सर्वप्रदं भवेत् । कालस्य न भयं तेषां पठतां शृण्वतां सदा ॥२७॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । महायोगप्रदं चास्तु स्तोत्रं मत्प्रीतिवर्धनम् ॥२८॥ हंतुं त्वां क्रोधसंयुक्त आगतोऽहं न संशयः । वाञ्छितं वृणु नो हन्मि अधुना शरणार्थिनम् ॥२९॥ महाकाल उवाच । भक्तिं देहि त्वदीयां मे सुदृढां तां गजानन । दासरूपेण मां नाथ रक्षस्व त्वत्समीपगम् ॥३०॥ ब्रह्मेश कार्यं कथय तत् करिष्यामि यंत्रितः । स्थानं भक्ष्ययुतं देहि तत्र तिष्ठामि नित्यशः ॥३१॥ मन्नामपूर्वकं नाम कुरु त्वं ते गजानन । सर्वसिद्धिकरं नाथ पूर्णयोगप्रदं परम् ॥३२॥ जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् । निर्विकल्पं मनस्तस्य ज्ञात्वा भक्तप्रपालकः ॥३३॥ श्रीगजानन उवाच । मदीया भक्तिरचला भविष्यति तवाऽनघ । यद्यदिच्छसि तत्तत्ते सफलं चास्तु सर्वदा ॥३४॥ मत् समीपे गणो भूत्वा तिष्ठ त्वं बलसंयुतः । महाविघ्नस्वरूपेण नानाविघ्नगणैर्वृतः ॥३५॥ विघ्नराजेति मन्नाम भविष्यति सुसिद्धिदम् । ब्रह्मभूयकरं पूर्णं वाञ्छितार्थप्रदायकम् ॥३६॥ यत्र मे स्मरणं नास्ति कर्मादौ पूजनं तथा । तत् सर्वं भुंक्ष्व विघ्न त्वं अंशयित्वा सुरेंद्रकान् ॥३७॥ शिवविष्णुमुखा देवा अन्ये मुनिमुखा नराः । शेषाद्या नागराजास्ते नानाजंतव एव च ॥३८॥ अहंकोरेण संयुक्ता भवंति यदि तेऽसुर । तदा तान् अंशयित्वा त्वं भुंक्ष्व भोगान् यथेप्सितान् ॥३९॥ मद्भक्तिकारिणः सर्वे त्वया पाल्या विशेषतः । तेषां निर्विघ्नभावेन पुरो भावपरो भव ॥४०॥ एवमुक्त्वांतर्दधेऽसौ गजाननः प्रतापवान् । विघ्नो विघ्नैः समायुक्तः शांतरूपो बभूव ह ॥४१॥ देवा मुनिमुखाः सर्वे स्वस्वस्थानं ययुस्ततः । सपत्नीकस्तत्र पार्श्वो मूर्च्छितोऽभूत् प्रजापते ॥४२॥ तयोर्हृदि गणाधीशः प्रकटो- ऽभूद्वचोऽब्रवीत् । मां चिंतामणिरूपं ते पश्य तात हृदि स्थितम् ॥४३॥ मूतौं पूजनमात्रेण हृदि ध्यानेन मानदौ । संतुष्टौ जनकौ नित्यं संशयो न भविष्यथः ॥४४॥ यदा मे स्मरणं तातौ महाकार्ये करिष्यथः । द्रक्ष्यथो मां न संदेहो योगशांतौ भविष्यथः ॥४५॥ एवमुक्त्वांतर्दधे सोऽपि गणेशो हृदि रूपधृक् । तौ स्वस्थौ मूर्तिमास्थाप्य निरंतरमपूजताम् ॥४६॥ इति ते गणराजस्य कथितं चरितं महत् । अंशा गजाननस्यैते अवतारा विधे स्मृताः ॥४७॥ वरेण्यपुत्रभावेन बभूव ह गजाननः । कस्मिन् काले वधार्थाय सिंदूरस्य न संशयः ॥४८॥ कल्पभेदानुसारेण नानारूपधरः प्रभुः । गजाननो ह्यभूच्चूर्णयितुं वापि
ग. पु. १७